"ऋग्वेदः सूक्तं १०.१७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६९:
आऽसद्य । अस्मिन् । बर्हिषि । मादयस्व । अनमीवाः । इषः । आ । धेहि । अस्मे इति ॥८
 
हे "सरस्वति हे "देवि “या त्वं “सरथं पितृभिः सह समानेन रथेन युक्तं यथा भवति तथा “ययाथ। अस्मदीयं यज्ञं प्राप्तासि । किं कुर्वती। "पितृभिः सह "स्वधाभिः हविर्लक्षणैरन्नैः "मदन्ती माद्यन्ती यज्ञं गच्छसीति संबन्धः । स त्वं "बर्हिषि "अस्मिन् वेदिस्तरणे यज्ञे “आसद्य उपविश्य “मादयस्व हविर्भिस्तृप्ता भव । आत्मानं तर्पय वा । ततस्तृप्ता सती त्वम् "अनमीवाः । अमीवा रोगः । तद्वर्जितान्यारोग्यजननानि "इषः अन्नानि "अस्मे अस्मभ्यम् "आ "धेहि पयाप्तंपर्याप्तं प्रयच्छ ॥ ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७" इत्यस्माद् प्रतिप्राप्तम्