"ऋग्वेदः सूक्तं १.१३८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४७:
विश्वस्य । यः । मनः । आऽयुयुवे । मखः । देवः । आऽयुयुवे । मखः ॥१
 
“तुविजातस्य बहुयजमानार्थमुत्पन्नस्य “अस्य “पूष्णः पोषकस्य एतन्नामकस्य देवस्य “तवसः “महित्वं बलस्य महत्त्वं “प्रप्र “शस्यते प्रस्तूयते सर्वैः ॥ वीप्सा पादपूरणे॥ “न “तन्दते न हिनस्ति कश्चित्तदपि । किंच “अस्य पूष्णः “स्तोत्र“स्तोत्रं “न “तन्दते न हिनस्ति न विरमति । सर्वोऽपि जनः एनं स्तौतीत्यर्थः । जगत्पोषकत्वादिति भावः । अतः कारणात् “अहं अहमपि यजमानः “सुम्नयन् सुखमिच्छन् “अर्चामि स्तौमि । कीदृशं तम् । “अन्त्यूतिम् आसन्नरक्षणम् ॥ ‘ कादिलोपो बहुलम्' इति कलोपः ॥ स्तुत्यनन्तरमेव वरप्रदमित्यर्थः । “मयोभुवं सुखस्योत्पादकं भावयितारं वा । “यः पूषा “मखः यज्ञवान् ॥ मत्वर्थों लुप्यते ॥ “विश्वस्य सर्वस्य स्तोतुर्ऋत्विजः “मनः “आयुयुवे समन्तात् मिश्रयति । शीघ्रवरप्रदानात् इति भावः। किंच “देवः दीप्यमानः एषः “मखः मखं यज्ञम् “आयुयुवे संपूर्तिपर्यन्तं मिश्रयति । यद्वा । विश्वस्य मनोमिश्रणे यजमाने किमायातमिति चेत् उच्यते । मखो यज्ञनिर्वाहकोऽयं पूषा देवो यजमानस्य मनः आयुयुवे समन्तात् मिश्रयति । सामर्थ्यात् यजमानस्य मन इति लभ्यते ॥ यौतेश्छान्दसो लिट्॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३८" इत्यस्माद् प्रतिप्राप्तम्