"ऋग्वेदः सूक्तं १.१३८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
अस्माकम् । आङ्गूषान् । द्युम्निनः । कृधि । वाजेषु । द्युम्निनः । कृधि ॥२
 
हे “पूषन् "अजिरं यज्ञदेशं प्रति गमनवन्तं “त्वा त्वां “यामनि गमने निमित्तभूते सति “स्तोमेभिः स्तोमैः “प्र “कृण्वे प्रकृष्टं करोमि। तत्र दृष्टान्तः । यामनि शीघ्रगमनेऽजिरं न शीघ्रगामिनमश्वमिव । स यथा प्रस्तूयते तद्वत् । किंच “यथा “मृधः संग्रामानुद्दिश्य “ऋणवः गच्छेः तथा प्र कृण्वे । यद्वा । यथा ऋणवः अस्मद्यज्ञं प्रति गच्छेः ॥ ‘ ऋणु गतौ'। तानादिकः। लेटि अडागमः ॥ तथा त्वां कृण्वे । किंच "मृधः हिंसकान् योद्धॄन् संग्रामे "पीपरः पारं नयसि ॥ पारयतेर्लुङि चडि रूपम् ॥ तत्र दृष्टान्तः । "उष्ट्रो “न । उष्ट्रो यथा भारं वोढा पारयति तद्वत् "मृधः संग्रामात् पीपरः पारं नयसि । अतः कारणात् “त्वा त्वां मयोभुवं सुखस्य भावयितारं “देवं देवनशीलं पूषणं “मर्त्यः मरणधर्मा मनुष्योऽहं “हुवे आह्वयामि । किमर्थम् । “सख्याय समानख्यानाय प्रियकरणाय । एवमाहूतः सन् “अस्माकमाङ्गूषान् आघोषान् स्तोमान् । आङ्गूषः स्तोम आघोषः' इति यास्कः ([https://sa.wikisource.org/s/6zk ५.११]) । “द्युम्निनस्कृधि द्योतनवतः कुरु । यद्वा । स्तोमान् यशोवतोऽन्नवतो वा कृधि अस्मत्स्तुत्या प्रीतस्त्वम् एवं कुर्वित्यर्थः । किंच “वाजेषु संग्रामेषु “द्युम्निनः अन्नवतः “कृधि अस्मद्वैरिणो जित्वा तेषामन्नं मयि कुर्वित्यर्थः ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३८" इत्यस्माद् प्रतिप्राप्तम्