"ब्रह्मपुराणम्/अध्यायः १८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
'''तत्रादौ भुवनकोश्द्वीपवर्णनम्'''
'''मुनय ऊचुः'''
अहो सुमहदाख्यानं भवता परिकीर्त्तितम्।
भारतानां च सर्व्वेषां पार्थिवानां तथैव च॥ १८.१ ॥

देवानां दानवानां च गन्धर्व्वोरगरक्षसाम्।
दैत्यानामथ सिद्धानां गुह्यकानां तथैव च॥ १८.२ ॥

अत्यद्‌भुतानि कर्म्माणि विक्रमा धर्म्मनिश्चयाः।
विविधाश्च कथा दिव्या जन्म चाग्य्रमनुत्तमम्॥ १८.३ ॥

सृष्टिः प्रजापतेः सम्यक्तवया प्रोक्ता महामते।
प्रजापतीनां सर्व्वेषां गुह्यकाप्सरसां तथा॥ १८.४ ॥

स्थावारं जङ्मं सर्व्वमुत्पन्नं विविधं जगत्।
त्वया प्रोक्तं महाभाग श्रुतं चैतन्मनोहरम्॥ १८.५ ॥

कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा।
मनःकर्णसुखं सम्यक् प्रीणात्यमृतसम्मितम्॥ १८.६ ॥

इदानीं श्रोतुमिच्छामः सकलं मण्डलं भुवः।
वक्तुमर्हसि सर्व्वज्ञ पं कौतूहलं हि नः॥ १८.७ ॥

यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्व्वताः।
वनानि सरितः पुण्यवादीनां महामते॥ १८.८ ॥

यत्प्रमाणमिदं सर्व्वं यदाधारं यदात्मकम्।
संस्थानमस्य जगतो यथावद्वक्तुमर्हसि॥ १८.९ ॥

मुनयः श्रूयतामेतत् संक्षेपाद्वदतो मम।
नास्य वर्षशतेनापि वक्तुं शवयोऽतिविस्तरः॥ १८.१० ॥

जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः।
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः॥ १८.११ ॥

एते द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम्॥ १८.१२ ॥

जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः।
तस्यापि मध्ये विप्रेन्द्राः मेरुः कनकपर्व्वतः॥ १८.१३ ॥

चतुरशीतिसाहस्रैर्योजनैस्तस्य चोच्छ्रयः।
प्रविष्टः षौडशाधस्ताद्‌द्वात्रिंशन्मूर्ध्नि विस्तृतः॥ १८.१४ ॥

मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्व्वतः।
भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसस्थिंतः॥ १८.१५ ॥

जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः।
तस्यापि मध्ये विप्रेन्द्राः मेरुः कनकपर्व्वतः॥ १८.१६ ॥

लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे।
सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते॥ १८.१७ ॥

भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम्।
हरिवर्षं तथैवान्यन्मेरोद्‌र्दक्षिणतो द्विजाः॥ १८.१८ ॥

रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्ययम्।
उत्तराः कुरवश्चैव यथा वै भारतं तथा॥ १८.१९ ॥

नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः।
इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः॥ १८.२० ॥

मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम्।
इलावृतं महाभागाश्चत्वारश्चात्र पर्व्वताः॥ १८.२१ ॥

विष्कम्भा वितता मेरोर्योजनायुतविस्तृताः।
पूर्व्वेण मन्दरो नाम दक्षिणे गन्धमादनः॥ १८.२२ ॥

विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः।
कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च॥ १८.२३ ॥

एकादशशतायामाः पादपा गिरिकेतवः।
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः॥ १८.२४ ॥

महागजप्रमामानि जम्बास्तस्याः फलानि वै।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्व्वतः॥ १८.२५ ॥

रसेन तेषआं विख्याता तत्र जम्बूनदीति वै।
सरित्प्रवर्तते सा च पीयते तन्निवासिभिः॥ १८.२६ ॥

न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः।
तत्पानस्वस्तमनसां जनानां तत्र जायते॥ १८.२७ ॥

तीरमृत्तद्रसं प्राप्य सुखवायुविसोषिता।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्॥ १८.२८ ॥

भद्राश्वं पूर्व्वतो मेरोः केतुमालञ्च पश्चिमे।
वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम्॥ १८.२९ ॥

वनं चैत्ररथं पूर्व्वे दक्षिणे गन्धमादनम्।
वै भ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम्॥ १८.३० ॥

अरुणोदं महाभद्रमसितोदं समानसम्।
सरास्येतानि चत्वारि देवभोग्यानि सर्व्वदा॥ १८.३१ ॥

शान्तवांश्चक्रकुञ्जश्च कुररी माल्यवांस्तथा।
वैकङ्कप्रमुखा मेरोः पूर्व्वतः केसराचलाः॥ १८.३२ ॥

त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा।
निषधादयो दक्षिणतस्तस्य केसरपर्व्वताः॥ १८.३३ ॥

सिखिवासः सवैदूर्य्यः कपिलो गन्धमादनः।
जानुधिप्रमुखास्तद्वत् पश्चिमे केसराचलाः॥ १८.३४ ॥

