"ब्रह्मपुराणम्/अध्यायः ९६" इत्यस्य संस्करणे भेदः

new page
 
adding contents
पङ्क्तिः ११:
 
<poem>
'''अथ षण्णवतितमोऽध्यायः'''
'''पुण्यासिक्तासंगमेन्द्रतीर्थादिसप्तसहस्रतीर्थवर्णनम्'''
'''ब्रह्मोवाच'''
इन्द्रतीर्थमिति ख्यातं ब्रह्महत्याविनाशनम्।
स्मरणादपि पापौघक्लेशसंघविनाशनम्।। ९६.१ ।।
 
पुरा वृत्रवधे वृत्ते ब्रह्महत्या तु नारद।
शचीपतिं चानुगता तां दृष्ट्वा भीतवद्धरिः।। ९६.२ ।।
 
इन्द्रस्ततो वृत्रहन्ता इतश्चेतश्च धावति।।
यत्र यत्र त्वसौ याति हत्या साऽपीन्द्रगामिनी।। ९३.३ ।।
 
स महत्सर आविश्य पद्मनालमुपागमत्।
तत्रासौ तन्तुवद्भूत्वा वासं चक्रे शचीपतिः।। ९६.४ ।।
 
सरस्तीरेऽपि हत्याऽऽसीद्दिव्यं वर्षंसहस्रकम्।
एतस्मिन्नन्तरे देवा निरिन्द्रा ह्यभवन्मुने।। ९६.५ ।।
 
मन्त्रयामासुरव्यग्राः कथमिन्द्रो भवेदिति।
तत्राहमवदं देवान्हत्यास्थानं प्रकल्प्य च।। ९६.६ ।।
 
इन्द्रस्य पावनार्थाय गौतम्यामभिषिच्यताम्।
यत्राभिषिक्तः पूतात्मा पुनरिन्द्रो भविष्यति।। ९६.७ ।।
 
तथा ते निश्चयं कृत्वा गौतमीं शीघ्रमागमन्।
तत्र स्नातं सुरपतिं देवाश्च ऋषयस्तथा।। ९६.८ ।।
 
अभिषेक्तुकामास्ते सर्वे शचीकान्तं च तस्थिरे।
अभिषिच्यमानमिन्द्रं तं प्रकोपाद् गौतमोऽब्रवीत्।। ९६.९ ।।
 
गौतम उवाच
अभिषेक्ष्यन्ति पापिष्ठं महेन्द्रं गुरुतल्पगम्।
तान्सर्वान्भस्मसात्कुर्यां शीघ्रं यान्त्वसुरारयः।। ९६.१० ।।?
 
ब्रह्मोवाच
तदुषेर्वचनं श्रुत्वा परिहृत्य च गौतमीम्।
नर्मदामगमन्सर्व इन्द्रमादाय सत्वराः।। ९६.११ ।।
 
उत्तरे नर्मदातीरे अभिषेकाय तस्थिरे।।
अभिषेक्ष्यमाणमिन्द्रं तं माण्डव्यो भगवानृषिः।। ९६.१२ ।।
 
अब्रवीद्भस्मसात्कुर्यां यदि स्यादभिचनम्।
पूजयामासुरमरा माण्डव्यं युक्तिभिः स्तवैः।। ९६.१३ ।।
 
देवा ऊचुः
अयमिन्द्रः सहस्राक्षो यस्मिन्देशेऽभिषिच्यते।
तत्रातिदारुणं विघ्नं मुने समुपजायते।। ९६.१४ ।।
 
तच्छान्तिं कुरु कल्याण प्रसीद वरदो भव।
मलनिर्यातनं यस्मिन्कुर्मस्तस्मिन्वरान्बहून्।। ९६.१५ ।।
 
देशे दास्यामहे सर्वे तदनुज्ञातुर्महसि।
यस्मिन्देशे सुरेन्द्रस्य अभिषेको भविष्यति।। ९६.१६ ।।
 
स सर्वकामदः पुंसां धान्यवृक्षफलैर्युतः।
नानावृष्टिर्नदुर्भिक्षं भवेदत्र कदाचन।। ९६.१७ ।।
 
ब्रह्मोवाच
मेने ततो मुनिश्रेष्ठो माण्डव्यो लोकपूजितः।
अभिषेकः कृतस्तत्र मलनिर्यातनं तथा।। ९६.१८ ।।
 
देवैस्तदोक्तो मुनिभिः स देशो मालवस्ततः।
अभिषिक्ते सुरपतौ जाते च विमले तदा।। ९६.१९ ।।
 
आनीय गौतमीं मङ्गं तं पुण्यायाभिषेचिरे।
सुराश्च ऋषयश्चैव अहं विष्णुस्तथैव च।। ९६.२० ।।
 
वशिष्ठो गौतमश्चापि अगस्त्योऽत्रिश्च कस्यपः।
एते चान्ये च ऋषयो देवा यक्षाः सपन्नगाः।। ९६.२१ ।।
 
स्नानं तत्पुण्यतोयेन अकुर्वन्नभिषेचनम्।
मया पुनः शचीभर्ता कमण्डलुभवेन च।। ९६.२२ ।।
 
वारिणाऽप्यभिषिक्तश्च तत्र पुण्याऽभवन्नदी।।
सिक्ता चेति च तत्राऽऽसीत्ते गङ्गायां च संगते।। ९६.२३ ।।
 
संगमौ तत्र विख्यातौ सर्वदा मुनिसेवितौ।
ततः प्रभृति तत्तीर्थं पुण्यासंगममुच्यते।। ९६.२४ ।।
 
सिक्तायाः संगमे पुण्यमैन्द्रं तदभिधीयते।
तत्र सप्त सहस्राणि तीर्थान्यासञ्शुभानि च।। ९६.२५ ।।
 
तेषु स्नानं च दानं च विशेषेण तु संगमे।
सर्वं तदक्षयं विद्यान्नात्र कार्या विचारणा।। ९६.२६ ।।
 
यदेतत्पुण्यमाख्यानं यः पठेच्च शृणोति वा।
सर्वपापैः स मुच्येते मनोवाक्कायकर्मजैः।। ९६.२७ ।।
 
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पुण्यासिक्तासंगमेन्द्रतीर्थादिसप्तसहस्रतीर्थवर्णनं नाम षण्णावतितमोऽध्यायः।। ९६ ।।
 
गौतमीमाहात्म्ये सप्तविंशोऽध्यायः।। २७ ।।
 
</poem>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_९६" इत्यस्माद् प्रतिप्राप्तम्