"ब्रह्मपुराणम्/अध्यायः ४१" इत्यस्य संस्करणे भेदः

new page

No edit summary
पङ्क्तिः ८:
| notes =

<poem>
'''एकाम्रकक्षेत्रमाहात्म्यकथनम्

'''लोमहर्षण उवाच
गुत्वैवं वै मुनिक्षेष्ठाः कथां पापप्रणशिनीम्।
रुद्रक्रोधोद्‌भवां पुण्यां व्यासस्य वदतो द्विजाः॥ ४१.१ ॥

पार्वत्याश्च तथा रोषं क्रोधं शंभोश्च दुःसहम्।
उत्पत्तिं वीरभद्रस्य भद्रकाल्याश्च संभवम्॥ ४१.२ ॥

दक्षयज्ञविनाशं च वीर्यं शंभोस्तथाऽद्‌भुतम्।
पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः॥ ४१.३ ॥

यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः।
हृष्टा बभूवुः संप्रीता विस्मितास्च पुनः पुनः॥ ४१.४ ॥

पप्रच्छुश्च पुनर्व्यासं कथाशेषं तथा द्विजाः।
पृष्टः प्रोवाच तान्व्यासः श्रेत्रमेकाम्रकं पुनः॥ ४१.५ ॥

'''व्यास उवाच
ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुंगवाः।
प्रशशंसुस्तदा दृष्टा रोमाञ्चिततनूरुहा॥ ४१.६ ॥

'''ऋषय ऊचुः
अहो देवस्य माहात्म्यं त्वया शंभोः प्रकीर्तितम्।
दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा॥ ४१.७ ॥

एकाम्रकं क्षेत्रवरं वक्तुमर्हसि सांप्रतम्।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः॥ ४१.८ ॥

'''व्यास उवाच
तेषां तद्वचनं श्रुत्वा लोकनाथश्चतुर्मुखः।
प्रोवाच शंभोस्तत्क्षेत्रं भूतले दुष्कृतच्छदम्॥ ४१.९ ॥

'''ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः।
सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम्॥ ४१.१० ॥

लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम्।
एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम्॥ ४१.११ ॥

एकाम्रावृक्षस्तत्राऽऽसीत्पुरा कल्पे द्विजोत्तमाः।
नाम्ना तस्यैव तत्क्षेत्रमेकाम्रकमिति श्रुतम्॥ ४१.१२ ॥

हृष्टपुष्टजनाकौर्णं नरनारीसमन्वितम्।
विद्वांसग(द्यावद्‌गः णभूयिष्ठं धनधान्यादिसंयुतम्॥ ४१.१३ ॥

गृहगोपुरसंबाधं त्रिकचाद्वारभूषितम्।
नानावणिक्समाकीर्णं नानारत्नोपशोभितम्॥ ४१.१४ ॥

पुराट्टालकसंयुक्तं रथिभिः समलंकृतम्।
राजहंसनिभैः शुभ्रैः प्रसादैरुपशोभितम्॥ ४१.१५ ॥

मार्गगद्वारसंयुक्तं सितप्राकारशोभितम्।
रक्षितं शस्त्रसंघैश्च परिखाभिरलंकृतम्॥ ४१.१६ ॥

सितरक्तैस्तथा पीतैः कृष्मश्यामैस्च वर्णकैः।
समीरणोद्धताभिश्च पताकाभिरलंकृतम्॥ ४१.१७ ॥

नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः।
वीणावेणुमृदङ्गैश्च क्षेपणीभिरलंकृतम्॥ ४१.१८ ॥

देवतायतनैर्दिव्यैः प्राकारोद्यानमण्डिनैः।
पूजाविचित्ररचितः सर्वत्र समलंकृतम्॥ ४१.१९ ॥

स्त्रियः प्रमुदितास्तत्र दृस्यन्ते तनुमध्यमाः।
हारैरलंकृतग्रीवाः पद्मपत्रायतेक्षणाः॥ ४१.२० ॥

पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः।
स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः॥ ४१.२१ ॥

सुकेश्यश्चारुजघनाः कर्णान्तायतलोचनाः।
सर्वलक्षणसपन्नाः सर्वाभरमभूषिताः॥ ४१.२२ ॥

दिव्यवस्त्रधराः शुभ्राः काश्चित्काञ्चनसंनिभाः।
हंसवारणगामिन्यः कुचभारावनामिताः॥ ४१.२३ ॥

दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः।
मदालसाश्च सुश्रेण्यो नित्यं प्रहसिताननाः॥ ४१.२४ ॥

ईषद्विस्पष्टदशना बिम्भोष्ठा मधुरस्वराः।
ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः॥ ४१.२५ ॥

सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः।
दिव्यवस्त्रधराः सर्वाः सदा चारि६मण्डिताः॥ ४१.२६ ॥

क्रीडन्ति ताः सदा तत्र स्त्रियश्चाप्सरसोपमाः।
स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः॥ ४१.२७ ॥

पुरुषास्तत्र दृस्यन्ते रूपयौवनगर्विताः।
सर्वलक्षणसंपन्नाः सुमृष्टमणिकुण्डलाः॥ ४१.२८ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः।
स्वधर्मनिरतास्तत्र निवसन्ति सुधार्म्काः॥ ४१.२९ ॥

अन्याश्च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः।
घृताचीमेनकातुल्यास्तता समतिलोत्तमाः॥ ४१.३० ॥

उर्वशीसदृशाश्चैव विप्रचित्तिनिभास्तथा।
विश्वाचीसहजन्याओभाः प्रम्लोचासदृशास्तथा॥ ४१.३१ ॥

सवर्सिताः प्रियवादिन्यः सर्वा विहसिताननाः।
कलाकौशलसंयुक्ताः सवस्तिः गुणसंयुताः॥ ४१.३२ ॥

एवं पण्यस्त्रियस्तत्र नृत्यगीतविशारदाः।
निवसन्ति मुनिश्रेष्ठा सर्वस्त्रीगुणगर्विताः॥ ४१.३३ ॥

प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः।
न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः॥ ४१.३४ ॥

यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः।
न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः॥ ४१.३५ ॥

न रोगिणो न मलिना न कदर्या न मायिनः।
न रूपहीना दुर्वृत्ता न परद्रोहकारिणः॥ ४१.३६ ॥

तिष्ठन्ति मानवास्तत्र क्षेत्रे जगति विश्रुते।
सर्वत्र सुखसंचारं सर्वसत्त्वसुखावहम्॥ ४१.३७ ॥

नानाजनसमाकीर्णं सर्वसस्यसमन्वितम्।
कर्णिकारैश्च पनसैश्चम्पकैनगिकेसरैः॥ ४१.३८ ॥

पाटलाशोकबकुलैः कपित्थैर्बहुलैर्धवैः।
चूतनिम्बकदम्वैश्च तथाऽन्यैः पुष्पजातिभिः॥ ४१.३९ ॥

नीपकैर्धवखदिरैर्लताभश्च विराजितम्।
शालैस्तालैस्तमालैश्च नारिकेलैः शुभञ्जनैः॥ ४१.४० ॥

अर्जुनैः समपर्णैश्च कोविदारैः सपिप्पलैः।
लकुचैः सरलैर्लोध्रैर्हिन्तालैर्देवदारुभिः॥ ४१.४१ ॥

पलाशैमुचुकुन्दैश्च पारिजातैः सकुब्जकैः।
कदलीवनखण्डैश्च जम्बूपूगफलैस्तथा॥ ४१.४२ ॥

केतकीकरवीरैश्च अतिमुक्तैश्च किंशुकैः।
मन्दारकुन्धृदपुष्पैश्च तथाऽन्यैः पुष्पजातिभिः॥ ४१.४३ ॥

नानापक्षिरुतैः सेव्यैरुद्यानैर्नन्दनोपमैः।
फलभारानतैश्चान्यैः पद्मिनीखण्डमण्डितैः॥ ४१.४४ ॥

चकेरैः शतपत्रैश्च भृङ्गराजैश्च कोकिलैः।
कलविङ्कैर्मयूरैस्च प्रियपुत्रैः शुकैस्तथा॥ ४१.४५ ॥

जीवंजीवकहारीतैस्चातकैर्वनवेष्टितैः।
नानापक्षिगणैश्चान्यैः कूजद्भिर्मधुरस्वरैः॥ ४१.४६ ॥

दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः।
नानाजलाशयैश्चान्यैः पद्मिनीखण्डमण्डितैः॥ ४१.४७ ॥

कुमुदैः पुण्डरीकैश्च था नीलोत्पलैः शुभैः।
कादम्बैस्चक्रवाकैश्च तथैव जलकुक्कुटैः॥ ४१.४८ ॥

कारण्डवैः प्लवैर्हंसैस्तथाऽन्यैर्जलचारिभिः।
एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैर्वरैः॥ ४१.४९ ॥

नानाजलाशयैः पुण्यैः शौभितं तत्समन्ततः।
आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः॥ ४१.५० ॥

हताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः।
पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च॥ ४१.५१ ॥

पुष्करिण्यस्तडागानि वाप्यः सर्वसुरैः सह।
तीर्थं बिन्दुसरो नाम तस्मिन्क्षेत्रे द्विजोत्तमाः॥ ४१.५२ ॥

सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह।
तीर्थं बिन्दुसरो नाम तस्मिन्क्षेत्रे द्विजोत्तमाः॥ ४१.५३ ॥

चकार ऋषिभिः सार्धं बिन्दुसरः स्मृतम्।
अष्टम्यां वहुले पक्षे मागशीर्षे द्विजोत्तमाः॥ ४१.५४ ॥

यस्तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः।
विधिवद्विन्दुसरसि स्नात्वा श्रद्धासमन्वितः॥ ४१.५५ ॥

देवानृषीन्मनुष्यांश्च पितॄन्संतर्प्य वाग्यतः।
तिलादकेन विधिना नामगोत्रविधानवित्॥ ४१.५६ ॥

स्नात्वैवं विधिवत्तत्र सोऽश्वमेधफलं लभेत्।
ग्रहोपरागे विषुवे संकान्त्यामयने तथा॥ ४१.५७ ॥

युगादिषु षडशीत्यां तथाऽन्यत्र शुबे तिथौ।
ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम्॥ ४१.५८ ॥

अन्यतीर्थाच्छतगुणं फलं ते प्राप्नुवन्ति वै।
पिण्डं ये संप्रयच्छन्ति पितृभ्यः सरसस्तटे॥ ४१.५९ ॥

पितृणामक्षयां तृप्तं ते कुर्वन्ति न संशयः।
ततः शंभोर्गृहं गत्वा वाग्यतः संयतेन्द्रियः॥ ४१.६० ॥

प्रविश्य पूज्येच्चर्वं कृत्वा तं त्रिःप्रदक्षिणम्।
घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः॥ ४१.६१ ॥

चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च।
ततः संपूजयेद्‌देवं चन्द्रमौलिमुमापतिम्॥ ४१.६२ ॥

पुष्पैर्नानाविधैर्मेध्यैर्बिल्वार्ककमलादिभिः।
आगमोक्तेन मनत्रेण वेदोक्तेन च शंकरम्॥ ४१.६३ ॥

अदीक्षितस्तु नाम्नैव मूलमन्त्रेण चार्चयेत्।
एवं संपूज्य तं देवं गन्धपुष्पानुरागिभिः॥ ४१.६४ ॥

धूपदीपैश्व नैवेद्यैरूपहारैस्तथा स्तवैः।
दण्डवत्प्रणिपातैस्च गीतैर्वाद्यैर्मनोहरैः॥ ४१.६५ ॥

नृत्यजप्यनमस्कारैर्जयशब्दैः प्रदक्षिणैः।
एवं संपूज्य विधिवद्‌देवदेवमुमापतिम्॥ ४१.६६ ॥

सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः।
कूलैकविंशमुद्धृत्य दिव्याभरणभूषितः॥ ४१.६७ ॥

सोवर्णेन विमानेन किङ्किणीजालमालिना।
उवगीयमानो गन्धर्वैरप्सरोभिरलंकृतः॥ ४१.६८ ॥

उद्येतयन्दिशः सर्वाः शिवलोकं स गच्छति।
भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम्॥ ४१.६९ ॥

तल्लोकवासिभिः सार्धं यावदाभूतसंप्लवम्।
ततस्तस्मादिहाऽऽयातः पृथिव्यां पुण्यसंक्षये॥ ४१.७० ॥

जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः।
योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात्॥ ४१.७१ ॥

शयनोत्थापने गेहे संक्रान्त्यामयने तथा।
अशोकाख्यां तथाऽष्टम्यां पवित्रारोपणे तथा॥ ४१.७२ ॥

ये च पश्यन्ति तं देवं कृत्तिवाससमुत्तमम्।
विमानेनार्कवर्णन शिवलोकं व्रजन्ति ते॥ ४१.७३ ॥

सर्वनोत्थापने चैव संक्रान्त्यामयने तथा।
अशोकाख्यां तथाऽष्टम्यां पवित्रारोपणे तथा॥ ४१.७४ ॥

देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा।
योजनद्वितयं सार्धं क्षेत्रं तद्‌भुक्तिमुक्तिदम्॥ ४१.७५ ॥

तस्मिन्क्षेत्रवरे लिङ्गं भास्करेश्वरसंज्ञितम्।
पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम्॥ ४१.७६ ॥

आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम्।
सर्वपापविनिर्मुक्ता विमानवरमास्थिता॥ ४१.७७ ॥

उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते।
तिष्ठन्ति तत्र मुदिताः कल्पमेकं द्विजोत्तमाः॥ ४१.७८ ॥

भक्त्वा तु विपुलान्भोगाञ्छिवलोके मनोरमान्।
पुण्यक्षयादिहाऽऽयाता जायनते प्रवरे कुले॥ ४१.७९ ॥

अथवा योगिनां गेहे वेदवेदाङ्गपारगाः।
उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः॥ ४१.८० ॥

मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः।
योगं शंभोर्वरं प्राप्य ततो मोक्षं व्रजन्ति ते॥ ४१.८१ ॥

तस्मिन्क्षेवरे पुण्ये लिङ्गं यद्‌दृश्यते द्विजाः।
पूज्यपूज्यं च सर्वत्र वने रथ्याऽन्तरेऽपि वा॥ ४१.८२ ॥

चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति।
दृष्ट्वा तल्लिङ्गमव्यग्रः श्रद्धया सुसमाहितः॥ ४१.८३ ॥

स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर्मनोहरैः।
धूपैर्दीपैः सनैवेद्यैर्नमस्कारैस्तथा स्तवैः॥ ४१.८४ ॥

दण्डवत्प्रणिपातैश्च नृत्यगीतादिभिस्तथा।
संपूज्यैवं विधानेन शिवलोकं व्रजेन्नरः॥ ४१.८५ ॥

नारी वा द्विजशार्दूलाः संपूद्य श्रद्धयाऽन्विता।
पूर्वोक्तं फलमाप्नोति नात्र कार्या विचारणा॥ ४१.८६ ॥

कः शक्नोति गुणान्वक्तुं समग्रान्मुनिसत्तमाः।
तस्य क्षेत्रवरस्याथ ऋते देवान्महेश्वरात्॥ ४१.८७ ॥

तस्मिन्क्षेत्रोत्तमे गत्वा श्रद्धयाऽश्रद्धयाऽपि वा।
माधवादिषु मासेषु नरो वा यदिवाऽङ्गना॥ ४१.८८ ॥

यस्मिन्यस्मिंस्तिथौ विप्राः स्नात्वा विन्दुसरोम्भसि।
पश्येद्‌देवं विरूपाक्षं देवीं च वरदां शिवाम्॥ ४१.८९ ॥

गणं चण्डं कार्तिकेयं गणेशं वृषभं तथा।
कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति ॥ ४१.९० ॥

स्नात्वा च कापिले तीर्थे विधिवत्पापनाशने।
प्राप्नोत्यभिमतान्कामाञ्छिवलोकं स गच्छति॥ ४१.९१ ॥

यः स्तम्भं तत्र विधिवत्करोति नियतेन्द्रियः।
कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति॥ ४१.९२ ॥

एकाम्रके शिवक्षेत्रे वारणसीसमे शुभे।
स्नानं करोति यस्तत्र मोक्षं स लभते श्रुवम्॥ ४१.९३ ॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवाद एकाम्रक्षेत्रमाहात्म्यवर्णनं नामै कचत्वारिंशोऽध्यायः॥ ४१ ॥

</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_४१" इत्यस्माद् प्रतिप्राप्तम्