"शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १८:
 
४ वाजप्रसवीयहोमः-तत्र च वाजप्रसवीयहोमं विधाय तत्प्रयोजनकथनद्वारा तस्य पदस्य प्रवृत्तिनिमित्तप्रदर्शनं, पूर्वं वसोर्धारया प्रीणितस्याभिषिक्तस्य चाग्नेरयं वाजप्रसवीयो होमो भूयः प्रीणनाभिषेकहेतुर्भवतीति प्रशंसनं, प्रकृतहोमे द्रव्यविशेषं विधाय तत्प्रशंसनं, प्रसङ्गात्तेषां चतुर्दशानामन्नानां मध्ये एकमन्नं परित्यजेत्किञ्च तदन्नं यावज्जीवं नाश्नीयादित्यभिधानं, तत्रैव होमे स्तावकार्थवादातिदेशसहित. मौदुम्बरं स्रुवचमसलक्षणं पात्रविशेषं विधाय तयोः स्रुवचमसयोराकारविशेषं च विधाय तत्प्रशंसनं, पुनस्तस्यैव वाजप्रसवीयहोमस्य प्रकारान्तरेण प्रशंसनं, पार्थहोमविधानं, तानि पार्थानि प्रकृतस्य वाजप्रसवीयस्याभितो जुहुयादिति सप्रयोजनमभिधानं, पूर्वोक्तप्रकारेण होमेन सर्वाभिषेकसिद्धिः कथमिति प्रश्ने सोपपत्तिकं तदुत्तरप्रतिपादनं, राजसूयवाजपेयसम्बन्धिनां वाजप्रसवीयकर्मणां पौर्वापर्ये कारणकथनम् , आग्निकानामुत्तमत्वस्योपपादनम ।
अभिषेकः--तत्रेत्थं सक्रमं, पार्थहोममभिधायेदानीं यजमानस्य कृष्णाजिनेऽभिषेकं विधाय तस्य कृष्णाजिनस्य यज्ञात्मना प्रशंसनं "कृष्णाजिनेऽभिषिञ्चति" इति सामान्येन विधानान्निर्लोमप्रदेशे कदाचिदभिषेकः स्यादिति कस्यचित्प्रतिप्रत्तिः स्यात्तस्या निवारणार्थं लोम्नां छन्दोरूपत्वेन प्रशंसनद्वारा कृष्णाजिनस्य सलोमकत्वप्रतिपादनं, स चाभिषेक उत्तरभागे कर्तव्य इति स्तावकार्थवादातिदेशसहितं निरूपणं, कृष्णाजिनस्य संस्थानविशेषं विधाय तत्प्रशंसनं, अभिषेकस्थानविषये सोपपत्तिकं केषाञ्चिच्छाखिनां मतमनूद्य तन्निरसनं, तथैवान्येषां मतमनूद्य तन्निरसनं, उत्तरतः कर्तव्यस्याभिषेकस्य गुणविशेषकथनेन प्रशंसनं, प्राप्तैश्वर्यस्य प्राप्स्यमानैश्वर्यस्य च यजमानस्याभिषेकसंस्थानविशेषस्य विधानं, फलविशेषानुरोधेन धर्मविशेषेऽभिषेकस्य विधानं, विवक्षितस्थानसंस्थान विशेषविशिष्टस्य कृष्णाजिनास्तरणस्य विधानं कृष्णाजिनस्य परिश्रितां स्पर्शो यजमानसम्बन्धिदेवात्माऽभिषेकहेतुर्भवतीति प्रशंसनं, प्रकारान्तरेणापि दैवस्यात्मनोऽभिषेकस्य सिद्धिप्रदर्शनं, अग्नेर्यजअग्नेर्यजमानदैवात्मत्वमुपजीव्य पार्थादिहोमस्याभिषेकस्य च पौर्वापर्यमुपपाद्यास्मिन्नवसरे होमसाधनभूतमौदुम्बरं स्रुवमनुप्रास्येदिति सकारणं विधानं, कृष्णाजिनास्तरणादिकार्यानंतरमस्य यजमानस्याभिषेकमभिधाय तत्र मंत्रं च विनियुज्य तस्य व्याख्यानम् , तदभिषेकसाधनभूतं चमसमग्नौ प्रास्येदिति सकारणमभिधानम् , अभिषेकस्य पूर्वोत्तरपार्थमध्यवर्तित्वस्य प्रशंसनं, पार्थानां पृथग्भूतायाः षट्संख्यायाः प्रशंसनं, पूर्वेषामुत्तरेषां च पार्थमन्त्राणां क्रमाद्बृहस्पतीन्द्रदेवताप्रतिपादकत्वमभिधाय तत्प्रशंसनं चेत्यादि.