"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३४" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
मानुषीविलक्षणा साधारण्यपि प्रथमसन्दर्शनावसरे एव तस्मिन् शीलशालिनि विक्रमवति पार्थिवे सुतरां दृढं लग्नेति सहृदयधौरेयाणां मनांसि दुष्यन्तशकुन्तलयोः प्रथमप्रेमप्रसरापेक्षया भृशं सभाजयतीति निर्विवादम् । शाकुन्तले पूर्वरागसमये कविवरेण न किञ्चिदपीत्थं प्रतिपादितं येनैतादृशी प्रणयगम्भीरता नायकयोः प्रकाशिता स्याद्यथेह "दृढं लग्ना न मोचयितुं शक्या एकावलीति" सहाससहचरीवचनस्य "स्मर्तव्यं खल्विदं वचनमिति" हृदयभावोद्बोधकं उत्तरवाक्यं दृढप्रणयताशालित्वं व्यनक्ति । भुक्तदिव्योपभोगायाः कस्याश्चन साधारण्याः दिव्याङ्गनायाः
मानुषीविलक्षणा साधारण्यपि प्रथमसन्दर्शनावसरे एव तस्मिन् शीलशालिनि विक्रमवति पार्थिवे सुतरां दृढं लग्नेति सहृदयधौरेयाणां मनांसि दुष्यन्तशकुन्तलयोः प्रथमप्रेमप्रसरापेक्षया भृशं सभाजयतीति निर्विवादम् । शाकुन्तले पूर्वरागसमये कविवरेण न किञ्चिदपीत्थं प्रतिपादितं येनैतादृशी प्रणयगम्भीरता नायकयोः प्रकाशिता स्याद्यथेह "दृढं लग्ना न मोचयितुं शक्या एकावलीति" सहाससहचरीवचनस्य "स्मर्तव्यं खल्विदं वचनमिति" हृदयभावोद्बोधकं उत्तरवाक्यं दृढप्रणयताशालित्वं व्यनक्ति । भुक्तदिव्योपभोगायाः कस्याश्चन साधारण्याः दिव्याङ्गनायाः
मानवपदं भजमाने राजनि गूढप्रणयप्रसरस्यावश्यमेवाधिकतया मनोहारित्वमनुभववीथीं सचेतसामवतरति । अत्र च प्रथमपरिचय एव राज्ञो महेन्द्रसदृशानुभाववत्त्वं उर्वश्यां परमासक्तिं गमयति । पुनश्च राज्ञः उर्वशीप्रतिगमनानन्तरं या तान्तदशा सा शकुन्तलासुकुमारकुमारीभावापहारकस्य दुष्यन्तस्य स्वकृतकर्मविस्मरणपरायणस्यापेक्षया निगूढप्रणयवत्तरत्वं व्यञ्जयन्ती रसझरास्वादनं प्रभूतमुपस्करोति। पुनश्च गृहीतनेपथ्यायाः नायिकायाः पुरूरवोविषयकं प्रेम महेन्द्रसभायामपि विस्मृतात्मदेशकालाद्यवस्थाबोधकं प्रकाशयन्त्याः लब्धशापायाः सहृदयहारिणा नायकेन सह तस्याः समागमकारकं शापमभिनिवेशयन् महाकविः दुष्यन्तशकुन्तलयोः विप्रयोगकारिणः शापस्य संघटनापेक्षयाधिकमेव काव्यकलाकुशलत्वं स्वीयं गमयति । “विप्रयोगं विना न रतिः पुष्टिमश्नुते" इति राद्धान्तमनुरुध्य कवीशेनेह तुरीयाऽङ्के करुणभावतरं भृशं सिञ्चता, नायकस्यानवरतम् नायिकागतानवच्छिन्नस्मृतिसन्ततिप्ररोहण तं पल्लवयता, तदीयगवेषणपरायणस्य राज्ञः प्रतिपदस्खलनचारुरूपैः चेतनाचेतनाविवेकनिबन्धनैर्गिरिमयूरसारसादिभ्यः प्रेयसीसन्दर्शनप्रार्थनैरुन्मेष्य तमेव भावतरुं कुसुमितं विदधताऽनुपममेघनगानां स्वभाववर्णनसन्दानितं भगवता सोमेनोद्भावितसङ्गमनीयमणियोगेन तयोः झगिति संयोगं कारयता प्रमातॄणां अमन्दानन्दाभिनन्दनरूपया फलसम्पदा स एव योजितः। चरमाङ्के च नारदमुनिसमागमतनयावाप्तियावज्जीवप्रेयसीसंयोगलाभाद्यभिमतं सर्व समवायेनैव सङ्गमय्य खल्परूपेणापि त्रोटकेन तथा सामाजिकान् कविः सभाजयति यथा कदापि महागरिममताऽपि काव्यप्रबन्धेनासुलभं जायत इति कविभूषामणेरनुपमलेखनी सौहार्दहृद्या कवितासुमनस्ततिरियं तन्वीव सुकुमारा केषां सुमनसां चेतांसि न द्रावयतीति कविताकमलिनीसमुपभोगभाग्यभाजो मधुरससङ्गभृङ्गा एवात्र प्रमाणम् ॥
