"कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३२:
संपश्यामि प्रजा अहमिति ॥ १८ ॥ मनुष्यानुपतिष्ठतेऽम्भस्याम्भो वो भक्षीयेति पशून्रेवती रमध्वमित्यन्तराऽग्नी तिष्ठञ्जपति सꣳहिताऽसि विश्वरूपीरिति गामालभते वत्सं वोप त्वाऽग्ने दिवे दिव इति षड्भिर्गायत्रीभिर्द्विपदाभिर्गार्हपत्यमुपतिष्ठत ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गोष्ठं भुवनमसि सहस्रपोषं पुषिसहस्रपोषस्येशिषे तस्यास्ते भूयिष्ठभाजो भूयास्मेति पुनरेव गामालभते वत्सं वा महित्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य । नहि तेषाममाचन नाध्वसु वारणेषु। ईशे रिपुरघशꣳसः। ते ह पुत्रासो अदितेः शर्म यच्छन्त्वजस्रम् । प्रदाशुषे वार्याणीति माहित्रेण तृचेनोपतिष्ठते तत्सवितुर्वरेण्यमिति सावित्र्या सोमानꣳ स्वरणमित्येषा सोमानꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः। योरेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः। मा नः शꣳसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य । रक्षा णो ब्रह्मणस्पत इति ब्राह्मणस्पत्याभिरुपतिष्ठते कदाचन स्तरीरसि कदाचन प्रयुच्छसीति द्वे परि त्वाऽग्ने पुरं वयमित्येषा परि ते दूढभो रथोऽस्माꣳ अश्नोतु विश्वतः । येन रक्षसि दाशुष इति पर्यावर्त्यान्तत उपतिष्ठते ।
दूढभवतीमुत्तमामेके समामनन्ति निमृदोऽसि न्यहं तं मृधासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पुरस्तात्प्रपदेनावगृह्णीयाद्यदि श्रेयसा स्पर्धेत प्रभूरसि प्राहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणतः पदोऽवगृह्णीयाद्यदि सदृशेन स्पर्धेताभिभूरस्यभ्यहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पश्चात्पार्ष्ण्यावगृह्णीयाद्यदि पापीयसा स्पर्धेत ॥ १ꣳ ॥ पूषा मा पशुपाः पातु पूषा मा पथिपाः पातु पूषा माऽधिपाः पातु पूषा माऽधिपतिः पात्विति जपित्वा प्राची दिगग्निर्देवता यो मैतस्यै दिशोभिदासादग्निꣳ स ऋच्छत्वग्निर्मे तस्यै दिशो गोपायतु दक्षिणा दिगिन्द्रो देवता यो मैतस्यै दिशोभिदासादिन्द्रꣳ स ऋच्छत्विन्द्रो मे तस्यै दिशो गोपायतु प्रतीची दिङ्मरुतो देवता यो मैतस्यै दिशो भिदासान्मरुतः स ऋच्छतु मरुतो मे तस्यै दिशो गोपायन्तु उदीची दिङ्मित्रावरुणौ देवता यो मैतस्यै दिशो भिदासान्मित्रावरुणौ स ऋच्छतु मित्रावरुणौ मे तस्यै दिशो गोपायेताम् । ऊर्ध्वा दिग्बृहस्पतिर्देवता यो मैतस्यै दिशो भिदासाद्बृहस्पतिꣳ स ऋच्छतु बृहस्पतिर्मे तस्यै दिशो गोपायतु । इयं दिगदितिर्देवता यो मैतस्यै दिशो भिदासाददितिꣳ स ऋच्छत्वदितिर्मे तस्यै दिशो गोपाय
त्विति दिश उपस्थाय धर्मो मा धर्मिणः पातु विधर्मो मा विधर्मिणः पात्वायुश्च प्रायुश्च चक्षुश्च विचक्षुश्च प्राणश्चापानश्च प्राञ्चावाञ्चोरुग उरुगोऽर्कस्य ते वयं वाचा संभक्तेन गमेम ह्यच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा छित्सि मामायुषा ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी तिष्ठञ्जपत्यग्न आयुꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात्तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रो बहुपुत्रा सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति सायꣳ सायमुपतिष्ठते॥२०॥
अपि वा दिवैतत् ।
भूर्भुवः सुवः सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः
सुवर्चा वर्चसा सुपोषः पोषैरिति वा काममैन्द्रो वित्तादिति
वा श्रद्धा मे मा व्यगादिति वा भर्तुं वः शकेयमिति वा ।
