"पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/११" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: नैषधीयचरितस्य यविवेचनसंदर्भपैत्रमपाठिषम् ।... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:५६, ९ जुलै २०२० इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैषधीयचरितस्य यविवेचनसंदर्भपैत्रमपाठिषम् । तत्र च राजशेखरकृतप्रबन्धकोषात् "श्रीहर्षः खिष्टद्वादशशता- व्यन्तिमभागे बभूव" इति साधयितुं प्रायतिषि । निरमासिषं च तद्विषयकमेकं संदर्भम् । ततःप्रभृति बहवो जना विशेषतश्चेण्डियनआण्टिकेरि (Indian Antiquary) नामकपु- स्तके सत्र मदीयनैषधीयसमयविविक्तिपुस्तके स्वमत्या बहून् दोषानुदजीघटन् । परंतु संप्रत्यहम- स्मिन् संदर्भे तदुद्घाटितदोषाभासान् वक्ष्यमाणस्वयुक्तिभिरपनेतुं स्वसंमतं च द्रढयितुमाशासे । अथ युक्तयः- स्वनिर्मिते प्रथमे संदर्भ नैषधीयसमयनिश्चायकानि वक्ष्या णान्यदीदृशम् ॥ ( १ ) श्रीहर्षो वाराणस्यधिपतिजयन्तचन्द्रसभायाः सभ्योऽभूदिति राजशेखरः ॥ ( २ ) अयं जयन्तचन्द्रो जयचन्द्र एव. यः किल राठौरवंशीयानां कान्यकुब्जाधिपाना- मन्तिमो वाराणस्यधिपतिर्बभूव; यं च खिष्टस्य पञ्चनवत्युत्तरैकादशशताब्द्यां ११९५ यवना राज्यात् प्रसह्य प्रभ्रंशयांचक्रुः ॥ (३) श्रीहर्षोप्यकथयत् 'कान्यकुब्जाधिपतिनाहं सत्कृतोऽभूवम्' इति ॥ ( ४ ) राजशेखरोपि स्वग्रन्थैकखण्डे प्रसङ्गतोऽवर्णयत्-- "नैषधीयस्य प्रथमं पुस्तकं हरिहरो गुजरातेतिख्यातदेशं वीरधवलनामनि राजनि वसुमती शासत्यानयत् । तत्पुस्तकाच्च वीरधवलप्रधानामात्यो वास्तुपालो नामाऽन्यदेकं पुस्तकमवतारयामास' इति॥ किंच स्वनिर्मिते प्रथमे संदर्भ "राजशेखरस्य सर्व तु प्रमाणजातं विश्वासानहम्" इत्यष्यह स्वीकृतवान् ॥ डाक्टर फिटजएडवर्ड हाल (FitzEdward Hall) पण्डितेन "धाराधिपतिभो- जराजकृतसरस्वतीकण्ठाभरणे धृता बह्वो नैषधीयश्लोका दृश्यन्ते" इत्यभाणि । अहंच "भोजराजः ख्रिष्टैकादशशताब्धाः पूर्वार्धभूत्" इत्यपि स्वसंदर्भेऽलेखिषम् । किंच यन्महाशयडाक्टरहालपण्डितेनोक्तम् , तदपि स्वसत्तायां प्रमाणमपेक्षते । यतः 'सरस्वतीकण्ठाभरणे नैषधीयश्लोकाः कदाचित्केनचिदन्येन ग्रन्थकर्तुः पश्चात्प्रक्षिप्यन्ते स्म,- इति संदेह एव' इत्यपि तत्रादर्शयम् ॥ मदीयसंदर्भसंमतमुद्दिश्य वक्ष्यमाणा आक्षेपा जनैः प्रादर्शिषत । ते च यथा- श्रीमान् काशीनाथस्यम्बकसूनुस्तैलङ्गः कुसुमाञ्जलिक रुदयनाचार्यस्य सैमयं निरूपयन् प्रसङ्गतः श्रीहर्षस्यापि समयविवेकमन्वबध्नात् । तत्रादर्शयत्-"श्रीहर्षः ख्रिष्टस्य नवम्यां दशम्यां वा शताब्द्यां बभूव, न तु द्वादश्याम्" इति ॥ अत्र विषये चेमानि प्रमाणान्यदीदृशत् । (१) नैषधीयकाव्यस्य श्लोकाः सरस्वतीकण्ठाभरण उदाहृता दृश्यन्त इति । १ तच्च इण्डियन आण्टिक्केरीप्रथमपुस्तके ३० पृष्ठे विलोकनीयम् ॥ २ तथाचोक्तम्-'ताम्बूलद्वयमासन च लभते यः कान्यकुब्जेश्वरात्' इति ।। ३ इण्डियन् आण्टिक्वेरी (Ind. Ant.)प्रथमपुस्तके २९७ पृष्ठे ३५३ पृष्ठे, द्वितीयपुस्तके ७१ पृष्ठे च विलोकनीयम् ॥