"तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५१:
4.11 अनुवाक ११</span></poem>
[[File:उत्तरवेदी Uttaravedi.png|thumb|उत्तरवेदी]]
<poem><span style="font-size: 14pt; line-height: 200%">घर्म या ते दिवि शुक् । या गायत्रे छन्दसि । या ब्राह्मणे । या हविर्धाने । तां त एतेनावयजे स्वाहा १ घर्म या तेऽन्तरिक्षे शुक् । या त्रैष्टुभे छन्दसि । या राजन्ये । याग्नीध्रे । तां त एतेनावयजे स्वाहा । घर्म या ते पृथिव्याँ शुक् । या जागते छन्दसि । या वैश्ये । या सदसि । तां त एतेनावयजे स्वाहा २ अनु नोऽद्यानुमतिः । अन्!विदनुमते त्वम् ३ दिवस्त्वा परस्पायाः । अन्तरिक्षस्य तनुवः पाहि । पृथिव्यास्त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे ४ ब्रह्मणस्त्वा परस्पायाः । क्षत्त्रस्य तनुवः पाहि । विशस्त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे ५ प्राणस्य त्वा परस्पायै । चक्षुषस्तनुवः पाहि । श्रोत्रस्य त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे ६ वल्गुरसि शंयुधायाः । शिषुर्जनधायाःशिशुर्जनधायाः ७ शं च वक्षि परि च वक्षि ८ चतुःस्रक्तिर्नाभिरृतस्य ९ सदो विश्वायुः शर्म सप्रथाः १० अप द्वेषो अप ह्वरः । अन्यद्व्रतस्य सश्चिम ११ घर्मैतत्तेऽन्नमेतत्पुरीषम् । तेन वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयम् । आ च प्यासिषीमहि १२ रन्तिर्नामासि दिव्यो गन्धर्वः । तस्य ते पद्वद्धविर्धानम् । अग्निरध्यक्षः । रुद्रो ऽधिपतिः १३ समहमायुषा । सं प्राणेन । सं वर्चसा । सं पयसा । सं गौपत्येन । सँ रायस्पोषेण १४ व्यसौ । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः १५ अचिक्रदद्वृषा हरिः । महान्मित्रो न दर्शतः । सँ सूर्येण रोचते १६ चिदसि समुद्र योनिः । इन्दुर्दक्षः श्येन ऋतावा । हिरण्यपक्षः शकुनो भुरण्युः । महान्त्सधस्थे ध्रुव आ निषत्तः । नमस्ते अस्तु मा मा हिँ सीः १७ विश्वावसुँ सोमगन्धर्वम् । आपो ददृशुषीः । तदृतेना व्यायन् । तदन्ववैत् । इन्द्रो रारहाण आसाम् । परि सूर्यस्य परिधीँ रपश्यत् १८ विश्वावसुरभि तन्नो गृणातु । दिव्यो गन्धर्वो रजसो विमानः । यद्वा घा सत्यमुत यन्न विद्म । धियो हिन्वानो धिय इन्नो अव्यात् १९ सस्निमविन्दच्चरणे नदीनाम् । अपावृणोद्दुरो अश्मव्रजानाम् । प्रासां गन्धर्वो अमृतानि वोचत् । इन्द्रो दक्षं परि जानादहीनम् २० एतत्त्वं देव घर्म देवो देवानुपागाः २१ इदमहं मनुष्यो मनुष्यान् । सोमपीथानु मेहि । सह प्रजया सह रायस्पोषेण २२ सुमित्रा न आप ओषधयः सन्तु । दुर्मित्रास्तस्मै भूयासुः । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः २३ उद्वयं तमसस्परि । उदु त्यं चित्रम् २४ इममू षु त्यमस्मभ्यँ सनिम् । गायत्रं नवीयाँ सम् । अग्ने देवेषु प्र वोचः २५ याग्नीध्रे तां त एतेनावयजे स्वाहा धर्मणा शंयुधायाः प्यासिषीमहि पोषेण निषत्तो विद्म
सन्त्वष्टौ च