"तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ६/प्रपाठकः ६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५७:
6.6.10 अनुवाक 10 अंशुग्रहकथनम्
1 देवा वै प्रबाहुग् ग्रहान् अगृह्णत स एतम् प्रजापतिर् अꣳशुम् अपश्यत् तम् अगृह्णीत तेन वै स आर्ध्नोत् । यस्यैवं विदुषो ऽꣳशुर् गृह्यत ऋध्नोत्य् एव सकृदभिषुतस्य गृह्णाति सकृद् धि स तेनार्ध्नोत् । मनसा गृह्णाति मन इव हि प्रजापतिः प्रजापतेर् आप्त्यै । औदुम्बरेण गृह्णाति । ऊर्ग् वा उदुम्बरः । ऊर्जम् एवाव रुन्द्धे चतुःस्रक्ति भवति दिक्षु
2 एव प्रति तिष्ठति यो वा अꣳशोर् आयतनं वेदायतनवान् भवति वामदेव्यम् इति साम तद् वा अस्यायतनम् मनसा गायमानो गृह्णाति । आयतनवान् एव भवति यद् अध्वर्युर् अꣳशुं गृह्णन् नार्धयेद् उभाभ्यां नर्ध्येताध्वर्यवे च यजमानाय च यद् अर्धयेद् उभाभ्याम् ऋध्येत । अनवानं गृह्णाति सैवास्यर्द्धिः । हिरण्यम् अभि व्यनिति । अमृतं वै हिरण्यम् आयुः प्राण आयुषैवामृतम् अभि धिनोति शतमानम् भवति शतायुः पुरुषः शतेन्द्रियः । आयुष्य् एवेन्द्रिये प्रति तिष्ठति ॥ </span></poem>
{{टिप्पणी|
[https://puranastudy.page.tl/Amsha_Amshu-%26%232309%3B%26%232306%3B%26%232358%3B_%26%232309%3B%26%232306%3B%26%232358%3B%26%232369%3B.htm अंशु उपरि टिप्पणी]
}}
 
 
<poem><span style="font-size: 14pt; line-height: 200%">6.6.11 अनुवाक 11 षोडशिग्रहकथनम्
1 प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् स रिरिचानो ऽमन्यत स यज्ञानाꣳ षोडशधेन्द्रियं वीर्यम् आत्मानम् अभि सम् अक्खिदत् तत् षोडश्य् अभवत् न वै षोडशी नाम यज्ञो ऽस्ति यद् वाव षोडशꣳ स्तोत्रꣳ षोडशꣳ शस्त्रं तेन षोडशी तत् षोडशिनः षोडशित्वम् । यत् षोडशी गृह्यत इन्द्रियम् एव तद् वीर्यं यजमान आत्मन् धत्ते देवेभ्यो वै सुवर्गो लोकः
2 न प्राभवत् त एतꣳ षोडशिनम् अपश्यन् तम् अगृह्णत ततो वै तेभ्यः सुवर्गो लोकः प्राभवत् । यत् षोडशी गृह्यते सुवर्गस्य लोकस्याभिजित्यै । इन्द्रो वै देवानाम् आनुजावर आसीत् स प्रजापतिम् उपाधावत् तस्मा एतꣳ षोडशिनम् प्रायच्छत् तम् अगृह्णीत ततो वै सो ऽग्रं देवतानाम् पर्य् ऐत् । यस्यैवं विदुषः षोडशी गृह्यते