"ब्रह्मपुराणम्/अध्यायः २९" इत्यस्य संस्करणे भेदः

new page

No edit summary
पङ्क्तिः ८:
| notes =

<poem>
'''तत्रादौ सूर्यपूजाप्रकारणम् '''

'''मुनय ऊचुः '''
श्रुतोऽस्माभिः सुरश्रेष्ठ भवता यदुदाहृतम्।
भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम्॥ २९.१ ॥

न तृप्तिमधिगच्छामः श्रृण्वन्तः सुखदां कथाम्।
तव वक्त्रोद्‌भवां पुण्यामादित्यस्याधनाशिनीम्॥ २९.२ ॥

अतः परं सुरश्रेष्ठ ब्रूहि नो वदतांवर।
देवपूजाफलं यच्च यच्च दानफलं प्रभो॥ २९.३ ॥

प्रणिपाते नमस्कारे तदथा चैव प्रदक्षिणे।
दीपधूपप्रदाने च सम्मार्ज्जविधौ च यत्॥ २९.४ ॥

उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने।
अर्घ्यश्च कीदृशः प्रोक्तः कुत्र वा संप्रदीयते॥ २९.५ ॥

कथञ्च क्रियते भक्तिः कथं देवः प्रसीदति।
एतत् सर्व्वं सुरश्रेष्ठ श्रोदुमिच्छामहे वयम्॥ २९.६ ॥

'''ब्रह्मोवाच '''
आर्घ्यं पूजादिकं सर्व्वं भास्करस्य द्विजोत्तमाः।
भक्तिं श्रद्धां समाधिञ्च कथ्यमानं निबोधत॥ २९.७ ॥

मनसा भावना भक्तिरिष्टा श्रद्धा च कीर्त्त्यते।
ध्यानं समाधिरित्युक्तं श्रृमुध्वं सुसमाहिताः॥ २९.८ ॥

तत्कथां श्रावयेद् यस्तु तद्‌भक्तान् पूजयीत वा।
अग्निशुश्रूषकस्चैव स वै भक्तः सनातनः॥ २९.९ ॥

तच्चित्त्स्तन्मनाश्चैव देवपूजारतः सदा।
तत्कर्म्मकृद्‌भवेद् यस्तु स वै भक्तः सनातनः॥ २९.१० ॥

देवार्थे क्रियमाणानि यः कर्म्माण्यनुमन्यते।
कीर्त्तनाद्वा परो विप्राः स वै भक्ततरो नरः॥ २९.११ ॥

नाभ्यसूयेत तद्‌भक्तान् न निन्द्याच्चान्यदेवताम्।
आदित्यव्रतचारी च स वै भक्ततरो नरः॥ २९.१२ ॥

गच्छस्तिष्ठन् स्वपञ्जिघ्रन्नुन्मिषन्निमिषन्नपि।
यः स्मरेद्‌भास्करं नित्यं स वै भक्ततरो नरः॥ २९.१३ ॥

एवं विधा त्वियं भक्तिः सदा कार्य्या विजानता।
भक्त्या समाधिना चैव स्तवेन मनसा तथा॥ २९.१४ ॥

क्रियते नियमो यस्तु दानं विप्राय दीयते।
प्रतिगृह्‌णन्ति तं देवा मनुष्याः पितरस्तथा॥ २९.१५ ॥

पत्रं पुष्पं फलं तोयं यद्‌भक्त्वया समुपाहृतम्।
प्रतिगृह्णनति तद्देवा नास्तिकान् वर्ज्जयन्ति च॥ २९.१६ ॥

भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता।
भावशुद्ध्‌या क्रियते यत्तत् सर्व्वं सफलं भवेत्॥ २९.१७ ॥

स्तुतिजप्योपहारेण पूजयापि विवस्वतः।
उपवासेन भक्त्या वै सव्वपापैः प्रमममममुच्यते॥ २९.१८ ॥

प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः।
तत्क्षणात् सर्व्व्पापेभ्यो मुच्यते नात्र संशयः॥ २९.१९ ॥

