"आश्वलायन श्रौतसूत्रम्/अध्यायः ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
 
 
स्पृष्ट्वोदकं प्रवर्ग्येण चरिष्यत्सूत्तरेण खरं परिव्रज्य पश्चादस्योपविश्य प्रेषितोऽभिष्टुयादृगावानं १ ऋचमृचमनवानमुक्त्वा प्रणुत्यावस्येत् २ ब्रह्म-जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आ वः । सबुÞयासबुध्न्या उप मा अस्य विष्ठाः सतश्च योनिमसतश्च विवः । इयं पित्रे राष्ट्र्येत्यग्रे प्रथमाय जनुषे भूम-नेष्ठाः । तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्ति प्रथमस्य धासेः । महान्मही अस्तभायद्विजातो द्यां पिता सद्म पार्थिवञ्च रजः । सबुध्नादाष्ट जनुषाऽभ्युग्नं बृहस्पतिर्देवता तस्य सम्राट् । अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभिप्रियं मतिङ्कविम् । ऊर्ध्वा यस्या मतिर्भा अदिद्युतत् सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वस्तृपा स्वरिति वा । संसीदस्व महाँ असीति संसाद्यमाने । अञ्जन्ति यं प्रथयन्तो न विप्रा इत्यज्यमाने । पतङ्गमक्तमसुरस्य मायया यो नः स नुत्यो अभिदासदग्ने भवा नो अग्ने सुमना उपेताविति द्वृचाः । कृणुष्व पाजः प्रसितिं न पृथ्वीमिति पञ्च परि त्वा गिर्वणो गिरोऽधि द्वयोरदधा उक्थं वचः शुक्रन्ते अन्यद्यजतन्ते अन्यदपश्यङ्गोपामनिपद्यमानं स्रक्के द्रप्सस्यायं वेनश्चोदयत् पृश्निगर्भाः पवित्रन्ते विततं ब्रह्मणस्पत इति द्वे वियत् पवित्रं धिषणा अतन्वत घर्मं शोचन्त प्रणवेषु बिभ्रतः । समुद्रे अन्तरायवो विचक्षणन्त्रिरह्नो नाम सूर्यस्य मन्वत । गणानां त्वा, प्रथश्च यस्याऽपश्यं त्वेत्येतस्याद्यया यजमानमीक्षते द्वितीयया पत्नीं तृतीययाऽऽत्मानं, का राधद्भोऽत्राश्विना वामिति नव, आ भात्यग्निर्ग्रावाणेवेडे द्यावापृथिवी इति प्रागुत्तमाया अरूरुचदुषसः पृश्निरग्रिय इत्यावपेतोत्तरेणार्धचेन पत्नीमीक्षेतोत्तमाया परिहिते समुत्थाप्यैनानध्वर्यवो वाचयन्तीति नु पूर्वं पटलं ३ ६ 4.6</span></poem>
 
[[File:धवित्र होमम् Dhavitra Homam.ogg|thumb|धवित्र होमम् Dhavitra Homam]]