"ऋग्वेदः सूक्तं १.६०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०२:
“गोतमासः गोतमगोत्रोत्पन्नाः “वयम् । नोधसः स्तोतुरेकत्वेऽप्यात्मनि पूजार्थं बहुवचनम् । हे “अग्ने “रयीणां धनानां “पतिं रक्षितारं तादृशं “त्वा त्वां “मतिभिः मननीयैः स्तोत्रैः “प्र “शंसामः प्रकर्षेण स्तुमः । किं कुर्वन्तः । “वाजंभरं वाजस्य हविर्लक्षणान्नस्य भर्तारं त्वां “मर्जयन्तः मार्जयन्तः। तत्र दृष्टान्तः । “आशुं “न अश्वमिव । यथाश्वमारोहन्तः पुरुषास्तस्य वहनप्रदेशं हस्तैर्निमृजन्ति तद्वत् वयमपि अग्नेर्हविर्वहनप्रदेशं निमृजन्तः इत्यर्थः। तथा च अग्निसंमार्जनप्रकरणे वाजसनेयिभिराम्नातम्-- ‘अथ मध्ये तूष्णीमेव त्रिः संमार्ष्टि यथा युक्त्वा प्रेहि वहेति व्रजेदेवमेतदग्निं युक्त्त्वोपक्षिपति प्रेहि देवेभ्यो हव्यं वह' इति । “धियावसुः कर्मणा बुद्ध्या वा प्राप्तधनः सोऽग्निः “प्रातः श्वोभूतस्य अह्नः प्रातःकाले “मक्षु शीघ्रं जगम्यात् आगच्छतु ॥ मतिभिः । ‘मन ज्ञाने' इत्यस्मात् कर्मणि क्तिन् । ‘मन्त्रे वृषेष ' इत्यादिना तस्योदात्तत्वम् । वाजंभरम् । अग्नेरेषा वैदिकी संज्ञा । ‘संज्ञायां भृतॄवृजि° ' ( पा. सू. ३. २. ४६ ) इति वाजशब्दे कर्मण्युपपदे खच्प्रत्ययः । ‘अरुर्द्विषदजन्तस्य मुम्' (पा. सू. ६. ३. ६७ ) इति मुमागमः । ‘चितः' इत्यन्तोदात्तत्वम् । मर्जयन्तः। संज्ञापूर्वकस्य विधेरनित्यत्वात् “ मृजेर्वृद्धिः ' ( पा. सू. ७. २. ११४ ) इति वृद्ध्यभावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । जगम्यात् । लिङि ‘बहुलं छन्दसि' इति शपः श्लुः ॥ ॥२६॥
}}
 
== ==
{{टिप्पणी|
१.६०.३ तं नव्यसी हृद आ जायमानमस्मत्सुकीर्तिर्मधुजिह्वमश्याः ।
 
वायुपुराणे [[वायुपुराणम्/उत्तरार्धम्/अध्यायः ४२|२.४२.८२]] जिह्वाग्रे शाक्तपीठस्य एवं हृदये वैष्णवपीठस्य उल्लेखमस्ति।
 
[https://vedastudy.wixsite.com/puranastudy/%E0%A4%9C-%E0%A4%B9-%E0%A4%B5-jihvaa जिह्वा उपरि टिप्पणी]
}}
 
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६०" इत्यस्माद् प्रतिप्राप्तम्