"ब्रह्मपुराणम्/अध्यायः १४" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem>
'''तत्रादौ यदुपुत्र-क्रोष्टुवंश-वर्णनम्'''
'''लोमहर्षण उवाच'''
गान्धारी चैव माद्री च क्रोष्टार्भर्य्ये बभूवतुः।
गान्धारी जनयामास अनमित्रं महाबलम्॥ १४.१ ॥
 
माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम्।
तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलबर्द्धनः॥ १४.२ ॥
 
माद्रयाः पुत्रौ तु जज्ञाते श्रुतौवृष्ण्यन्धकावुभौ।
<poem>
जज्ञाते तनयौ वृष्णे श्वफल्कश्चित्रकस्तथा॥ १४.३ ॥
 
श्वफल्फस्तु मुनिश्रेष्ठा धर्म्मात्मा यत्र वर्तते।
नास्ति व्याधिभयं तत्र नावर्षस्तपमेव च ॥ १४.४ ॥
 
कदाचित् काशिराजस्य विषये मुनिसत्तमाः।
त्रीणि वर्षाणि पूर्णानि नावर्षत् पाकशासनः॥ १४.५ ॥
 
स तत्र चानयामास श्वफल्कं परमार्च्चितम्।
श्वफल्कपरिवर्त्तेन ववर्ष हरिवाहनः॥ १४.६ ॥
 
श्वफल्फः काशिराजस्य सुतां भार्य्यामविन्दत।
गान्दिनी नाम गां सा च ददौ विप्राय नित्यशः॥ १४.७ ॥
 
दाता यज्वा च वीरश्च श्रुतवानतिथिप्रियः।
अक्रूरः सुषुवे तस्माच्छ्वफलकाद्भूरिदक्षिणः॥ १४.८ ॥
 
उपमद्गुस्तथा मद्गुर्मेदुरश्चारिमेजयः।
अविक्षितस्तथाक्षेपः शत्रुघ्नश्चारिमर्दनः॥ १४.९ ॥
 
धर्म्मधृग् यतिधर्म्मा च धर्म्मोक्षान्धकरुस्तथा।
आवाहप्रतिवाहा च सुन्दरी च वराङ्गना॥ १४.१० ॥
 
अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः।
प्रसेनश्चोपदेवश्च जज्ञाते देववर्च्चसौ॥ १४.११ ॥
 
चित्रकस्याभवन् पुत्राः पृथुर्व्विपृथुरेव च।
अश्वग्रीवोऽश्वबाहुश्च स्वपार्श्वकगवेषणौ॥ १४.१२ ॥
 
अरिष्टनेमिरश्वश्च सुधर्मा धर्म्मभृत्तथा।
सुबाहुर्व्वहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ॥ १४.१३ ॥
 
असिक्न्यां जनयामास शूरं वै देवमीढुषम्।
महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश॥ १४.१४ ॥
 
वसुदेवो महाबाहुः पूर्व्वमानकदुन्दुभिः।
जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि॥ १४.१५ ॥
 
आनकानां च संह्रादः सुमहानभवदिदवि।
पपात पुष्पवर्षश्च शूरस्य जननी महान्॥ १४.१६ ॥
 
मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि।
यस्यासीत्पुरुषाग्य्रस्य कान्तिश्चन्द्रमसो यथा॥ १४.१७ ॥
 
देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः।
अनाधृष्टिः सनवको वत्सवानथ गृञ्जमः॥ १४.१८ ॥
 
श्यामः शमीको गण्डूषः पञ्च यास्य वराङ्गनाः।
पृथुकीर्त्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा॥ १४.१९ ॥
 
राजाधिदेवी च तता पञ्चैता वीरमातरः।
श्रुतश्रवायां चैद्यस्तु शिशुपालोऽभवन्नृपः॥ १४.२० ॥
 
हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत्पुरा।
पृथुकीर्त्त्यां तु सञ्जज्ञे तनयो वृद्धशर्म्मणः॥ १४.२१ ॥
 
करूषाधिपतिर्वोरो दन्तवक्रो महाबलः।
पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत्॥ १४.२२ ॥
 
यस्यां स धर्म्मविद्राजा धर्म्मो जज्ञे युधिष्ठिरः।
भीमसेनस्तथा वातादिन्द्राच्चैव धनञ्जयः॥ १४.२३ ॥
 
लोकेऽप्रतिरथो वीरः शत्रुतुल्यपराक्रमः।
अनमित्राच्छिनिर्जज्ञे कनिषठाद्वृष्णिनन्दनात्॥ १४.२४ ॥
 
शैनेयः सत्यकस्तस्माद्युयुधानश्च सात्यकिः।
उद्धघो देवभागस्य महाभागः सुतोऽभवत्॥ १४.२५ ॥
 
पण्डितानां परं प्राहुर्देवश्रवसमुत्तमम्।
अश्मक्यं प्राप्तवान् पुत्रमनाधृष्टिर्यशस्विनम्॥ १४.२६ ॥
 
निवृत्तशत्रुं शत्रुघ्नं श्रुतदेव त्वजायत।
श्रुतदेवात्मजास्ते तु नैषादिर्यः परिश्रुतः॥ १४.२७ ॥
 
एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्द्धितः।
वत्सवते त्वपुत्राय वसुदेवः प्रतापवान्।
अद्भिर्ददौ सुतं वीरं कौशिकमौरसम्॥ १४.२८ ॥
 
गण्डूषाय ह्यपुत्राय विष्वक्सेनो ददौ सुतान्।
चारुदेष्णं सुदेष्णञ्च पञ्चालं कृतलक्षणम्॥ १४.२९ ॥
 
असंग्रामेण यो वीरो नावर्त्तत कदाचन।
रौक्मिणेयो महाबाहुः कनीयान् द्विजसत्तमाः॥ १४.३० ॥
 
वायसानां सहस्राणि यं यान्तुं पृष्ठतोऽन्वयुः।
चारूनद्योपभोक्ष्यामश्चारुदेष्णहतानिति॥ १४.३१ ॥
 
तन्त्रिजस्तन्त्रिपालश्च सुतौ कनवकस्य तौ।
वीरुश्चाश्वहनुश्चैव वीरौ तावथ गृञ्जिमौ॥ १४.३२ ॥
 
श्यामपुत्रः शमोकस्तु शमीको राज्यमावहत्।
जुगुप्समानो भोजत्वाद्राजसूयमवाप सः॥ १४.३३ ॥
 
अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः।
वसुदेवसुतान् वीरान् कीर्त्तयिष्याम्यतःपरम्। १४.३४ ॥
 
वृष्णेस्त्रिविधमेवन्तु बहुशाखं महौजसम्।
धारयन् विपुलं वंशं नानर्थैरिह युज्यते॥ १४.३५ ॥
 
याः पत्न्यो वसुदेवस्य चतुद्र्दश वराङ्गनाः।
पौरवी रोहिणी नाम मदिरादिस्तथापरा॥ १४.३६ ॥
 
वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी।
सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिताः॥ १४.३७ ॥
 
वृकदेव्युपदेवी च देवकी चैव सप्तमी।
सुतनुर्वडवा चैव द्वे एते परिचारिके॥ १४.३८ ॥
 
पौरवी रोहिणी नाम वाह्लिकस्यात्मजाभवत्।
ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः॥ १४.३९ ॥
 
लेभे ज्येष्ठं सुतं रामं शरण्यं शठमेव च।
दुद्र्दमं दमनं शुभ्रं पिण्डारकमुशीनरम्॥ १४.४० ॥
 
वित्रा नाम कुमारी च रोहिणीतनया नव।
चित्रा सुभद्रेति पुनर्विख्याता मुनिसत्तमाः॥ १४.४१ ॥
 
वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः।
रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः॥ १४.४२ ॥
 
सुभद्रायां रथी पार्थादभिमन्युरजायत।
अक्रूरात्काशिकन्यायां सत्यकेतुरजारत॥ १४.४३ ॥
 
वसुदेवस्य भार्य्यासु महाभागासु सप्तसु।
ये पुत्रा जज्ञिरे शूराः समस्तांस्तान्निबोधत॥ १४.४४ ॥
 
भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ।
वृकदेवः सुनामायां गदश्चास्तां सुतावुभौ॥ १४.४५ ॥
 
अगावहं महात्मानं वृकदेवी व्यजायत।
कन्या त्रिगर्त्तराजस्य भार्य्या वै शिशिरायणेः॥ १४.४६ ॥
 
जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम्।
कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा॥ १४.४७ ॥
 
मिथ्याभिशस्तो गार्ग्यस्तु मन्युनातिसमीरितः।
घोषकन्यामुपादाय मैथुनायोपचक्रमे॥ १४.४८ ॥
 
गोपाली चाप्सरास्तस्य गोपस्त्रीवेशधारिणी।
धारयामास गार्ग्यस्य गर्भं दुर्द्धरमच्युतम्॥ १४.४९ ॥
 
मानुष्यां गर्गभार्य्यायां नियोगाच्छूलपाणिनः।
स कालयवनो नाम यज्ञे राजा महाबलः॥ १४.५० ॥
 
वृत्तपूर्व्वार्द्धकायस्तु सिंहसंहननो युवा।
अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः॥ १४.५१ ॥
 
यवनस्य मुनिश्रेष्ठाः स कालयवनोऽभवत्।
आयुध्यमानो नृपतिः पर्य्यपृच्छद्द्विजोत्तमम्॥ १४.५२ ॥
 
वृष्ण्यन्धककुलं तस्य नारदोऽकथयद्विभुः।
अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा॥ १४.५३
 
दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम्।
ततो वृष्ण्यन्दकाः कृष्णं पुरस्कृत्य महामतिम्॥ १४.५४ ॥
 
समेता मन्त्रयामासुर्यवनस्य भयात्तदा।
कृत्वा विनिश्चयं सर्व्वे पलायनमरोचयत् ॥ १४.५५ ॥
 
विहाय मथुरां रम्यां मानयन्तः पिनाकिनम्।
कुशस्थलीं द्वारवतीं निवेशयितुमिप्सवः॥ १४.५६ ॥
 
इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः।
पर्व्वसु श्रावयेद्विद्वाननृणः स शुखी भवेत्॥ १४.५७ ॥
 
इति श्रीब्राह्मपुराणे कृष्णजन्मानुकीर्त्तनं नाम चतुर्दशोऽध्यायः॥ १४ ॥
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१४" इत्यस्माद् प्रतिप्राप्तम्