"ब्रह्मपुराणम्/अध्यायः ७६" इत्यस्य संस्करणे भेदः

new page
 
adding contents
पङ्क्तिः ११:
 
<poem>
'''अथ षट्सप्ततितमोऽध्यायः'''
'''स्वर्गादौ पंचदशाकृत्या गङ्गाया गमनम्'''
'''नारद उवाच'''
महेश्वरजटाजूटाद्गङ्गमादाय गौतमः।
आगत्य ब्रह्मणः पुण्ये ततः किमकरोद्गिरौ।। ७६.१
 
ब्रह्मोवाच
आदाय गौतमो गङ्गां शुचिः प्रयतमानसः।
पूजितो देवगन्धर्वैस्तथा गिरिनिवासिभिः।। ७६.२ ।।
 
गिरेर्मूध्नि जटां स्थाप्य स्मरन्देवं त्रिलोचनम्।
उवाच प्राञ्जलिर्भूत्वा गङ्गां स द्विजासत्तमः।। ७६.३ ।।
 
गौतम उवाच
त्रिलोचनजटोद्भूते सर्वकामप्रदायिनि।
क्षमस्व मातः शान्ताऽसि सुखं याहि हितं कुरु।। ७६.४ ।।
 
ब्रह्मोवाच
एवमुक्ता गौतमेन गङ्गा प्रोवाच गौतमम्।
दिव्यरूपधरा देवी दिव्यस्रगनुलेपना।। ७६.५ ।।
 
गङ्गोवाच
गच्छेयं देवसदनमथवाऽपि कमण्डलुम्।
रसातलं वा गच्छेयं जातस्त्वं सत्यवागसि।। ७६.६ ।।
 
गौतम उवाच
त्रयाणामुपकारार्थं लोकानां याचिता मया।
शंभुना च तथा दत्ता देवि तन्नान्यथा भवेत्।। ७६.७ ।।
 
ब्रह्मोवाच
तद्गौतमवचः श्रुत्वा गङ्गा मेने द्विजेरितम्।
त्रेधाऽऽत्मानं विभज्याथ स्वर्गमर्त्यरसातले।। ७६.८ ।।
 
स्वर्गे चतुर्धा व्यगमत्सप्तधा मर्त्यमण्डले।
रसातले चतुर्धैव सैवं पञ्चदशाकृतिः।। ७६.९ ।।
 
सर्वत्र सर्वभूतैव सर्वपापविनाशिनी।
सर्वकामप्रदा नित्यं सैव वेदे प्रगीयते।। ७६.१० ।।
 
मर्त्यामर्त्यगतामेव पश्यन्ति न तलं गताम्।
नैव स्वर्गगतां मर्त्याः पश्यन्त्यज्ञानबुद्धयः।। ७६.११ ।।
 
यावत्सागरगा देवी तावद्देवमयी स्मृता।
उत्सृष्टा गौतमेनैव प्रायात्पूर्वार्णवं प्रति।। ७६.१२ ।।
 
ततो देवर्षिभिर्जुष्टां मातरं जगतः शुभाम्।
गौतमो मुनिशार्दूलः प्रदक्षिणमथाकरोत्।। ७६.१३ ।।
 
त्रिलोचनं सुरेशानं प्रथमं पूज्य गौतमः।
उभयोस्तीरयोः स्नानं करोमीति दधे मतिम्।। ७६.१४ ।।
 
स्मृतमात्रस्तदा तत्राऽऽविरासीत्करुणार्णवः।
तत्र स्नानं कथं सिध्येदित्येवं शर्वमब्रवीत्।। ७६.१५ ।।
 
कृताञ्जलिपुटो भूत्वा भक्तिनम्रस्त्रिलोचनम।। ७६.१६ ।।
 
गौतम उवाच
देवदेव महेशान तीर्थस्नानविधिं मम।
ब्रूहि सम्यङ्महेशान लोकानां हितकाम्यया।। ७६.१७ ।।
 
महर्षे श्रृणु सर्वं च विधिं गोदावरीभवम्।
पूर्वं नान्दीमुखं कृत्वा देहशुद्धिं विधाय च।। ७६.१८ ।।
 
ब्राह्मणान्भोजयित्वा च तेषामाज्ञां प्रगृह्य च।
ब्रह्मचर्येण गच्छन्ति पतितालापवर्जिताः।। ७६.१९ ।।
 
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते।। ७६.२० ।।
 
भावदुर्ष्टिं परित्यज्य स्वधर्मपरिनिष्ठितः।
श्रान्तसंवाहनं कुर्वन्दद्यादन्नं यथोचितम्।। ७६.२१ ।।
 
अकिंचनेभ्यः साधुभ्यो दद्याद्वस्त्राणि कम्बलान्।
श्रृण्वन्हरिकथां दिव्यां तथा गङ्गासमुद्भवाम्।।
अनेन विधिना गच्छन्सम्यक्तीर्थफलं लभेत्।। ७६.२२ ।।
 
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये षट्सप्ततितमोऽध्यायः।। ७६ ।।
 
गौतमीमाहात्म्ये सप्तमोऽध्यायः।। ७ ।।
 
</poem>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_७६" इत्यस्माद् प्रतिप्राप्तम्