तत्सर्वं कृताकृतम् ।
प्रातरवनेकेन प्रातरुपस्थेयः।
तत्राधिश्रित उन्नीयमाने वा।
विहव्यस्याऽऽदितश्चतसृभिरुपस्थाय ।
अपां पत इति त्रीनुदकाञ्जलीन्निनयति प्रतिषिक्ता अरातय इति त्रिः परिषिञ्चति कालाय वां जैत्रियाय वामिति पाणी प्रक्षालयत इदमहं दुरद्मन्यां नि:प्लावयामीत्यप आचम्य निष्ठीवति भ्रातृव्याणाꣳ सपत्नानामिति पुनरेव पाणी प्रक्षालयत इन्द्रियवतीमद्याहं वाचमुद्यासमिति यथारूपं प्राणायतनानि संमृज्योत्तरेणानुवाकेनोपतिष्ठते तत्रार्वाग्वसोः स्वस्ति ते पारमशीयेति त्रिरावर्तयत्यसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सर्वेषां पुत्राणां नामानि गृह्णाति त्रिरेकैकस्य पुरस्तादग्नीषोमीया-
द्विहव्यस्योत्तराभिश्चतसृभिरुपस्थायानुवाकशेषेणोपतिष्ठते ।
तस्मात्पुरा प्रातरग्निहोत्रे नोपावरोहेदित्येकेषाम् ।
अग्नेस्तृणान्यपचिनोति तेजस्वी ब्रह्मवर्चसी भवतीति विज्ञायते ॥ २१ ॥
इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने षष्ठः पटलः॥६॥
.
6.7 अथ षष्ठप्रश्ने सप्तमः पटलः ।
ऋते गृहस्य प्रवासं व्याख्यास्यामः।
अग्नीन्समाधेहीति संप्रेष्यति प्रवत्स्यन्भास्वत उपतिष्ठते मम नाम प्रथमं जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्य पाहि तान्मे गोपायास्माकं पुनरागमादित्याहवनीयमुपस्थायाभिप्राण्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादिति गार्हपत्यमुपस्थायाभिप्राण्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादिति दक्षिणाग्निमुपस्थायाभिप्राण्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहान्गोपायतं युवम् । अविनष्टानविहृतान्पुषैनानभिरक्षत्वस्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुर्नो अरातयः । उदस्माꣳ उत्तरान्नयाग्ने घृतेनाऽऽहुत । रायस्पोषेण सꣳसृज प्रजया च बहून्कृधीति प्रक्रामति सकाशेऽग्नीनां वाचं यच्छत्यसकाशे विसृजते व्रतकालेषु व्रतं चरति ।
ऋतुं प्रत्युपतिष्ठते ।
यद्यनुपस्थिताग्निरापद्यते प्रवासः ।
इहैव सं तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इत्युपतिष्ठते ।
प्रोष्य ।
समिधो धारयन्विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येत्य सकाशेऽग्नीनां वाचं यच्छति सकाशे विसृजतेऽग्नीन्समाधेहीति संप्रेष्यति ॥ २२ ॥ ज्वलत उपतिष्ठते नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वा सं मा रय्या सꣳसृजेत्युपसमिन्धेऽग्नेः समिदस्यभिशस्त्या मा पाहीत्येतैस्त्रिभिस्तिस्रः समिध आदध्यादिन्धानास्त्वा शतꣳ हिमा इति चतुर्थी मनो ज्योतिर्जुषतामित्यध्वर्युराहुतिं जुहोति यदि दशमीमतिप्रवसति मम नाम तव च जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्याजुगुपस्तान्मे पुनर्देहीत्याहवनीयमुपस्थायाभ्यपान्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्याजुगुपस्तां मे पुनर्देहीति गार्हपत्यमुपस्थायाभ्यपान्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्याजुगुपस्तन्मे पुनर्देहीति दक्षिणाग्निमुपस्थायाभ्यपान्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहानजुगुपतं युवम् । अविनष्टानविहृतान्पूषैनानभ्यपराक्षीदास्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति गोपायाजुगुप इति सर्वत्रानुषजति गोपायेति वा ।
