"जैमिनीयं ब्राह्मणम्/काण्डम् १/२११-२२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५२:
 
 
[https://sa.wikisource.org/s/23rd आ तू न इन्द्र क्षुमन्तम्] इति वैणवम्। वेणुर् वै वैश्वामित्रो ऽकामयताग्र्यो मुख्यो ब्रहमवर्चसी स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो ब्रह्मवर्चस्य् अभवत्। अग्र्यो मुख्यो ब्रह्मवर्चसी भवति य एवं वेद। यद् वेणुर् वैश्वामित्रो ऽपश्यत् तस्माद् वैणवम् इत्य् आख्यायते॥
 
तद् व् एवाचक्षत आपालम् इति। अपाला ह वा आत्रेयी तिलका वा रुछ्वसाप्यास। सा कामयताप पापं वर्णं हनीयेति। सैतत् सामापश्यत् तेनास्तुत। सा तीर्थम् अभ्यवयती सोमांशुम् अविदन्त्। तं समखादत्। तस्यै ह ग्रावाण इव दन्ता ऊदुः। स इन्द्र आद्रवद् ग्रावाणो वै वदन्तीति। साभिव्याहरत् कन्या वार् अवायती सोमम् अपि स्रुताविदत्। अस्तं भरन्त्य् अब्रवीत् इन्द्राय सुनवै त्वा शक्राय सुनवै त्वा इति। अस्यै वा इदं ग्रावाण इव दन्ता वदन्तीति विदित्वेन्द्रः पराङ् आवर्तत। तम् अब्रवीत्