"ऋग्वेदः सूक्तं ७.१०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५२:
ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु ।
याञ्चा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वृचि ।।बृहद्देवता १.४९ ।।
 
 
७.१०४.२२ उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम् । सु॒प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥
 
ऋचि उलूक, शुशुलूकादियातूनां हननकृत्यस्य तुलना इन्द्रेण दृषदस्य हननेनसह कृतमस्ति। इन्द्रः दृषदस्य हननं केन प्रकारेण कर्तुं शक्यते, अस्मिन् संदर्भे अथर्ववेदे मन्त्रमस्ति - इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी । तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव ॥१॥ - शौ.अ. [https://sa.wikisource.org/s/1wfe २.३१.१] । इन्द्रः केनापि प्रकारेण दृषदस्य मह्नं कर्तुं समर्थः भवति। ऋ. [https://sa.wikisource.org/s/13kv ८.७२.४] मध्ये कथनं अस्ति - दृषदं जिह्वयावधीत् ॥ यदा जिह्वा बन्धनतः मुक्ता भूत्वा कपालकुहरे प्रविष्टुं समर्था भवति, तदा दिव्यरसानां आस्वादनकर्तुं शक्ता भवति। तदा हनूरूपा या दृषदस्ति, तस्याः हननं भवति, इति कथितुं शक्यन्ते। द्र. [http://puranastudy.freevar.com/pur_index14/drishat.htm दृषदोपरि टिप्पणी]
 
ये उलूक, शुशुलूकादि यातूनि सन्ति, एका व्याख्या एवंप्रकारेण कर्तुं शक्यन्ते यत् एतानि कटुवाक्यानि सन्ति ये उरसि विक्षोभं उत्पद्यन्ते। तेषां चिकित्सा केन प्रकारेण भवेत्। मृतकस्य उरसि दृषदस्य स्थापनस्य निर्देशमस्ति। द्र. [https://sites.google.com/site/puranicsubjectindex/upavaasa-ura/%E0%A4%89%E0%A4%B0-ura उर उपरि टिप्पणी]
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१०४" इत्यस्माद् प्रतिप्राप्तम्