"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२२" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
च कोऽयं महाराजेन प्रसाध्यमानशिखण्डकः तिष्ठतीति सन्दिहाना विभाव्य सत्यवतीसहितो मे पुत्रक आयुरिति परिज्ञाय सशक्षाऽभवत् । राजा च कुमाराय तज्जननीं दर्शयति । तापसी कुमारमाहूयोर्वशीमुपसर्पति । उर्वशी पादाभिवन्दनं करोति । सर्वे यथोचिताभिवादनस्वागतानन्तरं यथास्थानमुपविष्टाः । तापसी च उर्वश्यै कुमारं यच्छति । उर्वशी च समुदाचारानुसारं तापसीं विसृजति । राजा च च्यवनायाभिवादनमर्पयितुमभ्यर्थयते । कुमारश्च बालभावसदृशं तापसीं
च कोऽयं महाराजेन प्रसाध्यमानशिखण्डकः तिष्ठतीति सन्दिहाना विभाव्य सत्यवतीसहितो मे पुत्रक आयुरिति परिज्ञाय सशङ्काऽभवत् । राजा च कुमाराय तज्जननीं दर्शयति । तापसी कुमारमाहूयोर्वशीमुपसर्पति । उर्वशी पादाभिवन्दनं करोति । सर्वे यथोचिताभिवादनस्वागतानन्तरं यथास्थानमुपविष्टाः । तापसी च उर्वश्यै कुमारं यच्छति । उर्वशी च समुदाचारानुसारं तापसीं विसृजति । राजा च च्यवनायाभिवादनमर्पयितुमभ्यर्थयते । कुमारश्च बालभावसदृशं तापसीं
जातकलापं शितिकण्ठं शिखिनं तदर्थे प्रेषयितुमभ्यर्थनां विदधाति । गतायां च तस्यां, राजा अद्याहं तवामुना पुत्रेण पुत्रिणामग्रसरः जयन्तेन पुरन्दर इव सम्पन्नः इति प्रियामभिनन्दयति । अत्रान्तरे उर्वशी महेन्द्राभिधानात् किमपि स्मृत्वा रोदिति । तां तादृशावस्थां विलोक्य विदूषकः राजानं दर्शयति । राजा च सावेगम् "अयि सुन्दरि । मदीयवंशस्थितेर्हेतोरधिगमात् अद्य प्रमोदहेतौ सत्यपि किमकारणं रोदिषी"ति प्रियां सादरं पृच्छति । उर्वशी च महेन्द्रसंकीर्तितं समयं स्मरन्ती “अहं पुरा महाराजनिहितहृदया गुरुशापसम्मूढा महेन्द्रेणावधीकृत्याभ्यनुज्ञाता यदा मम प्रियवयस्यस्त्वयि समुत्पन्नसुतस्य वदनं प्रेक्षते तदा त्वया प्रत्यागन्तव्यमिति, ततश्च महाराजवियोगभीरुतया मया संवृणीतः पुत्रकः" इति सर्व समाख्याय एतावान्मम महाराजेन सह संवास इति विज्ञापितवती ।