"महाभारतम्-03-आरण्यकपर्व-201" इत्यस्य संस्करणे भेदः

{{header | title = महाभारतम् | author = वेदव्यासः | translator = | sect... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">वैशम्पायन उवाच
 
भूय एव महाभाग्यं कथ्यतामित्यब्रवीत् पाण्डवो मार्कण्डेयम् । अथाचष्ट मार्कण्डेयः । अष्टकस्य वैश्वामित्रेरश्वमेधे सर्वे राजानः प्रागच्छन् ।। १ ।।
 
भ्रातरश्चास्य प्रतर्दनो वसुमनाः शिबिरौशीनर इति । स च समाप्तयज्ञो भ्रातृभिः सह रथेन प्रायात् । ते च नारदमागच्छन्तमभिवाद्यारोहतु भवान् रथमित्यब्रुवन् ।। २ ।।
 
तांस्तथेत्युक्त्वा रथमारुरोह । अथ तेषामेकः सुरर्षिं नारदमब्रवीत् । प्रसाद्य भगवन्तं किंचि- दिच्छेयं प्रष्टुमिति ।। ३ ।।
 
पृच्छेत्यब्रवीदृषिः । सोऽब्रवीदायुष्मन्तः सर्व- गुणप्रमुदिताः । अथायुष्मन्तं स्वर्गस्थानं चतुर्भि- र्यातव्यं स्यात् कोऽवतरेत् । अयमष्टकोऽवतरेदित्यब्रवीदृषिः ।। ४ ।।
 
किं कारणमित्यपृच्छत् । अथाचष्टाष्टकस्य गृहे मया उषितं स मां रथेनानुप्रावहदथापश्यमनेकानिगोसहस्राणि वर्णशो विविक्तानि तमहमपृच्छं कस्येमे गाव इति सोऽब्रवीत् । मया निसृष्टा इत्येतास्तेनैव स्वयं श्लाघति कथितेन । एषोऽवतरेदथ त्रिभिर्यातव्यं साम्प्रतं कोऽवतरेत् ।।
 
प्रतर्दन इत्यब्रवीदृषिः । तत्र किं कारणं प्रत- र्दनस्यापि गृहे मयोषितं स मां रथेनानुप्रावहत् ।।६।।
अथैनं ब्राह्मणोऽभिक्षेताश्वं मे ददातु भवान् निवृत्तो दास्यामीत्यब्रवीद् ब्राह्मणं त्वरितमेव दीयतामित्यब्रवीद् ब्राह्मणस्त्वरितमेव स ब्राह्मणस्यैवमुक्त्वा दक्षिणं पार्श्वमददत् ।। ७ ।।
 
अथान्योऽप्यश्वार्थी ब्राह्मण आगच्छत् । तथैव चैनमुक्त्वा वामपार्ष्णिमभ्यदादथ प्रायात् पुनरपि चान्योऽप्यश्वार्थी ब्राह्मण आगच्छत् त्वरितोऽथ तस्मै अपनह्य वामं धुर्यमददत् ।। ८ ।।
 
अथ प्रायात् पुनरन्य आगच्छदश्वार्थी ब्राह्मण- स्तमब्रवीदतियातो दास्यामि त्वरितमेव मे दीयतामित्यब्रवीद् ब्राह्मणस्तस्मै दत्त्वाश्वं रथधुरं गृह्णता व्याहृतं ब्राह्मणानां साम्प्रतं नास्ति किंचिदिति ।।९।।
 
य एष ददाति चासूयति च तेन व्याहृतेन तथावतरेत् । अथ द्वाभ्यां यातव्यमिति कोऽव- तरेत् ।। १० ।।
 
वसुमना अवतरेदित्यब्रवीदृषिः ।। ११ ।।
 
किं कारणमित्यपृच्छदथाचष्ट नारदः । अहं परिभ्रमन् वसुमनसो गृहमुपस्थितः ।। १२ ।।
 
स्वस्तिवचनमासीत् पुष्परथस्य प्रयोजनेन तमहमन्वगच्छं स्वस्तिवाचितेषु ब्राह्मणेषु रथो ब्राह्मणानां दर्शितः ।। १३ ।।
 
तमहं रथं प्राशंसमथ राजाब्रवीद्भगवता रथः प्रशस्तः । एष भगवतो रथ इति ।। १४ ।।
 
अथ कदाचित् पुनरप्यहमुपस्थितः पुनरेव च रथप्रयोजनमासीत् । सम्यगयमेष भगवत इत्येवं राजाब्रवीदिति पुनरेव तृतीयं स्वस्तिवाचनं समभावयमथ राजा ब्राह्मणानां दर्शयन् मामभि-
 
 
 
</span></poem>
 
{{महाभारतम्/आरण्यकपर्व}}
{{महाभारतम्}}
"https://sa.wikisource.org/wiki/महाभारतम्-03-आरण्यकपर्व-201" इत्यस्माद् प्रतिप्राप्तम्