"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ६२:
सोमो वा अकामयत । ओषधीनाꣳ राज्यमभिजयेयमिति । स एतꣳ सोमाय मृगशीर्षाय श्यामाकं चरुं पयसि निरवपत् । ततो वै स ओषधीनाꣳ राज्यमभ्यजयत् । समानानाꣳ ह वै राज्यमभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सोमाय स्वाहा मृगशीर्षाय स्वाहा । इन्वकाभ्यः स्वाहौषधीभ्यः स्वाहा । राज्याय स्वाहाभिजित्यै स्वाहेति ३
 
रुद्रो वा अकामयत । पशुमान्त्स्यामिति । स एतꣳ रुद्रा याद्रा र्यै!रुद्रायार्द्रायै प्रैयंगवं चरुं पयसि निरवपत् । ततो वै स पशुमानभवत् । पशुमान्ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । रुद्रा य स्वाहाद्रा र्यै! स्वाहा । पिन्वमानायै स्वाहा पशुभ्यः स्वाहेति ४
 
ऋक्षा वा इयमलोमकासीत् । साकामयत । ओषधीभिर्वनस्पतिभिः प्रजायेयेति । सैतमदित्यै पुनर्वसुभ्यां चरुं निरवपत् । ततो वा इयमोषधीभिर्वनस्पतिभिः प्राजायत । प्रजायते ह वै प्रजया पशुभिः । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति अदित्यै स्वाहा पुनर्वसुभ्याम्स्वाहाभूत्यै स्वाहा प्रजात्यै स्वाहेति ५