"ब्रह्मपुराणम्/अध्यायः १" इत्यस्य संस्करणे भेदः
Content deleted Content added
fix |
adding contents |
||
पङ्क्तिः १०:
<poem>
'''।। श्रीगणेशाय नमः ।।'''
'''तत्रादौ नैमिषारण्य-वर्णनम्'''
यस्मात् सर्व्वमिदं प्रपञ्चरचितं मायाजगज्जायते, यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः।
यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवं, तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम्।। १.१ ।।
यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभं, नित्यानन्दमयं प्रसन्नममलं सर्व्वेश्वरं निर्गुणम्।
व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकागम्यं विभुं, तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम्।। १.२ ।।
सुपण्ये नैमिषारण्ये पवित्रे सुमनोहरे।
नानामुनिजनाकीर्णे नानापुष्पोपशोभिते।। १.३ ।।
सरलैः कर्णिकारैश्च पनसैर्धवखादिरैः।
आम्रजम्बूकपित्थैश्च न्यग्रोधैर्देवदारुभिः।। १.४ ।।
अश्वत्थैः पारिजातैश्च चन्दनागुरुपाटलैः।
बकुलैः सप्तपर्णैश्च पुन्नागैर्नागकेशरैः।। १.५ ।।
शालैस्तालैस्तमालैश्च नारिकेलैस्तथार्ज्जुनैः।
अन्यैश्च बहुभिर्वृक्षैश्चम्पकाद्यैश्च शोभिते।। १.६ ।।
नानापक्षिगणकीर्णे नानामृगगणैर्युते।
नानाजलाशयैः पुण्यैर्दोर्घिकाद्यैरलङ्कृते।। १.७ ।।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शुद्रैश्चान्यैश्च जातिभिः।
वानप्रस्थैर्गृहस्थैश्छ यतिभिर्ब्रह्मचारिभिः।। १.८ ।।
सम्पन्नैर्गौकुलैश्चैव सर्व्वत्र समलङ्कृते।
यवगोधूमचणकैमषिमुद्गतिलेक्षुभिः।। १.९ ।।
चीनकाद्यैस्तथा मेध्यैः शस्यैश्चान्यैश्च शोभिते।
तत्र दीप्ते हुतवहे हूयमाने महामखे।। १.१० ।।
यजतां नैमिषेयाणां सत्रे द्वादशवार्षिके।
आजग्मुस्तत्र मुनयस्तथाऽन्येपि द्विजातयः।। १.११ ।।
तानागतान् द्विजांस्ते तु पूजां चक्रुर्यथोचिताम्।
तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च।। १.१२ ।।
तत्राजगाम सूतस्तु मतिमाँल्लोमहर्षणः।
तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर्मुदान्विताः।। १.१३ ।।
सोऽपि तान् प्रतिपूज्यैव संविवेश वरासने।
कथां चक्रुस्तदान्योन्यं सूतेन सहिता द्विजाः।। १.१४ ।।
कथान्ते व्याशिष्यं ते पप्रच्छु संशयं मुदा।
ऋत्विग्भिः सहिताः सर्व्वे सदस्यैः सह दीक्षिताः।। १.१५ ।।
मुनय ऊचुः।।
पुराणागमशास्त्राणि सेतिहासानि सत्तम।
देवदैत्यानां चरितं जन्म कर्म्म च।। १.१६ ।।
न तेऽस्त्यविदितं किञ्चिचद्वेदे शास्त्रे च भारते।
पुराणे मोक्षशास्त्रे च सर्व्वज्ञोऽसि महामते।। १.१७ ।।
यथापूर्व्वमिदं सर्व्वमुत्पन्नं सचराचरम्।
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्।। १.१८ ।।
श्रोतुमिच्छामहे सूत ब्रूहि सर्वं यथा जगत्।
बभूव भूयश्च यथा महाभागा भविष्यति।। १.१९ ।।
यतश्चैव जगत् सूत यतश्चैव चराचरम्।
लीनमासीत्तथा यत्र लयमेष्यति यत्र च ।। १.२० ।।
लोमहर्षण उवाच।।
अविकाराय शुद्धाय नित्याय परमात्मने।
सदैकरूपरूपाय विष्णवे सर्व्वजिष्णवे।। १.२१ ।।
नमो हिण्यगर्भाय हरये शङ्कराय च।
वासुदेवाय ताराय सर्गस्थित्यन्तकर्म्मणे।। १.२२ ।।
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः।
अव्यक्ताव्यक्तभूताय विष्णवे मुक्तिहेतवे।। १.२३ ।।
सर्गस्थितिविनाशाय जगतो योऽजरामरः।
मूलभूतो नमस्तस्मै विष्णवे परमात्मने।। १.२४ ।।
आधारभूतं विश्वस्याप्यणीयांसमणीयसाम्।
प्रणम्य सर्व्वभूतस्थमच्युतं पुरुषोत्तमम्।। १.२५ ।।।
ज्ञानस्वरूपमत्यन्तं निर्म्मलं परमार्थतः।
तमोवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्।। १.२६ ।।
विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम्।
सर्व्वज्ञं जगतामौशमजमक्षयमव्ययम्।। १.२७ ।।
आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च ।।