भक्तियुक्तो नरो योऽसौ रवेः कुर्यात् प्रदक्षिणाम्।
प्रदक्षणीकृता तेन स्पतद्वीपा वसुन्धरा॥ २९.२० ॥

सूर्य्या मनसि यः कृत्वा कुर्य्याद्‌व्योमप्रदक्षिणाम्।
प्रदक्षिमीकृतास्तेन सर्व्वे देवा भवन्ति हि॥ २९.२१ ॥

एकाहारो नरो भूत्वा षष्ठ्यां योऽर्च्चयते रविम्।
नियमव्रतचारी च भवेद्‌भक्तिसमन्वितः॥ २९.२२ ॥

सप्तम्यां वा महाभागाः सोऽश्वमेधफलं तभेत्।
अहोरात्रोपवासेन पूजयेद् यस्तु भस्करम्॥ २९.२३ ॥

सप्तम्यामथवा षष्ठ्यां स याति परमां गतिम्।
कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः॥ २९.२४ ॥

सर्व्वरत्नोपहारेण पूजयेद् यस्तु भास्करम्।
पद्‌मप्रभेण यानेन यूर्य्यलोकं स गच्छति॥ २९.२५ ॥

शुक्लपक्षस्य सप्तम्यामुपवासपरो नरः।
सर्व्वशुक्लोपहारेण पूजयेद् यस्तु भास्करम्॥ २९.२६ ॥

सर्व्वपापविनिर्म्मक्तः सूर्य्यलोकं स गच्छति।
अर्कसम्पुटसंयुक्तमुदकं प्रसृतं पिबेत्॥ २९.२७ ॥

क्रमवृद्‌ध्या चुतुर्व्विसमेकैक क्षपयेत् पुनः।
द्वाभ्यां संवत्सराभ्यान्तु समाप्तनियमो भवेत्॥ २९.२८ ॥

सर्व्वकामप्रदा ह्येषा प्रशस्ता ह्यर्कसप्तमी।
सुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत्॥ २९.२९ ॥

सप्ती विजया नाम तत्र दत्तं महत् फलम्।
स्नानं दानं तपो होम उपवासस्तथैव च॥ २९.३० ॥

सर्व्वं विजयसप्तम्यां महापातकनाशनम्।
ये चादित्यदिने प्राप्ते श्राद्धं कुर्व्वन्ति मानवाः॥ २९.३१ ॥

यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम्।
येषां धर्म्याः क्रियाः सर्व्वाः सदैवोद्दिश्य भास्करम्॥ २९.३२ ॥

न कुले जायते तेषां दरिद्रो व्याधितोऽपि वा।
श्वेतया रक्तया वापि पीतमृत्तिकयापि वा॥ २९.३३ ॥

उपलेपनकर्त्ता तु चिन्तितं लभते फलम्।
चित्रभानुं विचित्रैस्तु कुसुमैश्च सुगन्धिभिः॥ २९.३४ ॥

पूजयेत् सोपवासो यः स कामानीप्सितांल्लभेत्।
घृतेन प्रज्वाल्य तिलतैलेन वा पुनः॥ २९.३५ ॥

आदित्यं पूजयेद्‌यस्तु चक्षुषा न स हीयते।
दीपदाता नरो नित्यं ज्ञानदीपेन दीप्य॥ २९.३६ ॥

तिलाः पवित्रं तैलं वा तिलगोदानमुत्तमम्।
अग्निकार्य्ये च दीपे च महापातकनाशनम्॥ २९.३७ ॥

दीपं ददाति यो नित्यं देवतायतनेषु च।
चतुष्पथेषु रथ्यासु रूपवान् सुभागो भवेत्॥ २९.३८ ॥

हविर्भिः प्रथमः कल्पो द्वितीयश्चोषधीरसैः।
वसामेदोस्थिनिर्य्यासैर्न तु देयः कथञ्चन॥ २९.३९ ॥

भवेदूद्‌र्ध्वगतिर्दोपो न कदाचादधोगतिः।
दाता दीप्यति चाप्येवं न तिर्य्यग्गतिमाप्नुयात्॥ २९.४० ॥

ज्वलमानं सदा दीपं न हरेन्नापि नाशयेत्।
दीपहर्त्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत्॥ २९.४१ ॥

