"पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: प्रस्तावना। शङ्ख भद्रासनं छत्रं वराश्वा वरवार... नवीन पृष्ठं निर्मीत अस्ती
 
(भेदः नास्ति)

०९:५५, ८ जुलै २०२० समयस्य संस्करणम्

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना। शङ्ख भद्रासनं छत्रं वराश्वा वरवारणाः । भूमिदानस्य चिह्नानि फलमेतत् पुरंदर ।। षष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् । स विष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति ॥ तडागानां सहस्रेण वाजपेयशतेन च । गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति । वारिहीनेष्वरण्येषु शुष्ककोटरवासिनः । कृष्णसाश्च जायन्ते देवब्रह्मस्वहारिणः । न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ॥ वाताभ्रविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधुरा विषयोपभोगाः। प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ॥ यानीह दत्तानि पुरानरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ (इण्डियन् आण्टिक्केरी १५।११-१२) इति प्राचीनलेखमालायां २३ लेखे संवत् १२४३ (A. D. 1187) स्फुट एव लिखितः। २२ लेखे जयचन्द्रयौवराज्यदानपत्रे संवत् १२२५ (A. D. 1169) लिखितः ॥ इत्थं च जयन्तचन्द्रस्य द्वादशख्रिष्टशतके स्थितिनिश्चयान्नैषधीयचरितकर्तुः श्रीहर्षस्यापि त- दैव स्थितिनिश्चिता। अत एव जयन्तचन्द्रपितृ विजयचन्द्रवर्णनात्मकमेव 'विजयप्रशस्तिर- चनातातस्य' इति पञ्चमसर्गसमाप्तिश्लोके स्वकीयविशेषणध्वनितविजयप्रशस्तिनामकं कात्यं भवेत् ॥ अस्मिंश्च विषये बहूनां बिसंवादं प्रदर्य तत्खण्डनपूर्विका डाक्टर बूलरसमतिरपि । तथा- हि तदीयं Royal Asiatic Society Bombay Branch इति नामभूषितविद्वत्समया १८७६ ख्रिस्टाब्दे प्रकाशिते प्रबोधनग्रन्थे (pp. 279-287) मुद्रितं व्याख्यानम् - इतः प्राग वर्षद्वयं व्यत्यगाद्यदाहम् एशियाटिकसभासदां पुरस्तान्नैषधीयनिर्मातृश्रीहर्षसम- ९-अत्र चोपदर्शितप्राचीनलेखो द्रष्टव्यः ।