"कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = चातुर्मास्यनिरूपणम्
}}
<poem><span style="font-size: 14pt; line-height: 200%">चातुर्मास्यप्रयोगः फाल्गुन्याम् १ वैश्वानरपार्जन्यौ निरूप्येच्छन् २ वैश्वानरो द्वादशकपालश्चरुरुत्तरः ३ वैश्वदेवपर्वन् आग्नेयः सौम्यश्चरुः सावित्रो द्वादशकपालोऽष्टाकपालो वा सारस्वतश्चरुः पौष्णश्चरुः प्रपिष्टानाम् ४ द्विदेवतोऽपि नियमसामर्थ्यात् ५ अर्द्धपिष्टं वोभयसामर्थ्यात् ६ सौमापौष्णदर्शनाच्च ७ अपिष्टो वा देवताऽन्यत्वात् ८ सौमापौष्णे वचनात् ९ एतानि सर्वत्र १० मरुद्भ्यः स्वतवद्भ्यः सप्तकपालः ११ मरुतो वा १२ वैश्वदेवी पयस्या १३ द्यावापृथिवीय एककपालः १४ एतद्वैश्वदेवम् १५ प्राचीनप्रवणे १६ अहतवासाः पत्नी च १७ त एव वरुणप्रघासेष्वपि १८ त्रेधा बर्हिः सन्नह्य पुनरेकधा १९ कुशप्रस्वः प्रस्तर उपसन्नद्ध २० आसाद्याऽग्निमन्थनम् २१ अग्नेर्जनित्रमिति शकलमादाय तूष्णीं वेद्यां करोति २२ वृषणाविति कुशतरुणे तस्मिन् २३ उर्वश्यसीत्यधरारणिं तयोः २४ आयुरसीत्युत्तरयाऽज्यस्थालीं संस्पृश्य पुरुरवा इत्यभिनिधानं तया २५ १ 5.1
 
अग्नये मथ्यमानायाऽनुवाचयति १ मन्थति गायत्रेणेति प्रतिमन्त्रं त्रिः प्रदक्षिणम् २ जाते जातायेति ३ प्रहिरियमाणायेति प्रास्यन् ४ भवतन्न इति प्रास्यति ५ अग्नावग्निरिति जुहोति स्थाल्याः स्रुवेण ६ नवप्रयाजं नवाऽनुयाजम् ७ वरुणप्रघासा महाहविश्च ८ त्रीणि समिष्टयजूंषि जुहोति देवा गातुविदो यज्ञ यज्ञमेष त इति ९ पशौ च १० याँ आवह इति वा पशौ ११ एकं वा वैश्वदेवे १२ पवसंस्थासु वपनं वा प्रागन्त्यात् १३ अपरेण दक्षिणाग्निं दक्षिणं गोदानमुन्दति सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनूं दीर्घायुत्वाय वर्चस इति १४ त्र्! येण्या शलल्या विनीय त्रीणि कुशतरुणान्यन्तर्दधात्योषध इति १५ त्र्! यायुषमिति यजमानो जपति १६ शिवो नामेति लोहक्षुरमादाय निवर्त्तयामीति वपति १७ एवं पश्चादुत्तरतश्च १८ गृहेषु पौर्णमासं समारूढनिर्मथितयोस्तथा चेत् १९ प्रजाकामस्याऽपि वैश्वदेवम् २० एकेऽधःप्राङ्शायी मध्वाश्यृतुजायोपायी २१ मांस-स्त्र्! यनृतानि वर्जयेदुदकाभ्यवायं च प्रागवभृथात् २२ २ 5.2
पङ्क्तिः ४६:
इति कातीये श्रौतसूत्रे पञ्चमोऽध्यायः ५
 
</span></poem>