"आर्षेयकल्पः/अध्यायः ०७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७२८:
अहीनः--ऋतूनां षडहः [अ. ७. ख. २४]
 
षष्ठस्याह्नः --ज्योतिर्यज्ञस्य (सा० १०३१-३) असृक्षत प्र वाजिनः (सा० १०३४-६) पवस्व देववीरति-( सा० १०३७-४६)दशर्चम् । सना-(सा० १०४७-५६ )दशर्चम् । तरत्सम-( सा० १०५७-६०) चतुर्ऋचम् । एते सोमा ( सा० १०६१-३) इति बहिष्पवमानम् । इमम्-प्रति-भिन्धि-यज्ञस्ये ( सा० १०६४-७५ )त्याज्यानि । इन्द्रायेन्दो मरुत्वत (सा० १०७६-८) इति गायत्रं च इषोवृधीयं (ऊ० ३.१.१९) च गायत्री-क्रौञ्चं (ऊ० ३.१.२०) च वाजदावर्यश्च (ऊ० ३.२.१) रेवत्यश्च (र० १.२.७)। मृज्यमानः सुहस्त्ये-(सा० १०७९-८०)ति औक्ष्णोरन्ध्रे च स्वारैडे (ऊ० ३.२.२-३) । वाजजिच्च (ऊ० ३.२.४) वरुणसाम (ऊ० ३. २. ५) च गोष्ठं (ऊ० ३. २. ६) च । एतमु त्यं दक्ष क्षिप (सा० १०८१-३) इतीहवद्वामदेव्य-(ऊ० ३.२.७)मन्त्यम् । रेवतीषु वारवन्तीयं (ऊ० ३. २. ८) च वामदेव्यं ( ऊ० १.१. ५) च ऋषभश्च रैवतः (र० १. ८. ) श्येनश्चे-(ऊ० २३.१.१८)ति पृष्ठानि । परिस्वानो (सा० १०९३-५) गायत्रं च त्रीणि वैदन्वतानि (ऊ० ३.२.९-११)। स सुन्वे यो वसूनां (सा० १०९६-७) तं वः सखायो मदाये-( सा० १०९८-१०० )ति दीर्घं (ऊ० ३.२.१२) च कार्णश्रवसं (ऊ० ३.२.१३) च । सोमाः पवन्त इन्दव (सा० ११०१-३) इति स्वारं च क्रौञ्चं (ऊ० १६.१.१) च [https://sa.wikisource.org/s/1z89 मधुश्चुन्निधनं] (ऊ० ३. २. १५) च क्रौञ्चे च वाङ्निधनैडे (ऊ० ३.२.१६-७)। अया पवस्वे-(सा० ११०४-६)ति श्नौष्ट(ऊ० ३. २. १८)मन्त्यम् । सोमाः पवौहो इति स्वारं क्रौञ्चम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। गूर्दं (ऊ० ३.२.१९) च भद्रं (र० १. २. १०) चोद्वंशपुत्र-(ऊ० ३.२.२०)श्चेत्युक्थानि । सर्वं त्रयस्त्रिंशम् ॥
आहीनिकी रात्रिः पञ्चदशिनी। त्रिवृत्संधिः । षोडशि नास्ति । उद्वंशपुत्राद्रात्रिमुपयन्तीति वचनात् ॥
इति व्यूढः समाप्तः।।
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०७" इत्यस्माद् प्रतिप्राप्तम्