"गरुडपुराणम्/आचारकाण्डः/अध्यायः ९" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem>
'''।।हरिरुवाच ।।'''
समये (या) दीक्षितः शिष्यो बद्धनेत्रस्तु वाससा ।।
अष्टाहुतिशतं तस्य मूलमन्त्रेण होमयेत् ।। 9.1 ।।
 
द्विगुणं पुत्रके होमं त्रिगुणं साधके मतम् ।।
निर्वाणदेशिके रुद्र ! चतुर्गुणमुदाहृतम् ।। 9.2 ।।
 
गुरुविष्णुद्विजस्त्रीणां हन्ता बध्यस्त्व(श्च)दीक्षितैः ।।
अथ दीक्षां प्रवक्ष्यामि धर्माधर्मक्षयङ्करीम् ।। 9.3 ।।
 
उपवेश्य बहिः शिष्यान्धारणं तेषु कारयेत् ।।
वायव्या कलया रुद्र शोष्यमाणान्विचिंतयेत् ।। 9.4 ।।
 
आग्नेय्या दह्यमानांश्च प्लावितानम्भसा पुनः ।।
तेजस्तेजसि तं जीवमेकीकृत्य समाक्षिपेत् ।। 9.5 ।।
 
प्रणवं चिन्तयेव्द्योम्नि शरीरेऽन्यत्तु कारणम् ।।
एकैकं यो जयेत्तत्र क्षेत्रज्ञं देहकारणात् ।। 9.6 ।।
 
उत्पाद्य योजयेत्पश्चादेकैकं वृषभध्वज ।।
मण्डलादिष्वशक्तस्तु कल्पयित्वाऽर्चयेद्धरिम् ।। 9.7 ।।
 
चतुर्द्वारं भवेत्तच्च ब्रह्मतीर्थादनुक्रमात् ।।
हस्तं पद्मं समाख्यातं पत्राण्यङ्गुलयः स्मृताः ।। 9.8 ।।
 
कर्णिकातलहस्तन्तु नखान्यस्य तु केशराः ।।
तत्रार्चयेद्धरिं ध्यात्वा सूर्य्येन्द्वग्नयन्तरेव च ।। 9.9 ।।
 
तं हस्तं पातयेन्मूर्ध्नि शिष्यस्य तु समाहितः ।।
हस्ते विष्णुः स्थितो यस्माद्विष्णुहस्तस्ततस्त्वयम् ।।
नश्यन्ति स्पर्शनात्तस्य पातकान्यखिलानि च ।। 9.10 ।।
 
गुरुः शिष्यं समभ्यर्च्य नेत्रे बद्धे तु वाससा ।।
देवस्य प्रमुखं कृत्वा पुष्पमेवार्पयेत्ततः ।।
पुष्पं निपतितं यत्र मूर्ध्नो देवस्य शार्ङ्गिणः ।। 9.11 ।।
 
तन्नाम कारयेत्तस्य स्त्रीणां नामांकितं स्वयम् ।।
शूद्राणां दाससंयुक्तं कारयेत्तु विचक्षणः ।। 9.12 ।।
 
।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुदीक्षानिo नाम नवमोऽध्यायः ।। 9 ।।
</poem>
[[वर्गः:गरुडपुराणम्]]