"पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: १०६ अथर्वसंहिताभाष्ये अपारुधन । प्रेतशरीरम् अ... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१२:२४, १० सेप्टेम्बर् २०२० इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ अथर्वसंहिताभाष्ये अपारुधन । प्रेतशरीरम् अपागमयन्तु इत्यर्थः । रुधिर् आवरणे। इरितो वा” इति लेः अङ् आदेशः । तं प्रेतदेहम इतः अ- स्माद् ग्रोभान । परिः पञ्चम्यानुवादी । यहा परिहरणार्थः । हे बा- न्धवाः तं मृतदेहं परिहत्य निर्वहत ग्रामाद् निर्गमयत । कुत इत्यत आह । मृत्युः मारकः पुरुषो यमस्य राज्ञो दूतः कर्मकर आसीत् अ- भवत् । प्रचेताः प्रकृष्टज्ञानः सः म्रियमाणस्य पुरुषस्य असून प्राणान पितृभ्यः पितॄन अनुप्रवेशयितुम् । "क्रियार्थोपपदस्य [च] कर्मणि स्थानिनः" इति चतुर्थी । गमयां चकार मापयामास । मेय॑न्तात् ॥ 'कारमत्ययाद् " इति आम प्रत्ययः । कृओऽनुप्रयोगश्च ॥ अष्टमी॥ ये दस्पवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादृश्चरन्ति । परापुरौ निपुरो ये भरन्न्यग्निष्टानस्मान म धमाति यज्ञात् ॥ २४ ॥ ये। दस्यवः । पितृएं । प्रविष्टाः । ज्ञातिऽमुखाः । अहुतऽअदः । चरन्ति । पराऽपुरः । निऽपुरः । ये। भरन्ति । अग्निः । तान् । अस्मात् ।प्राधमाति। यज्ञात ॥२८॥ ये. दस्यवः उपक्षयकारिणो राक्षसा ज्ञातिमुखाः ज्ञातीनां मुखमिव मुखं येषां ते तथोक्ताः । ज्ञातिप्रतिरूपा इत्यर्थः । अत एव पितृषु पितृपि- तामहमपितामहेषु मध्ये प्रविष्ठाः अहुतादः अहुतं लौकिकम् अन्नम् अ- दन्ति भक्षयन्तीति अहुतादः । यहा अहुतावस्थमेव हविर्मायया अदन्तीति अहुनादः । चरन्ति पितृषु मध्ये वर्तन्ते । परापुरः परायणन्ति पिण्डान ददतीति परापुरः पिण्डदातारः पुत्राः । [निपुरः] निपृणन्ति नियमेन पि- ण्डदानादिकं कुर्वन्तीति निपुरः पौत्राः । पृ पालनपूरणयोः । इ- त्यस्माद् उभयत्र कर्तरि किम् । “उदोष्ठ्यपूर्वस्य” इति उत्तमः । ये [च] राक्षसाः पिण्डोदकदानादिना पालयितन पुत्रपौत्रादीन भरनित ह- CRra:. We with ABKV De. २ CR शातिमुना अहुता' (without any accent on atragar). We with BŘV Dc Cr. 18 निर्वहेत. 28 om. °°.