अथैकेषां विज्ञायते कः श्रेयाꣳसं विषुप्तं बोधयिष्यतीत्यप्रादुष्कृतानामेवोपस्थानꣳ स्यादभयंकराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीति प्रवत्स्यन्नभयंकराभयं मेऽकार्षीः स्वस्ति मेऽस्तु प्रावात्स्यमिति प्रोष्य ॥ २३ ॥ गृहा मा विभीत मा वेपीढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः । येषामभ्येति प्रवसन्येषु सौमनसो बभुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु नः । उपहूता भूरिसखाः सखायः स्वादु संमुदः। अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा । ऊर्जस्वन्तः पयस्वन्त इरावन्तो ह सामुदः । अनश्या अतृष्या गृहा मास्मद्बिभीतनेति गृहानभ्येति क्षेमाय वः शान्त्यै प्रपद्ये शिवꣳ शग्मꣳ शंयोः शंयोरिति प्रविशति न तदहरागतः कलहं करोति गृहानहꣳ सुमनसः प्रपद्ये वीरघ्नो वीरतमः सुशेवान् । इरां वहन्तः सुमनस्यमानास्तेष्वहꣳ सुमनाः संविशामीति संविशति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इति भार्याꣳ समीक्षते ॥ २४ ॥
इति सत्याषाढहिरण्यकोशिसूत्रे षष्ठप्रश्ने सप्तमः पटलः ॥७॥
 
6.8 अथ षष्ठप्रश्नेऽष्टमः पटलः ।
आग्रयणेष्टौ वत्सं प्रथमजं ददाति नानातन्त्रे श्यामाके बभ्रुं पिङ्गलं मधुपर्कं मधुमन्थं दधिमन्थं क्षीरौदनस्य वा पात्रं क्षौमं वासो वर्षाधृतं भद्रान्नः श्रेयः समनैष्ट देवा इति व्रीहीणां प्राश्नात्यग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामाकानामेतमु त्यं मधुना संयुतं यवꣳ सरस्वत्या अधिमनाऽवचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतु: कीनाशा आसन्मरुतः सुदानव इति यवानाम् ।
यथाविकारं पशावेकादश प्रयाजाननुमन्त्रयते ।
चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनेतरान् ।
स्वर्विदसि स्वर्वित्त्वा स्वरिहि स्वर्मह्यं स्वः पशुभ्यो लोकविदसि लोकं वित्त्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यो गातुविदसि गातुं वित्त्वा गातुमिहि गातुं मह्यं गातुं पशुभ्यो नाथविदसि नाथं वित्त्वा नाथमिहि नाथं मह्यं नाथं पशुभ्यो न वा उवेतन्म्रियस आशानां त्वा विश्वा आशा इति पशौ संज्ञप्यमाने जपति हुतायां वपायां परं ददाति तिस्रो वा दक्षिणा नयेत् ।
यथाविकारं पशावेकादशानूयाजाननुमन्त्रयते त्रीꣳस्त्रीनेकैकेन प्रथमेन दशममुत्तमेनोत्तमम् ।
शृङ्गाणीवेच्छृङ्गिणाꣳ संददृश्रिरे चषालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवाꣳसो नमः सखिभ्यः सन्नान्माऽवगातेति ॥ २५ ॥ हुतꣳ स्वरुमुपतिष्ठत आशासानः सुवीर्यमिति संꣳस्थिते यूपम् । चातुर्मास्येष्वनड्वाहमनडुहो वा हिरण्यं वैश्वानरे ददाति धेनुं पार्जन्ये यथाविकारं नव प्रयाजाननुमन्त्रयते चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनोत्तमं वत्सं प्रथमजं वैश्वदेवे ददाति यथाविकारं नवानूयाजाननुमन्त्रयते त्रीꣳस्त्रीनेकैकेन ।
तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति सर्वत्र केशेषूप्यमानेषु जपति चतुरो मासान्नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सेतानृतात्प्राङ्शेते न मध्वश्नाति नाञ्जीत नाभ्यञ्जीतर्तौ जायामुपेयात्सर्वेषां चातुर्मास्यानामेतान्यन्तरालव्रतानि भवन्ति धेनुं वरुणप्रघासेषु ददात्यृषभं प्रवयसꣳ साकमेधेषु यस्य रवते जुहोति तमेव पौर्णादर्व्येऽश्वꣳ श्वेतमादित्ये गां वा श्वेतꣳ षड्गवं द्वादशगवं वा सीरमुष्टारौ वोष्टारं वाऽन्यतरꣳ शुनासीरीयेऽश्वꣳ श्वेतꣳ सौर्ये गां वा श्वेतं तदभावेऽगौः श्वेतः स्याच्छ्वेतः स्यात् ॥ २६ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्नेऽष्टमः पटलः ॥८॥
इति हिरण्यकेशिसूत्रे षष्ठः प्रश्नः॥६॥
 
</span></poem>