"ब्रह्मपुराणम्/अध्यायः ११३" इत्यस्य संस्करणे भेदः

adding contents
(new page)
 
(adding contents)
 
<poem>
'''अथ त्रयोदशाधिकशततमोऽध्यायः।'''
'''ब्रह्मतीर्थवर्णनम्'''
'''ब्रह्मोवाच'''
इदमप्यपरं तीर्थं देवानामपि दुर्लभम्।
ब्रह्मतीर्थमिति ख्यातं भक्तिमुक्तिप्रदं नृणाम्।। ११३.१ ।।
 
स्थितेषु देवसैन्येषु प्रविष्टेषु रसातलम्।
दैत्येषु च मुनिश्रेष्ठ तथा मातृषु ताननु।। ११३.२ ।।
 
मदीयं पञ्चमं वक्त्रं गर्दभाकृति भीषणम्।
तद्वक्त्रं देवसैन्येषु मयि तिष्ठत्युवाच ह।। ११३.३ ।।
 
हे दैत्याः किं पलायन्ते न भयं वोऽस्तु सत्वरम्।
आगच्छन्तु सुरान्सर्वान्भक्षियिष्वे क्षणादिति।। ११३.४ ।।
 
निवारयन्तं मामेव भक्षणायोद्यतं तथा।
तं दृष्ट्वा विबुधाः सर्वे वित्रस्ता विष्णुमब्रुवन्।। ११३.५ ।।
 
त्राहि विष्णो जगन्नाथ ब्रह्मणोऽस्य मुखं लुन।
चक्रधृग्विबुधानाह च्छेद्मि चक्रेण वै शिरः।। ११३.६ ।।
 
किं तु तच्छिन्नमेवेदं संहरेत्सचराचरम्।
मन्त्रं ब्रूमोऽत्र विबुधाः श्रूयतां सर्वमेव हि।। ११३.७ ।।
 
त्रिनेत्रः कशिरश्छेत्ता स तच धत्ते न संशयः।
मया च शंभुः सर्वैश्च स्तुतः प्रोक्तस्तथैव च।। ११३.८ ।।
 
यागः क्षणी दृष्टफलेऽसमर्थः, स नैव कर्तुः फलतीति मत्वा।
फलस्य दाने प्रतिभूर्जटीति, निश्चित्य लोकः प्रतिकर्म यातः।। ११३.९ ।।
 
ततः सुरेशः संतुष्टो देवानां कार्यसिद्धये।
लोकानामुपकारार्थं तथेत्याह सुरान्प्रति।। ११३.१० ।।
 
तद्वक्त्रं पापरूपं यद्भीषणं लोमहर्षणम्।
निकृत्य नखशस्त्रैश्च क्व स्थाप्यं चेत्यथाब्रवीत्।। ११३.११ ।।
 
तत्रेला विबुधानाह नाहं वोढुं शिरः क्षमा।
रसातलमथो यास्ये उदधिश्चाप्यथाब्रवीत्।। ११३.१२ ।।
 
शेषं यास्ये क्षणादेव पुनश्चेचुः शिवं सुराः।
त्वयैवैतद्ब्रह्मशिरो धार्यं लोकानुकम्पया।। ११३.१३ ।।
 
अच्छेदे जगतं नाशश्छेदे दोषश्च तादृशः।
एवं विमृश्य सोमेशो दधार कशिरस्तदा।। ११३.१४ ।।
 
तद्दृष्ट्वा दुष्करं कर्म गौतमीं प्राप्य पावनीम्।
अस्तुवञ्जगतामीसं प्रणयाद्भक्तितः सुराः।। ११३.१५ ।।
 
देवष्वमित्रं कशिरोऽतिभीमं, तान्भक्षणायपगतं निकृत्य।
नखाग्रसूच्या शकलेन्दुमौलिस्त्यागेऽपि दोषात्कृपयाऽनुधत्ते।। ११३.१६ ।।
 
तत्र ते विबुधाः सर्वे स्थिता ये ब्रह्मणोऽन्तिके।
तुष्टुवुर्विबुधेशानं कर्म दृष्ट्वाऽतिदैवतम्।। ११३.१७ ।।
 
ततः प्रभृति तत्तीर्थं ब्रह्मतीर्थमिति श्रुतम्।
अद्यापि ब्रह्मणो रूपं चतुर्मुखमवस्थितम्।। ११३.१८ ।।
 
शिरोमात्रं तु यः पश्येत्स गच्छेद्ब्रह्मणः श्रुतम्।
यत्र स्थित्वा स्वयं रुद्रो लूनवान्ब्रह्मणः शिरः।। ११३.१९ ।।
 
रुद्रतीर्थं तदेव स्यात्तत्र साक्षाद्दिवाकरः।
देवानां च स्वरूपेण स्थितो यस्मात्तदुत्तमम्।। ११३.२० ।।
 
सौर्य तीर्थं तदाख्यातं सर्वक्रतुफलप्रदम्।
तत्र स्नात्वा रविं दृष्ट्वा पुनर्जन्म न विद्यते।। ११३.२१ ।।
 
महादेवेन यच्छिन्नं ब्रह्मणः पञ्चमं शिरः।
क्षेत्रेऽपिमुक्ते संस्थाप्य देवातानां हितं कृतम्।। ११३.२२ ।।
 
ब्रह्मतीर्थे शिरोमात्रं यो दृष्ट्वा गौतमी तटे।
क्षेत्रेऽविमुक्ते तस्यैव स्थापितं योऽनुपश्यति।।
कपालं ब्रह्मणः ब्रह्महा पूततां व्रजेत्।। ११३.२३ ।।
 
 
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये ब्रह्मतीर्थब्रह्मशिरोलिङ्गशिवतीर्थसूर्यतीर्थादिषडशीतितीर्थवर्णनं नाम त्रयोदशाधिकशततमोऽध्यायः।। ११३ ।।
 
गौतमीमाहात्म्ये चतुश्चत्वारिंशत्तमोऽध्यायः।। ४४ ।।
 
</poem>
५,४११

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/26029" इत्यस्माद् पुनः प्राप्तिः