"ब्रह्मपुराणम्/अध्यायः २४६" इत्यस्य संस्करणे भेदः

new page

No edit summary
पङ्क्तिः ८:
| notes =

<poem>
'''अस्य श्रवणपठनकर्तॄणां फलप्राप्तिकथनम्

'''लोमर्हषण उवाच
एवं पुरा मुनीन्व्यासः पुराणं श्लक्ष्णया गिरा।
दसाष्टदोषरहितैर्वाक्यैः सारतरैर्द्विजाः।। २४६.१ ।।

पूर्णमस्तमलैः शुद्धैर्नानाशास्त्रसमुच्चयैः।
जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम्।। २४६.२ ।।

पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम्।
श्रावयित्वा यथान्यायं विरराम महामतिः।। २४६.३ ।।

तेऽपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसंमितम्।
आद्यं ब्राह्मविधानं च सर्ववाञ्छाफलप्रदम्।। २४६.४ ।।

हृष्टा बभूवुः सुप्रीता विस्मिताश्च पुनः पुनः।
प्रशशंसुस्तदा व्यासं कृष्णद्वैपायनं मुनिम्।। २४६.५ ।।

अहो त्वया मुनश्रेष्ठ पुराणं श्रुतिसंमितम्।
सर्वाभिप्रेतफलदं सर्वपापहरं परम्।। २४६.६ ।।

प्रोक्तं श्रुतं तथाऽस्माभिर्विचित्रपदमक्षरम्।
नतेऽस्त्यविदितं किंचित्त्रिषु लोकेषु वै प्रभो।। २४६.७ ।।

सर्वज्ञस्त्वं महाभाग देवेष्विव बृहस्पतिः।
नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम्।। २४६.८ ।।

येन त्वया तु वेदार्था भारते प्रकटीकृताः।
कः शक्नोति गुणान्वक्तुं तव सर्वान्महामुने।। २४६.९ ।।

अधीत्य चुरो वेदान्साङ्गान्व्याकरणानि च।
कृतवान्भारतं शास्त्रं तस्मै ज्ञानात्मने नमः।। २४६.१० ।।

नमोऽस्तु ते व्यास विशालबुद्धे, फुल्लारविन्दायतपत्रनेत्र।
येन त्वाय भारततैलपूर्णः प्रज्वलितो ज्ञानमयः प्रदीपः।। २४६.११ ।।

अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः।
ज्ञानाञ्जनशलाकेन त्वाय चोन्मीलिता दृशः।। २४६.१२ ।।

एवमुक्त्वा समभ्यर्च्य व्यासं ते चैव पूजिताः।
जग्मुर्यथागतं सर्वे कृतकृत्याः स्वमाश्रमम्।। २४६.१३ ।।

तथा मया मुनिश्रेष्ठा कथितं हि सनातनम्।
पुराणं सुमहापुण्यं सर्वपापप्रणाशनम्।। २४६.१४ ।।

यथा भवद्भिः पृष्टोऽहं संप्रश्नं द्विजसत्तमाः।
व्यासप्रसादात्तत्सर्वं मया संपरिकीर्तितम्।। २४६.१५ ।।

इदं गृहस्थैः श्रोतव्यं यतिभिर्ब्रह्मचारिभिः।
धनसौख्यप्रदं नणां पवित्रं पापनाशनम्।। २४६.१६ ।।

तथा ब्रह्मपरैर्विप्रैर्ब्राह्मणाद्यैः सुसंयतैः।
श्रोतव्यं सुप्रयत्नेन सम्यक्श्रेयोभिकाङ्क्षिभिः।। २४६.१७ ।।

प्राप्नोति ब्राह्मणो विद्यां क्षत्रियो विजयं रणे।
वैश्यस्तु धनमक्षय्यं शूद्रः सुखमवाप्नुयात्।। २४६.१८ ।।

यं यं काममभिध्यायञ्शुणोति पुरुषः शुचिः।
तं तं काममवाप्नोति नरो नास्त्यत्र संशयः।। २४६.१९ ।।

पुराणं वैष्णवं त्वेतत्सर्वकिल्विषनाशनम्।
विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम्।। २४६.२० ।।

एतद्वो यन्मयाऽऽख्यातं पुराणं वेदसंमितम्।
श्रुतेऽस्मिन्सर्वदोषोत्थः पापाराशिः प्रणश्यति।। २४६.२१ ।।

प्रयागे गुष्करे चैव कुरुक्षेत्रे तथाऽर्बुदे।
उपोष्य यदावाप्नोति तदस्य श्रवणान्नरः।। २४६.२२ ।।

