"पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: १०८ नि- 1 अथर्वसंहिताभाष्ये द्वितीया। ज्योक् चि... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१२:२६, १० सेप्टेम्बर् २०२० इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ नि- 1 अथर्वसंहिताभाष्ये द्वितीया। ज्योक् चिरकालं जीवन्तः पितृप्रसादाजीवितारो भवेम ॥ दशमी ॥ यो ते धेनुं निपृणामि यमु ते क्षीर औदनम् । तेना जनस्वासो भर्ता योत्रांसदजीवनः ॥ ३० ॥ () याम । ते। धेनुम् । निऽपृणामि । यम् । ऊ इति । ते । हीरे । ओदनम् । तेन । जनस्य । असः । भर्ता । यः । अत्र । असत् । अजीवनः ॥३०॥ हे मेत ते तुभ्यं यां धेनुम दोग्धीं गां निपृणामि प्रयच्छामि । पूर्वः पृणातिः पित्र्ये दाने वर्तते । वाम उहिश्य गां दशवान अस्मीत्यर्थः । तथा क्षीरे पयसि पक्कं यम उ यं च ओदनं ते तुभ्यं नि- पृणामि तेन धेनुसहितेन ओदनेन जनस्य जनिमतो लोकस्य भर्ना धा- रयिता पोषयिता वा असः भवेः डुभृञ् धारणपोषणयोः। यो जनः अत्र अस्मिन लोके अजीवनः जीवनरहितः असत् भवेत् । तस्य जनस्पति संबन्धः । यहा अस्मिन् लोके जीवनरहितः असत् । पुरुषव्य- त्ययः । स वम् इति संबन्धः । अस इति । अस्तेलेंटि अंडा- गमः। इतश्च लोपः परस्मैपदेषु" इति इकारलोपः ॥ इति द्वितीयेनुवाके तृतीयं सूक्तम् ॥ पितृमधे "अश्वावतीम" [३१] इत्युचा शवदाहानन्तरं स्नानं कृषा नदी तरतोऽनुमन्त्रयेत । पिण्डपितृयज्ञे “ये निखाताः" [३४] इति द्वाभ्यां वे समिधावादध्यात् । “शं तप" [३६] इत्युचा तशरीरे पुत्रेण दशम अग्निं पुत्रो गोत्रिणो वा दीपयेयुः । “ददामि" [३७] इत्यनया का- म्पीलशाखया दहनस्थानं संप्रोक्षेत् । “इमां मात्रां मिमीमहे"[३९] इत्यादिभिः सप्तभिः श्मशानदेशं प्रतिदिशं मिमीते । दिष्टिवितस्यादिभिः Å E. We with A BR V Dc. २ CP ओदने । 23 नदीतरोनु for नदी तरतोनु° which is conjectural. Kausika has: अश्वावतीमिति नदी तारयते। Kesava: अश्वावतीत्यूचा नदीतरतामनुमंत्रयते ।. 33 " 18 आडागमः. मिमीत.