"ब्रह्मपुराणम्/अध्यायः २१" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १२:
'''लोमहर्षण उवाच '''
विस्तार एष कथितः पृतिव्या मुनिसत्तमाः।
सप्ततिस्तु सहस्राणि तदुच्छ्रयोऽपि क्थ्यते॥
दशसाहस्रमेकैकं पातालं मुनिसत्तमाः।
अतलं वितलञ्चैव नितलं सुतलं तथा॥
तलातलं रसातलं पातालञ्चापि सप्तमम्।
कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनो॥
भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः।
तेषु दानवदैतेयजातयः शतशः स्थिताः॥
नागानाञ्च महाङ्गानां ज्ञातयश्च द्विजोत्तमाः।
स्वर्लोकादपि रम्याणि पातालानीति नारद॥
प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम्।
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः॥
नागाभरणभूषाश्च पातालं केन तत्समम्।
दैत्यदानवकन्याभिरितश्चेतश्च शोभिते॥
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते।
दिवार्करश्मयो यत्र प्रभास्तन्वन्ति नातपम्॥
शशिनश्च न शीताय निशि द्योताय केवलम्।
भक्ष्यभोज्यमहापानमदमत्तैश्च भोगिभिः॥
यत्र न ज्ञायते कालो गतोऽपि दनुजादिभिः।
वनानि नद्यो रम्याणि सरांसि कमलाकराः॥
पुंस्कोकिलादिलापाश्च मनोज्ञान्यम्बरामि च ।
भूषणान्यतिरम्याणि गन्धाद्यञ्चानुलेपनम्॥
वीणावेणुमृदङ्गानां निःस्वनाश्च सदा द्विजाः।
एतान्यन्यानिरम्याणि गन्धाद्यञ्चानुलेपनम्॥
दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः।
पातालानामधश्चास्ते विष्णोर्या तामसी तनुः॥
शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः।
योऽनन्तः पठ्यते सिद्धैर्देवदेवर्षिपूजितः॥
सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः।
फणामणिसहस्रेण यः स विद्योतयन् दिशः॥
सर्व्वान् करोति निर्वोर्य्यातन् हिताय जगतोऽसुरान्।
मदाघूर्णितनेत्रोऽसौ यः सदैवैककुण्डलः॥
किरीटो स्रग्धरो भाति साग्निश्वेत इवाचलः।
नीलवासा मदोत्सिक्तः श्वेतहारोपसोभितः॥
साभ्रगङ्गाप्रपातोऽसौ कैलासाद्रिरिवोत्तमः।
लांगलासक्तहस्ताग्रो बिभ्रन्मुशलमुत्तमम्॥
उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्त्तया।
कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः॥
संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम्।
स विभ्रच्छिखरीभूतमशेषं क्षितिमण्डलम्॥
आस्ते पातालमूलस्थः शेषोऽशेषसुरार्च्चितः।
तस्य वीर्य्यं प्रभावश्च स्वरूपं रूपमेव च॥
न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि।
यस्यैषा सकला पृथ्वी फणामणिशिखारुणा॥
आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति।
यदा विजृम्भतेऽनन्तो मदाधूर्णितलोचनः॥
तदा चलति भूरेषा साद्रितोयाधिकानना।
गन्धर्व्वप्सिरसः। सिद्धाः किन्नरोरगवारणाः॥
नान्तं गुणानां गच्छन्ति ततोऽनन्तोऽयमव्ययः।
यस्य नागवधूहस्तैर्लापितं हरिचन्दनम्॥
मुहुः श्वासानिलायस्तं याति दिक्पटवासताम्।
यमाराध्य पुराणर्षिर्गर्गौ ज्योतींषि तत्त्वतः॥
ज्ञातवान् सकलं चैव निमित्तपठितं पलम्।
तेनेयं नागवर्य्येण शिरसा विधृता महो।
बिभर्ति सकलाल्लो कान् स देवासुरमानुषान्॥
इति श्रीब्राह्मे महापुराणे पातालप्रमाणकीर्त्तनं नामैकविंशोऽध्यायः॥
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
|