यदग्निहोत्रे सुहुते वर्षे नाऽऽप्नोति वै फलम्।
महापुण्यमयं विप्रास्तदस्य श्रवणात्सकृत्।। २४६.२३ ।।

यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले।
मथुरायां हरिं दुष्ट्वा प्राप्नोति पुरुषः फलम्।। २४६.२४ ।।

तदाप्नोति फलं सम्यक्समाधानेन कीर्तनात्।
पुराणेऽस्य हितो(?)विप्राः केशवार्पितमानसः।। २४६.२५ ।।

यत्फलं क्रि(श्रि)यमलोक्य पुरुषोऽथ लभेन्नरः।
तत्फलं समवाप्नोति यः पठेच्छृणुयादपि।। २४६.२६ ।।

इदं यः श्रद्धया नित्यं पुराणं वेदसंमितम्।
यः पठेच्छृणुयान्मर्त्यः स याति भुवनं हरेः।। २४६.२७ ।।

श्रावयेद्‌ब्राह्मणो यस्तु सदा पर्वसु संयतः।
एकादश्यां द्वादश्यां च विष्णुलोकं स गच्छति।। २४६.२८ ।।

इदं यशस्यमायुष्यं सुखदं कीर्तिवर्धनम्।
बलपुष्टिप्रदं नॄणां धन्यं दुःस्वप्ननाशनम्।। २४६.२९ ।।

त्रिसंध्यं यः पठेद्विद्वाञ्श्रद्धया सुममाहितः।
इदं वरिष्ठमाख्यानं स सर्वमीप्सितं लभेत्।। २४६.३० ।।

रोगार्तो मुच्यते रोगाद् बद्धो मुच्यते बन्धनात्।
भयाद्विमुच्यते भीत आपदापन्न आपदः।। २४६.३१ ।।

जातिस्मरत्वं विद्यां च पुत्रान्मेधां पशून्धृतिम्।
धर्मं चार्थं च कामं च मोक्षं तु लभते नरः।। २४६.३२ ।।

यान्यान्कामानभिप्रेत्य पठेत्प्रतमानसः।
तांस्तन्सर्वानवाप्नोति पुरुषो नात्र संशयः।। २४६.३३ ।।

यश्चेदं सततं शृणोति मनुजः स्वर्गापवर्गप्रदं,विष्णुं सततं शृणोति वरदं भक्त्येकचित्तः शुचिः।
भुक्त्वा चात्र सुखं विमुक्तकलुषः स्वर्गे च दिव्यं सुखं, पश्चाद्याति हरेः पदं सुविमलं मुक्तो गुणैः प्राकृतैः।। २४६.३४ ।।

तस्माद्विप्रवरैः स्मधर्मनिरतैर्मुक्त्येकमार्गेप्सुभिस्तद्वत्क्षत्रियपुंगवैस्तु नियतैः श्रेयोर्थिभिः सर्वदा।
वैश्यैश्चानुदिनं विशुद्धकुलजैः शूद्रैस्तथा धार्मिकैः श्रोतव्यं त्विदमुत्तमं बहुफलं धर्माथमोक्षप्रदम्।। २४६.३५ ।।

धर्मे मतिर्भवतु वः पुरुषोत्तमानां, स ह्येक एव परलोकगतस्य बन्धुः।
अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना, नैव प्रभावमुपयान्ति न च स्थिरत्वम्।। २४६.३६ ।।

धर्मेण राज्यं लभते मनुष्यः, स्वर्गं च धर्मेण नरः प्रयाति।
आयुश्च कीर्तिं च तपश्च, धर्मेण मोक्षं लभते मनुष्यः।। २४६.३७ ।।

धर्मोऽत्र मातापितरौ नरस्य, धर्मः सखा चात्र परे च लोके।
त्राता च धर्मस्त्विह मोक्षदश्च, धर्मादृते नास्ति तु किंचिदेव।। २४६.३८ ।।

इदं रहस्यं श्रेष्ठं च पुराणं वेदसंमितम्।
न देयं दुष्टमतये नास्तिकाय विशेषतः।। २४६.३९ ।।

इदं मयोक्तं प्रवरं पुराणं, पापापहं धर्मविवर्धनं च।
श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि।। २४६.४० ।।

इति श्रीमहापुराणे आदिब्राह्मे रोमहर्षणमुनिसंवादे पुराणप्रशंसनं नाम षट्‌चत्वारिंशदधिकद्विशततमोऽध्यायः।। २४६ ।।

समाप्तमिदमादिब्राह्मभिधं महापुराणम्
ॐतत्सद्‌ब्रह्‌मार्पणमस्तु।।
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२४६" इत्यस्माद् प्रतिप्राप्तम्