मानवपदं भजमाने राजनि गूढप्रणयप्रसरस्यावश्यमेवाधिकतया मनोहारित्वमनुभववीथीं सचेतसामवतरति । अत्र च प्रथमपरिचय एव राज्ञो महेन्द्रसदृशानुभाववत्त्वं उर्वश्यां परमासक्तिं गमयति । पुनश्च राज्ञः उर्वशीप्रतिगमनानन्तरं या तान्तदशा सा शकुन्तलासुकुमारकुमारीभावापहारकस्य दुष्यन्तस्य स्वकृतकर्मविस्मरणपरायणस्यापेक्षया निगूढप्रणयवत्तरत्वं व्यञ्जयन्ती रसझरास्वादनं प्रभूतमुपस्करोति। पुनश्च गृहीतनेपथ्यायाः नायिकायाः पुरूरवोविषयकं प्रेम महेन्द्रसभायामपि विस्मृतात्मदेशकालाद्यवस्थाबोधकं प्रकाशयन्त्याः लब्धशापायाः सहृदयहारिणा नायकेन सह तस्याः समागमकारकं शापमभिनिवेशयन् महाकविः दुष्यन्तशकुन्तलयोः विप्रयोगकारिणः शापस्य संघटनापेक्षयाधिकमेव काव्यकलाकुशलत्वं स्वीयं गमयति । “विप्रयोगं विना न रतिः पुष्टिमश्नुते" इति राद्धान्तमनुरुध्य कवीशेनेह तुरीयाऽङ्के करुणभावतरं भृशं सिञ्चता, नायकस्यानवरतम् नायिकागतानवच्छिन्नस्मृतिसन्ततिप्ररोहण तं पल्लवयता, तदीयगवेषणपरायणस्य राज्ञः प्रतिपदस्खलनचारुरूपैः चेतनाचेतनाविवेकनिबन्धनैर्गिरिमयूरसारसादिभ्यः प्रेयसीसन्दर्शनप्रार्थनैरुन्मेष्य तमेव भावतरुं कुसुमितं विदधताऽनुपममेघनगानां स्वभाववर्णनसन्दानितं भगवता सोमेनोद्भावितसङ्गमनीयमणियोगेन तयोः झगिति संयोगं कारयता प्रमातॄणां अमन्दानन्दाभिनन्दनरूपया फलसम्पदा स एव योजितः। चरमाङ्के च नारदमुनिसमागमतनयावाप्तियावज्जीवप्रेयसीसंयोगलाभाद्यभिमतं सर्वं समवायेनैव सङ्गमय्य खल्परूपेणापि त्रोटकेन तथा सामाजिकान् कविः सभाजयति यथा कदापि महागरिममताऽपि काव्यप्रबन्धेनासुलभं जायत इति कविभूषामणेरनुपमलेखनी सौहार्दहृद्या कवितासुमनस्ततिरियं तन्वीव सुकुमारा केषां सुमनसां चेतांसि न द्रावयतीति कविताकमलिनीसमुपभोगभाग्यभाजो मधुरससङ्गभृङ्गा एवात्र प्रमाणम् ॥
{{rule|5em}}
{{rule|5em}}
{{center|<big>'''नाटकीयवस्तूद्गमः।'''</big>}}
{{center|<big>'''नाटकीयवस्तूद्गमः।'''</big>}}
{{gap}}तत्रभवान् नरपतिचक्रचूडामणिः प्रतिष्ठानाधीशः पुरूरवा मनुना सार्धमादौ ऋग्वेदे भगवतः अग्नेः मित्रत्वेन सुकृतनाम्ना समाख्यातः । तस्य देवाङ्गनायामुर्वश्यां प्रणयः, पुनः सम्मेलनाय चाभ्यर्थनम् वर्णितम् । (ऋक्-१०-९५) तत्रैव पश्चनवतितमेऽष्टादशे सूक्ते देवास्तमिलायाः पुत्र इति सम्बोध्य स्वर्ग लोकेऽनन्तसुखावाप्तये, तया चाप्सरसा समागमाय यज्ञैर्भावयितुं प्रेरयामासुः । शतपथब्राह्मणेऽपि अयमेवार्थः प्रतिपादितः।
{{gap}}तत्रभवान् नरपतिचक्रचूडामणिः प्रतिष्ठानाधीशः पुरूरवा मनुना सार्धमादौ ऋग्वेदे भगवतः अग्नेः मित्रत्वेन सुकृतनाम्ना समाख्यातः । तस्य देवाङ्गनायामुर्वश्यां प्रणयः, पुनः सम्मेलनाय चाभ्यर्थनम् वर्णितम् । (ऋक्-१०-९५) तत्रैव पञ्चनवतितमेऽष्टादशे सूक्ते देवास्तमिलायाः पुत्र इति सम्बोध्य स्वर्ग लोकेऽनन्तसुखावाप्तये, तया चाप्सरसा समागमाय यज्ञैर्भावयितुं प्रेरयामासुः । शतपथब्राह्मणेऽपि अयमेवार्थः प्रतिपादितः।