"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२८:
 
[[ऋग्वेदः सूक्तं १०.१३०|प्रउगशब्दोपरि संदर्भाः]]
 
ऋग्वेदे प्रउगशस्त्रे विनियोजनीयाः एकाधिकाः सूक्ताः सन्ति। सूक्तं १.२ गायत्रीछन्दस्कः अस्ति, [[ऋग्वेदः सूक्तं ७.९२|७.९२]] त्रिष्टुप्छन्दस्कः, [[ऋग्वेदः सूक्तं ४.४६|४.४६]] गायत्रीछन्दस्कः, [[ऋग्वेदः सूक्तं ४.४७|४.४७]] अनुष्टुप्छन्दस्कः, [[ऋग्वेदः सूक्तं २.४१|२.४१]] गायत्रीछन्दस्कः, [[ऋग्वेदः सूक्तं ५.५१|५.५१]] उष्णिक्छन्दस्कः। शतपथब्राह्मणे [[शतपथब्राह्मणम्/काण्डम् ४/अध्यायः १/ब्राह्मण ३|४.१.३]] - ४.१.५ प्रउगशस्त्रे प्रयोजनीयानां ग्रहाणां ये आख्याानाः सन्ति , ते रोचकाः।
 
द्र. [http://puranastudy.byethost14.com/pur_index26/vaayu1.htm वायुरुपरि टिप्पणी]
 
प्रउगशस्त्रतृच- (हौ०) सोमयज्ञेषु प्रकृतिभूत- ज्योति-तद्विकृतिषु चैकाहाहीनसत्रेषु विशेषवर्जं प्रातःसवने होतुः प्रउगशस्त्रस्य 'वायवा याहि दर्शतं (ऋ० १ । २ । १- ३) इति वायव्यः प्रथमस्तृचः । 'इन्द्रवायू इमे सुताः' (ऋ० १ । २ ।४६ । इति ऐन्द्रवायवो द्वितीयस्तृचः । 'मित्रं हुवे पूतदक्षम् (ऋ० १ । २ ।६-८ इति मैत्रावरुणस्तृतीयस्तृचः । ' आश्विना यज्वरीरिषः' (ऋ० १ । ३ । १-३) इति आश्विनश्चतुर्थस्तृचः । 'इन्द्राऽऽयाहि चित्रभानो' (ऋ० १ । ३ ।४- ६) इति ऐन्द्रः पञ्चमस्तृचः । ' ओमासश्चर्षणीधृतः' ऋ० १ । ३।७-९) इति वैश्वदेवः षष्ठस्तृचः । 'पावका नः सरस्वती' (ऋ० १ । ३ । १०- १२) इति सारस्वतः सप्तमस्तृचः । इति तत्तद्देवत्याः सप्ततृचा भवन्ति । तृचानां पुरस्तात् यथासंख्येन शोंसावोम्' इत्याहावहिताः 'वायुरग्रेगाः' इत्याद्याः सप्त पुरोरुचः (ऋ०खि० ५ ।६ । १ -७) पठितव्याः । शंसनप्रकारः-द्र० अग्निष्टोमे होतुः प्रउगशस्त्र-, का० श्रौ० १ । ३ ।८ टि० विद्याधरः । श्रौतयज्ञप्रक्रिया - पदार्थानुक्रमकोषः। प्रणेता पण्डित पीताम्बरदत्त शास्त्री
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२" इत्यस्माद् प्रतिप्राप्तम्