दीपदाता स्वर्गलोके दीपमालेव राजते।
यः समालभते नित्यं कुङकुमागुरुचन्दनैः॥ २९.४२ ॥

सम्पद्यते नरः प्रेत्य धनेन यशसा श्रिया।
रक्तचन्दनसंमिश्रै रक्तपुष्पैः शुचिर्नरः॥ २९.४३ ॥

उदयेऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल्लभेत्।
उदयात् परिवर्त्तेत यावदस्तमने स्थितः॥ २९.४४ ॥

जपन्नभिमुखः किञ्चिनमन्त्रं स्तोत्रमथापि वा।
आदित्यव्रतमेतत्तु महापातकनाशनम्॥ २९.४५ ॥

अर्घ्येयण सहितञ्चैव सर्व्वं साङ्गं प्रदापयेत्।
उदये श्रद्धया युक्तः सर्व्वपापैः प्रमुच्यते॥ २९.४६ ॥

सुवर्मधेनवनडुवसुधावस्त्रसंयुतम्।
अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम्॥ २९.४७ ॥

अग्नौ तोयेऽन्तरिक्षे च शुचौ भूम्यां तथैच च।
प्रतिमायां तथा पिण्ड्यां देयमर्घ्यं प्रयत्नतः॥ २९.४८ ॥

नापसव्यं न सव्यञ्च दद्यादभिमुखः सदा।
सघृतं वापि रवेर्भक्तिसमन्वितः॥ २९.४९ ॥

तत्क्षणात् सर्व्वपापेभ्यो मुच्यते नात्र संशयः।
श्रीवासं चतुरस्रञ्च चदेवदारुं तथैव च॥ २०.५० ॥

कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः।
अयने तूत्तरे सूर्य्यमथवा दक्षिणायने॥ २९.५१ ॥

पूजयित्वा विशेषेण सर्व्वपापैः प्रमुच्यते।
विपुवेषूपरागेषु षडशीतिमुखेषु च॥ २९.५२ ॥

पूजयित्वा विशेषण सर्व्वपापैः प्रमुच्यते।
एवं वेलासु सर्व्वासु सर्व्वकालञ्च मानवः॥ २९.५३ ॥

भक्त्या पूजयते योऽर्कं सोऽर्कलोके महीयते।
कृसरैः पायसैः पूपैः फलमूलघृतौदनैः॥ २९.५४ ॥

वलिं कृत्वा तु सूर्य्याय सर्व्वान् कामानवाप्नुयात्।
घृतेन तर्पणं कृत्वा सर्व्वसिद्धो भवेन्नरः॥ २९.५५ ॥

क्षीरेम तर्पणंच कृत्वा मनस्तापैर्न युज्यते।
दध्ना तु तर्पणं कृत्वा कार्य्यसिद्धिं लभेन्नरः॥ २९.५६ ॥

स्नानार्थमाहरेद् यस्तु जलं भानोः समाहितः।
तीर्थेषु शुचितापन्नः स याति परमां गतिम्॥ २९.५७ ॥

छत्रं ध्वजं वितानं वा पताकां चामराणि च।
श्रद्धया भानवे दत्त्वा गतिमिष्टामवाप्नुयात्॥ २९.५८ ॥

यद्‌यद्‌द्रव्यं नरो भक्त्वा आदित्याय प्रयच्छति।
तत्तस्य शतसाहस्रमुत्पादयति भास्करः॥ २९.५९ ॥

मानसं वाचिकं वापि कायजं यच्च दुष्कृतम्।
सर्व्वं सूर्य्यप्रसादेन दतशेषं व्यपोहति॥ २९.६० ॥

एकाहेनापि यद्‌भानोः पूजायाः प्राप्यते फलम्।
यथोक्तदक्षिणैर्विप्रैर्न तत् क्रतुशर्तरपि॥ २९.६१ ॥

इति श्रीब्राह्मो महापुराणे सूर्य्यपूजादि नामैकोनत्रिंशोऽध्यायः॥ २९ ॥

</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२९" इत्यस्माद् प्रतिप्राप्तम्