"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३७" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
कुमारं सन्निवार्य स्वयमपृच्छत्तां ताराम् । कथय वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाह सोमस्येति। ततः प्रस्फुरदुच्छ्वसितामलकपोलकान्तिः भगवानुडुपतिः कुमारमालिंग्य साधु साधु वत्स प्राज्ञोऽसीति बुध इति तस्य च नाम चक्रे । तदाख्यातमेवैतत् स च यथेलायामात्मजं पुरूरवसं उत्पादयामास । पुरूरवास्त्वतिदानशीलोऽतियज्वातितेजस्वी यं सत्यवादिनमतिरूपस्विनं मनस्विनं मित्रावरुणशापान्मानुषे लोके मयावस्तव्यमिति कृतमतिरुवर्शी ददर्श । दृष्टमात्रे च तस्मिन्नपहाय मानमशेषं अपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेवोपतस्थे। सोऽपि च तामतिशयितसकललोकस्त्रीकान्तिसौकुमार्यलावण्यगतिविलाससाहसादिगुणामवलोक्य

तदायत्तचित्तवृत्तिर्बभूव । उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनमभूत् । राजा तु प्रागल्भ्यातामाह । सुभ्रु त्वामहमभिकामोऽस्मि
तदायत्तचित्तवृत्तिर्बभूव । उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनमभूत् । राजा तु प्रागल्भ्यातामाह । सुभ्रु त्वामहमभिकामोऽस्मि
प्रसीदाऽनुरागमुद्वहेत्युक्ता लज्जावखण्डितमुर्वशी तं प्राह । भवत्वेवं यदि मे समयपरिपालनं भवान् करोतोल्याख्याते पुनरपि तामाह । आख्याहि मे समयमिति । अथ पृष्टा पुनरप्यब्रवीत् । शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम् । भवांश्च मया न नग्नो दृष्टव्यः। घृतमात्रं च ममाहार इति । एवमेवेति भूपतिरप्याह । तया सह स चावनिपतिरलकायां
प्रसीदाऽनुरागमुद्वहेत्युक्ता लज्जावखण्डितमुर्वशी तं प्राह । भवत्वेवं यदि मे समयपरिपालनं भवान् करोतोत्याख्याते पुनरपि तामाह । आख्याहि मे समयमिति । अथ पृष्टा पुनरप्यब्रवीत् । शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम् । भवांश्च मया न नग्नो दृष्टव्यः। घृतमात्रं च ममाहार इति । एवमेवेति भूपतिरप्याह । तया सह स चावनिपतिरलकायां
चैत्ररथादिवनेष्वमलपद्मखण्डेषु मानसादिसरस्वतिरमणीयेषु रममाण एकषष्टिवर्षाण्यनुदिनप्रवर्धमानप्रमोदोऽनयत् । उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्धमानानुरागा अमरलोकवासेऽपि न स्पृहां चकार । विना चोर्वश्या सुरलोकोऽप्सरसां सिद्धगन्धर्वाणां च नातिरमणीयोऽभवत् । ततश्चोर्वशीपुरूरवसोस्समयविद्विश्वावसुर्गन्धर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार । तस्याकाशे नीयमानस्य उर्वशी शब्दमशृणोत् । एवमुवाच च ममानाथायाः पुत्रः केनापह्रियते कं शरणमुपयामीति । तदाकर्ण्य राजा मां नग्नं देवी वीक्ष्यतीति न ययौ। अथान्यमप्युरणकमादाय गन्धर्वा ययुः। तस्यापह्रियमाणस्याकर्ण्य शब्दमाकाशे पुनरप्यनाथास्म्यहमभर्तृका कापुरुषाश्रयेत्यार्तराविणी बभूव । राजाप्यमर्षवशादंधकारमेतदिति खड्गमादाय दुष्ट दुष्ट हतोऽसीति व्याहरन्नभ्यधावत् । तावच्च गन्धर्वैरप्यतीवोज्वला विद्युजनिता । तत्प्रभया चोर्वशी राजानमपगताम्बरं दृष्ट्वा प्रवृत्तसमया तत्क्षणादेवापक्रान्ता । परित्यज्य तावप्युरणकौ
चैत्ररथादिवनेष्वमलपद्मखण्डेषु मानसादिसरस्वतिरमणीयेषु रममाण एकषष्टिवर्षाण्यनुदिनप्रवर्धमानप्रमोदोऽनयत् । उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्धमानानुरागा अमरलोकवासेऽपि न स्पृहां चकार । विना चोर्वश्या सुरलोकोऽप्सरसां सिद्धगन्धर्वाणां च नातिरमणीयोऽभवत् । ततश्चोर्वशीपुरूरवसोस्समयविद्विश्वावसुर्गन्धर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार । तस्याकाशे नीयमानस्य उर्वशी शब्दमशृणोत् । एवमुवाच च ममानाथायाः पुत्रः केनापह्रियते कं शरणमुपयामीति । तदाकर्ण्य राजा मां नग्नं देवी वीक्ष्यतीति न ययौ। अथान्यमप्युरणकमादाय गन्धर्वा ययुः। तस्यापह्रियमाणस्याकर्ण्य शब्दमाकाशे पुनरप्यनाथास्म्यहमभर्तृका कापुरुषाश्रयेत्यार्तराविणी बभूव । राजाप्यमर्षवशादंधकारमेतदिति खड्गमादाय दुष्ट दुष्ट हतोऽसीति व्याहरन्नभ्यधावत् । तावच्च गन्धर्वैरप्यतीवोज्वला विद्युज्जनिता । तत्प्रभया चोर्वशी राजानमपगताम्बरं दृष्ट्वा प्रवृत्तसमया तत्क्षणादेवापक्रान्ता । परित्यज्य तावप्युरणकौ
गन्धर्वाः सुरलोकमुपगताः। राजा चापि तौ मेषावादायातिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श । तां चापश्यन् व्यपगतांबर एवोन्मत्तरूपो बभ्राम । कुरुक्षेत्रे चाम्भोजसरस्यन्याभिश्चतसृभिरप्सरोभिस्समवेतामुर्वशीं ददर्श । ततश्चोन्मत्तरूपो जाये ! हे तिष्ठ मनसि घोरे तिष्ठ, वचसि कपटिके तिष्ठेत्येवमनेकप्रकारं सूक्तमवोचत् । आह चोर्वशी । महाराजालमनेनाविवेकचेष्टितेन । अन्तर्वन्यहमब्दान्ते भवतात्रागन्तव्यं कुमारस्ते भविष्यति एकां च निशामहं त्वया सह वत्स्यामीत्युक्तः प्रहृष्टः स्वपुरं जगाम । तासां चाप्सरसामुर्वशी कथयामास । अयं स पुरुषोत्कृष्टो येनाहमेतावन्तं कालमनुरागाकृष्टमानसा सहोषितेति । एवमुक्तास्ताश्चाप्सरस ऊचुः । साधु साध्वस्य रूपमप्यनेन सहास्माकं अपि सर्वकालमास्या भवेदिति । अब्दे च पूर्णे स राजा तत्राजगाम । कुमारं चायुषमस्मै उर्वशी ददौ । दत्त्वा चैकां निशां तेन