"लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०७०" इत्यस्य संस्करणे भेदः

{{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं ग्राहयेत् सद्गुरोर्मनून् ।
सहस्रशाखाध्यायी च सर्वयज्ञेषु दीक्षितः ।। १ ।।
तापसो विप्रवर्योऽपि न गुरुः स्यादवैष्णवः ।
महाभागवतो यश्च मम ध्यानपरायणः ।। २ ।।
भक्तिमार्गप्रदेष्टा वैष्णवो गुरुर्भवेद् बुधः ।
आचार्यः सद्गुरुः साधुर्भवबन्धविदारकः ।। ३ ।।
तस्मान्मन्त्रान् हि गृह्णीयादोंकारसहितान् शुचिः ।
आदौ सर्वत्र मन्त्राणां योजयेत् प्रणवं प्रभुम् ।। ४ ।।
ओंकारोऽहं परव्रह्म प्रणवो मन्त्रनायकः ।
ओमित्येकाक्षरं पूर्वं चतुर्थ्यन्ता ममाऽभिधा ।। ५ ।।
ततश्च द्व्यक्षरं नाम नमः इत्येवं पूरयेदपि ।
'ओं श्रीकृष्णनन्दजाय नमः' एवं वदेद् गुरुः ।। ६ ।।
मन्त्रचतुष्टयं श्रेष्ठं मन्त्रदशकमुत्तमम् ।
सप्त द्वादश च द्वे च गायत्र्यश्चोत्तमा मम ।। ७ ।।
त्रयोदश तथा मन्त्रास्त्रयः श्रेष्ठाः सदा मम ।
त्रयस्त्रिंशदवतारमन्त्राः श्रेष्ठास्तथा मम ।। ८ ।।
त्रयोस्त्रिंशच्छ्रियो मन्त्राः श्रेष्ठाः सर्वे मता मम ।
एको वा सर्व एवापि ह्यनेके वा यथेष्टकम् ।। ९ ।।
ग्राह्या मन्त्रा हि शिष्येण गुरुः परीक्ष्य वाऽर्पयेत् ।
पञ्चदशोर्ध्वशतमन्त्रदेवोऽस्मि हरिः स्वयम् ।। १ ०।।
त्रयस्त्रिंशन्मम मन्त्राश्चान्ये मद्रूपवर्णिनः ।
रूपरूपितादात्म्याद्वै युज्यन्ते मयि सर्वशः ।। ११ ।।
यो भक्तो यत्स्वरूपस्य तन्मन्त्रं शृणुयाद् गुरोः ।
परब्रह्मतरोः शाखाः शतं च दश पंच च ।। १२।।
तानि तानि च रूपाणि तत्तन्मन्त्रैः प्रपूज्य च ।
आराध्य मत्स्वरूपाणि यास्यन्त्येव हि मां हरिम् ।। १३।।
परब्रह्मसम्प्रदायाः सर्वे मेंऽगानि पद्मजे ।
मदुत्पन्नमिदं सर्वं मत्तो नैवातिरिच्यते ।। १४।।
अनादिश्रीकृष्णनारायणे प्रोता मयीश्वराः ।
अवतारास्तथा मुक्ता जीवाः प्रोता हरौ मयि ।। १५।।
अवतारिण्य एवेमाः शक्तयो मयि संस्थिताः ।
सर्वा मन्त्रस्वरूपिण्यः प्रोता मयि हरौ प्रभौ ।। १६।।
इतिविज्ञाय मन्त्राणां शतं पंचदशाधिकम् ।
विद्वान् विज्ञाय दद्याद्वै विदुषे त्वधिकारिणे ।। १७।।
स स्याद् आचार्यसम्राट् वै सर्वमन्त्रप्रदो गुरुः ।
'परब्रह्मसम्प्रदायाऽऽचार्यसम्राट' निगद्यते ।। १८।।
न्यूनमन्त्रप्रदा न्यूना आचार्यास्ते भवन्ति वै ।
स्वतःप्रकाशोभगवान् स्थाप्यते वै मया गुरुः ।। १९।।
'परब्रह्मसम्प्रदायाऽऽचार्यसम्राट् मनुप्रदः ।
सर्वमनूपदेष्टा स मत्स्वरूपो भवत्यपि ।।२०।।
त्वं लक्ष्मीश्च तथा गुर्वी स्थाप्यते वै मया प्रिये ।
'परब्रह्मसम्प्रदायाचार्यसम्राज्ञी' मन्त्रदा ।।२१।।
सर्वमनूपदेष्ट्री त्वं मत्स्वरूपात्मिका ह्यसि ।
किं च लक्ष्मि शृणु चान्यन्मन्त्रे यन्नाम विद्यते ।।२२।।
स तन्मनोस्तथाऽऽचार्यः, मदंशो वर्तते सदा ।
सा तन्मनोस्तथाऽऽचार्याणी च बोध्या मदाज्ञया ।।।२३।।
एवं मनून् नियुञ्जीत गृह्णीयाच्च गुरोर्मुखात्। ।
सबीजोऽयं भवेन्मन्त्रो गुरोस्तैजसभासुरः ।।२४।।
दैवबलो गुरोर्बली मनुर्मोक्षप्रदो भवेत् ।
शिष्यबलोऽधिकः स्याद्वै मनुर्भुक्तिप्रमुक्तिदः ।।२५।।
बीजं सर्वत्र मन्त्रेषु कृष्णकान्तोऽहमेव तु ।
नित्याऽनपायिनी शक्तिः श्रीर्लक्ष्मीर्विद्यते मनौ ।।२६।।
ओंकारो मेऽभिधानं श्रि! अकाराऽहं परेश्वरः ।
उकारः श्रीस्त्वमेवासि मकारो भक्त एव मे ।।२७।।
अकारोऽहं परात्मा च उकारश्चेश्वरा मताः ।
मकारश्च जीववृन्दा तदात्मा ओं मतो मम ।।२८।।
अकारश्चानिरुद्धश्च उकारस्तु प्रद्यम्नकः ।
मकारः संकर्षणस्त्रेधा ओमित्यहं श्रीहरिः ।।२९।।
अकारश्च स्वयं विष्णुरुकारः शंकरस्तथा ।
मकारश्च विश्वसृड् वै त्रेधाऽहं परमेश्वरः ।।३ ०।।
अकारश्चाऽक्षरं ब्रह्म उकारो मुक्तकोटयः ।
मकारश्चावतारा मे त्रेधाहं पुरुषोत्तमः ।।३ १ ।।
अकारो ब्रह्मसृष्टिर्मे उकारश्चेश्वरसृजिः ।
मकारो जीवसृष्टिश्च त्रेधाहं परमेश्वरः ।।३२।।
अकारोऽहं परब्रह्म उश्च ब्रह्मप्रिया मम ।
मश्च हरिप्रियाः सर्वास्त्रेधाऽहं परमः प्रभुः ।।३३।।
अहं स्वामी स्वामिनी त्वं शेषा दासास्तथा परे ।
एवं मे विद्यते हार्दं प्रणवार्थे हि दासता ।।३४।।
 
</span></poem>