"पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/४९" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}युगलकम् ।
{{center|युगलकम् ।}}

{{gap}}अस्या उज्जयिन्याः सौधेष्वध्वखिन्नानन्तरात्मा निशामतिवाह्य चण्डेश्वरम्य शंभोर्धामायतनं याया गच्छेः । कीदृशः । जालोद्गीर्णैर्गवाक्षविवरनिर्गतैरङ्गनामूर्धजोपस्कारधूमैरुपचितवपुः पीवरतनुः । धूमप्रायत्वादभ्राणाम् । तथा गृहमयूरैः सुहृत्स्नेहाद्दत्तो वितीर्णो नृत्तमेवोपहारो बलिर्यस्य । ते हि त्वामालोक्य सुहृत्स्नेहान्नृत्यन्ति । कीदृशेषु हर्म्येषु । कुसुमैरूपकारपुष्पैः सुगन्धिषु । तथा ललितानां सविलासानां वनितानां पादानामलक्तकेनाङ्कितेषु चिह्नितेषु । त्वं कीदृशः । गणैः प्रीत्यालोक्यमानः । कुतः । भर्तुः शम्भोः कण्ठच्छविर्गलनिभकान्तिरित्यतो हेतोः । कीदृशं धाम । पुण्यं पवित्रम् । तथा गन्धवत्याख्याया नद्या मरुद्भिर्वातैर्धूतोद्यानमुल्लसितोपवनम् । कीदृशैः । कुवलयरजोगन्धिभिरुत्पलरेणुसौरभं विद्यते येषां तैः । तथा तोयक्रीडायां जलकेलौ निरताः सक्ता या युवतयस्तासां स्नानेन तिक्तैः कटुकैः । अङ्गरागसंक्रमणात् ॥ ३२ ॥ ३३ ॥