इतिहासपुराणज्ञं वेदवेदाङ्गपारगम्।। १.२८ ।।
सर्व्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम्।
गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम्।। १.२९ ।।
कथयामि यथापूर्व्वं दक्षाद्यैनिसत्तमैः।
पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः।। १.३० ।।
श्रृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम्।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम्।। १.३१ ।।
यस्त्विमां धारयेन्नित्यं श्रृणुयाद्वाप्यभीक्ष्णशः।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते।। १.३२ ।।
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम्।
प्रधानं पुरुषस्तस्मान्निर्म्ममे विश्वमीश्वरः।। १.३३ ।।
तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्मणममितौजसम्।
प्रधानं पुरुषस्तस्मान्निर्म्ममे विश्वमीश्वरः।। १.३४ ।।
अहङ्कारस्तु महतस्तस्माद्भूतानि जज्ञिरे।
भूरभेदाश्च भूतेभ्य इति सर्गः सनातनः।। १.३५ ।।
विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति।
कीर्त्त्यमानं श्रुणुध्वं वः सर्व्वेषां कीर्त्तिवर्द्धनम्।। १.३६ ।।
कीर्त्तितं स्थिरकीर्त्तोनां सर्व्वेषां पुण्यवर्द्धतम्।
ततः स्वयम्बूर्भगवान् सिसृक्षुर्विविधाः प्रजाः।। १.३७ ।।
अप एव ससर्ज्जादौ तासु वीर्य्यमथासृजत्।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः।। १.३८ ।।
अयनं तस्य पूर्वं तेन नारायणः स्मृतः।
हिरण्यवर्णमभवत्तदण्डमुदकेशयम्।। १.३९ ।।
तत्र जज्ञे ब्रह्मा स्वयम्भूरिति नः श्रुतम्।
हिरण्यवर्णौ भगवानषित्वा परिवत्सरम्।। १.४० ।।
तदण्डमकरोद्द्द्वैधं दिवं भुवमथापि च।
तयोः शकलयोर्म्मध्य आकाशमकरोत्प्रभुः।। १.४१ ।।
अप्सु पारिण्लवां पृथ्वीं दिशश्च दशाधा दधे।
तत्र कालं मनो वाचं कामं क्रोधमथो रतिम्।। १.४२ ।।
ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतीन्।
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्।। १.४३ ।।
वसिष्ठं च महातेजाः सोऽसृजत्सप्त मानसान्।
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः।। १.४४ ।।
नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम्।
ततोऽसृजत् पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम्।। १.४५ ।।
सनत्कुमारं च विभुं पूर्व्वेषामपि पूर्व्वजम्।
सप्तस्वेता अजायन्त प्रजा रुद्राश्च भो द्विजाः।। १.४६ ।।
स्कन्दः सनत्कुमारश्च तेजः संक्षिप्य तिष्ठतः।
तेषां सप्त महावंशा दिव्या देवगणान्विताः।। १.४७ ।।
क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः।
विद्युतोऽसनिमघाश्च रोहितेन्द्रधनूंषि च।। १.४८ ।।
वयांसि च ससर्जादौ पर्जन्यञ्च ससर्ज ह।
ऋचो यजूंषि सामानि निर्म्ममे यज्ञसिद्धये।। १.४९ ।।
साध्यानजनयद् देवानित्येवमनुसञ्जगुः।
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे। १.५० ।।
आपवस्य प्रजासग सृजतो हि प्रजापतेः।
सृज्यमानाः प्रजा नैव विवर्द्धन्ते यदा तदा।। १.५१ ।।
द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषोऽभवत्।
अर्द्धेन नारी तस्यां तु सोऽसृजद्विविधाः प्रजाः।। १.५२ ।।
दिवञ्च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति।
विराजमसृजद्विष्णुः सोऽसृजत् पुरुषं विराट्।। १.५३ ।।
पुरुषं तं मनुं विद्यात्तस्य मन्वन्तरं स्मृतम्।
द्वितीयं मानसस्यैतन्मनरन्तरमुच्यते।। १.५४ ।।
स वैराजः प्रजासर्गं पुरुषः प्रभुः।
नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजाः।। १.५५ ।।
आयुष्मान् कीर्त्तिमान् पुण्यप्रजापांश्च भवेन्नरः।
विदित्वेमं यथेष्टां चाप्नुयाद् गतिम्।। १.५६ ।।
इति श्रीब्राह्मे महापुराणे आदिसर्गवर्णनं नाम प्रथमोऽध्यायः।। १ ।।
</poem>
|