"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
मा प्र गाम ' इति षडृचं पञ्चदशं सूक्तं गायत्रं वैश्वदेवम् । ऐक्ष्वाकोऽसमातिर्नाम राजा । तस्य बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्चेति चत्वारः पुरोहिता आसन् । ते च गौपायनाः । स च राजा तांस्त्यक्त्वान्यौ मायाविनावृषी पुरोहितत्वेनावृणीत । ततो बन्ध्वादयः क्रुद्धाः सन्त इमं राजानमभिचरितवन्तः । एतज्ज्ञात्वा मायाविनौ पुरोहितावेषामन्यतमं सुबन्धुं प्राणैर्वियोजितवन्तौ । मृतस्यास्य भ्रातरो बन्धुः श्रुतबन्धुर्विप्रबन्धुरित्येतेऽविनाशप्राप्तिहेतुभूतमिदं दृष्ट्वा जपन्ति स्म । अतस्तेऽस्य सूक्तस्यर्षयः । प्रतिपाद्यत्वादावर्तमानं मनो देवता । तथा चानुक्रान्तम् - अथ हैक्ष्वाको राजासमातिर्गौपायनान्बन्ध्वादीन्पुरोहितांस्त्यक्त्वान्यौ मायाविनौ श्रेष्ठतमौ मत्वा पुरोदधे । तमितरे क्रुद्धा अभिचेरुः । अथ तौ मायाविनौ सुबन्धोः प्राणानाचिक्षिपतुरथ हास्य भ्रातरस्त्रयः । म प्र गामेति षट्कं गायत्रं स्वस्त्ययनं जप्त्वा ' इति । अग्निसमीपाद्देशान्तरगमनसमय इदं सूक्तं जप्यम् । सूत्रितं च -- ‘ प्रव्रजेदनपेक्षमाणो मा प्र गामेति सूक्तं जपन्' (आश्व. श्रौ.. [https://sa.wikisource.org/s/1aux २..४]) इति । महापितृयज्ञेऽप्येतदृत्विग्भिर्जप्यम् । सूत्रितं च -- ‘ मा प्र गामाग्ने त्वं न इति जपन्तः' (आश्व. श्रौ. [https://sa.wikisource.org/s/1aux २.१९.३६]) इति । निविदः स्थानातिपत्ताविदं सूक्तं शस्त्वा सूक्तान्तरे निवित्प्रक्षेप्तव्या । सूत्रितं च -- ‘ स्थानं चेन्निविदोऽतिहरेन्मा प्र गामेति पुरस्तात्सूक्तं शस्त्वा ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1bcn.६.१८] ) इति ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५७" इत्यस्माद् प्रतिप्राप्तम्