मेरोरनन्तरास्ते च जठरादिष्ववस्थिताः।
शङ्खकूटोऽथ ऋषभो हंसो नागस्तथापराः॥ १८.३५ ॥

कालञ्जराद्याश्च तथा उत्तरे केसराचलाः।
चतुद्‌र्दश सहस्राणि योजनानां महपुरो॥ १८.३६ ॥

मेरोरुपरि विप्रन्द्रा ब्रह्मणः कथिता दिवि।
तस्यां समन्ततश्चाष्टौ दिशासु विदिशासु च॥ १८.३७ ॥

इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः।
विष्णुपादविनिष्क्रान्ता प्लावयन्तोन्दुमण्डलम्॥ १८.३८ ॥

समन्ताद्‌ब्रह्मणः पुर्य्याः गङ्गा पतति वै दिवि।
सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत॥ १८.३९ ॥

सोता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात्।
पूर्व्वेण सीता शैलाच्च शैलं यान्त्यन्तरिक्षगाः॥ १८.४० ॥

ततश्च पूर्व्ववर्षेण भद्राश्वेनेति सार्णवम्।
तथैवालकनन्दा च दक्षिणेनैत्य भारतम्॥ १८.४१ ॥

प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः।
चक्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः॥ १८.४२ ॥

पश्चिमं केतुमालाख्यं वर्षमन्वेति सार्णवम्।
भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून्॥ १८.४३ ॥

अतीत्योत्तरमम्भोधिं समभ्येति द्विजोत्तमाः।
आनीलनिषधायामौ माल्यवद्‌गन्धमादनौ॥ १८.४४ ॥

तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्तितः।
भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा॥ १८.४५ ॥

पत्राणि लोकशैलस्य मर्य्यादाशैलबाह्यतः।
जठरो देवटकूटश्च मर्य्यदापर्व्वतावुभौ॥ १८.४६ ॥

तौ दक्षिणोत्तरायाभावानीलनिषधायतौ।
गन्धमादनकैलासौ पूर्व्वपश्चात्तु तावुभौ॥ १८.४७ ॥

अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ।
निषधः पारियात्रश्च मर्य्यादापर्व्वतावुभौ॥ १८.४८ ॥

तौ दक्षिणोत्तरायामावानीलनिषधायतौ।
मेरोः पश्चिमदिग्भागे यथा पूर्व्वौ तथा स्थितौ॥ १८.४९ ॥

त्रिश्रृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्व्वतौ।
पूर्व्वपश्चायतावेतावर्मवान्तर्व्यवस्थितौ॥ १८.५० ॥

इत्येते हि मया प्रोक्ता मर्य्यादापर्व्वता द्विजाः।
जठरावस्थिता मेरोर्य्येषां द्वौद्वौ चतुर्दिदशम्॥ १८.५१ ॥

मेरोश्चतुर्द्दिशं ये तु प्रोक्ताः केसरपर्व्वताः।
सीतान्ताद्या द्विजास्तेषामतीव हि मनोहराः॥ १८.५२ ॥

शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः।
सुरम्याणि तथा तासु काननानि पुराणि च॥ १८.५३ ॥

लक्ष्मीविष्ण्वग्निसूर्य्येन्द्रदेवानां मुनिसत्तमाः।
तास्वायतनवर्षाणि जुष्टानि नरकिन्नरैः॥ १८.५४ ॥

गन्धर्व्वयक्षरक्षांसि तथा दैतेयदानवाः।
क्रीडन्ति तासु रम्यासु शैलद्रोणिष्वहर्निशम्॥ १८.५५ ॥

भौमा ह्येते स्मृताः सर्गा धर्म्मिणामालया द्विजाः।
नैतेषु पापकर्त्तारो यान्ति जन्मशतैरपि॥ १८.५६ ॥

भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विजाः।
वाराहः केतुमाले तु भारते कूर्म्मरूपधृक्॥ १८.५७ ॥

मत्स्यरूपश्च गोविन्दः कुरुषवास्ते सनातनः।
विश्वरूपेण सर्व्वत्र सर्व्वः सर्व्वेस्वरो हरिः॥ १८.५८ ॥

सर्व्वस्याधारभूतोऽसौ द्विजा आस्तेऽखिलात्मकः।
यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तमा॥ १८.५९ ॥

न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम्।
सुस्थाः प्रजा निरातङ्काः सर्व्वदुःखविवर्ज्जिताः॥ १८.६० ॥

दसद्वादशवर्षाणां सहस्राणि स्थिरायुषः।
नैतेषु भौमान्यन्यानि श्रुत्पिपासादि नो द्विजाः॥ १८.६१ ॥

कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना।
सर्व्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः।
नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तमाः॥ १८.६२ ॥

इति श्रीब्रह्मे महापुराणे भुवनकोशद्वीपवर्णनं नामाष्टादशोऽध्यायः॥ १८ ॥

</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१८" इत्यस्माद् प्रतिप्राप्तम्