"महाभारतम्-13-अनुशासनपर्व-255" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ११:
भीष्मेण युधिष्ठिरंप्रति एकादशरुद्रद्वादशादित्यादीनां वसिष्ठादिमहर्षीणां राजर्ष्यादीनां च पृथक्पृथङ्गामनिर्देशपूर्वकं तत्तन्नामकीर्तनादेः सावित्रीजपादेश्च महाफलहेतुत्वाभिधानम्।। 1 ।।
<poem><span style="font-size: 14pt; line-height:
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
किं जप्यं जपतो नित्यं भवेद्धर्मफलं महत्।।
प्रस्थाने वा प्रवेशे वा प्रवृत्ते वाऽपि कर्मणि।
दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम्।।
शान्तिकं पौष्टिकं रक्षा शत्रुघ्नं भयनाशनम्।
जप्यं यद्ब्रह्म समितं तद्भवान्वक्तुमर्हति।।
▲भीष्म उवाच।
व्यासप्रोक्तमिमं मन्त्रं शृणुष्वैकमना नृप।
सावित्र्या विहितं दिव्यं सद्यः पावविमोचनम्।।
शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयाऽनघ।
यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते।।
रात्रावहनि धर्मज्ञ जपन्पापैर्न लिप्यते।
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप।।
आयुष्मान्भवते चैव यं श्रुत्वा पार्थिवात्मज।
पुरुषस्तु सुसिद्धार्थः प्रेत्य चेह च मोदते।।
सेवितं सततं राजन्पुरा राजर्षिसत्तमैः।
क्षत्रधर्मपैरर्नित्यं सत्यव्रतपरायणैः।।
इदमाह्निकमव्यग्रं कुर्वद्भिर्नियतैः सदा।
नृपैर्भरतशार्दूल प्राप्यते श्रीरनुत्तमा।।
नमो वसिष्ठाय महाव्रताय
पराशरं वेदनिधइं नमस्ते।
नमोस्त्वनन्ताय महोरगाय
नमोस्तु सिद्धेभ्य इहाक्षयेभ्यः।।
नमोस्त्वृषिभ्यः परमं परेषां
देवेषु देवं वरदं वराणाम्।
सहस्रशीर्षाय नमः शिवाय
सहस्रनामाय जनार्दनाय।।
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः।
ऋतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः।।
वृषाकपिश्च शंभुश्च हवनोऽथेश्वरस्तथा।
एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः।।
▲शतमेतत्समाम्नातं शतरुद्रे महात्मनाम्।। 14a
अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः।
तथा धाताऽर्यमा चैव जयन्तो भास्करस्तथा।।
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते।
इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः।।
धरो ध्रुवश्च सोमश्च सावित्रोऽथानिलोऽनलः।
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः।।
नासत्यश्चापि दस्रश्च स्मृतौ द्वावश्विनावपि।
मार्तण्डस्यात्मजावेतौ संज्ञानासाविनिर्गतौ।।
अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः।
अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च।।
▲अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः।
▲शुभाशुभानि कर्माणि मृत्युः कालश्च सर्वशः।। 20a
विश्वेदेवाः पितृगणा मूर्तिमन्तस्तपोधनाः।
मुनयश्चैव सिद्धाश्च तपोमोक्षपरायणाः।
शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम्।।
प्रजापतिकृतानेतान्लोकान्दिव्येन तेजसा।
वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु।।
प्राणानामीश्वरानेतान्कीर्तयन्प्रयतो नरः।
धर्मार्थकामैर्विपुलैर्युज्यते सह नित्यशः।।
लोकांश्च लभते पुण्यान्विश्वेश्वरकृताञ्शुभान्।
एते देवास्त्रयस्त्रिंशत्सर्वभूतगणेश्वराः।।
नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः।
ईश्वराः सर्वलोकानां गणेश्वरविनायकाः।।
सौम्या रौद्रा गणाश्चैव योगभूतगणास्तथा।
ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः।।
पृथिव्यां तपसा सिद्धाः स्थावराश्च चरास्च ह।
हिमवान्गिरयः सर्वे चत्वारश्च महार्णवाः।।
भवस्यानुचराश्चैव हरतुल्यपराक्रमाः।
विष्णुर्देवोथ जिष्णुश्च स्कन्दश्चाम्बिकया सह।।
कीर्तयन्प्रयतः सर्वान्सर्वपापैः प्रमुच्यते।
अत ऊर्ध्वं प्रवक्ष्यामि मानवानृषिसत्तमान्।।
यवक्रीतश्च रैभ्यश्च अर्वावसुपरावसू।
औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः सुतः।।
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा।
ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः।।
लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः।
भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः।।
महेन्द्रगुरवः सप्त प्राचीं वै दिशमाश्रिताः।
प्रयतः कीर्तयेदेताञ्शक्रलोके महीयते।।
उन्मुचुः प्रमुचुश्चैव स्वस्त्यात्रेयश्च वीर्यवान्।
दृढव्यश्चोर्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा।।
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान्।
धर्मराजर्त्विजः सप्त दक्षिणां दिशमाश्रिताः।।
दृढेयुश्च ऋतेयुश्च परिव्याधश्च कीर्तिमान्।
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः।।
अत्रेः पुत्रश्च धर्मात्मा ऋषिः सारस्वतस्तथा।
वरुणस्यर्त्विजः सप्त पश्चिमां दिशमाश्रिताः।।
अत्रिर्वसिष्ठो भगवान्कश्यपश्च महानृषिः।
गौतमश्च भरद्वाजो विश्वामित्रोथ कौशिकः।।
ऋचीकतनयश्चोग्रो जमदग्निः प्रतापवान्।
धनेश्वरस्य गुरवः सप्तैते उत्तराश्रिताः।।
अपरे मुनयः सप्त दिक्षु सर्वास्वधिष्ठिताः।
कीर्तिस्वस्तिकरा नॄणां कीर्तिता लोकभावनाः।।
धर्मः कामश्च कालश्च वसुर्वासुकिरेव च।
अनन्तः कपिलश्चैव सप्तैते धरणीधराः।।
रामो व्यासस्तथा द्रौणिरश्वत्थामा च लोमशः।
इत्येते मुनयो दिव्या एकैकः सप्तसप्तधा।।
शान्तिस्वस्तिकरा लोके दिशांपालाः प्रतीर्तिताः।
यस्यांयस्यां दिशि ह्येते तन्मुखः शरणं व्रजेत्।।
स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः।
संवर्तो मेरुसावर्णो मार्कण्डेयश्च धार्मिकः।।
साङ्ख्ययोगौ नारदश्च दुर्वासाश्च महानृषिः।
अत्यन्ततपसो दान्तास्त्रिषु लोकेषु विश्रुताः।।
अपरे रुद्रसङ्काशाः कीर्तिता ब्रह्मलौकिकाः।
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम्।।
तथा धर्मार्थकामेषु सिद्धिं च लभते नरः।
पृथुं वैन्यं नृपवरं पृथ्वी यस्याभवत्सुता।।
प्रजापतिं सार्वभौमं कीर्तयेद्वसुधाधिपम्।
आदित्यवंशप्रभवं महेन्द्रसमविक्रमम्।।
पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम्।
बुधस्य दयितं पुत्रं कीर्तयेद्वसुधाधिपम्।।
त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत्।
गवामयेन यज्ञेन येनेष्टं वै कृते युगे।।
रन्तिदेवं महादेवं कीर्तयेत्परमद्युतिम्।
विश्वजित्तपसोपेतं लक्षण्यं लोकपूजितम्।।
तथा श्वेतं च राजर्षिं कीर्तयेत्परमुद्यतिम्।
सगरस्यात्मजा येन प्लावितास्तारितास्तथा।।
हुताशनसमानेतान्महारूपान्महौजसः।
उग्रकायान्महासत्वान्कीर्तयेत्कीर्तिवर्धनान्।।
देवानृषिगणांश्चैव नृपांश्च जगतीश्वरान्।
साङ्ख्यं योगं च परमं हव्यं कव्यं तथैव च।।
कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम्।
मङ्गल्यं सर्वभूतानां पवित्रं बहु कीर्तितम्।।
व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम्।
प्रयतः कीर्तयेच्चैतान्कल्यं सायं च भारत।।
एते वै यान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च।
एते विनायकाः श्रेष्ठा दक्षाः क्षान्ता जितेन्द्रियाः।।
नराणामशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः।
साक्षिभूता महात्मानः पापस्य सुकृतस्य च।।
एतान्वै कल्यमुत्थाय कीर्तयञ्शुभमश्नुते।
नाग्निचोरभयं तस्य न मार्गप्रतिरोधनम्।।
एतान्कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम्।
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत्।।
दीक्षाकालेषु सर्वेषु यः पठेन्नियतो द्विजः।
न्यायवानात्मनिरतः क्षान्तो दान्तोऽनसूयकः।।
रोगार्तो व्याधियुक्तो वा पठन्पापात्प्रमुच्यते।
वास्तुमध्ये तु पठतः कुले स्वस्त्ययनं भवेत्।।
क्षेत्रमध्ये तु पठतः सर्वं सस्यं प्ररोहति।
गच्छतः क्षेममध्वानं ग्रामान्तरगतः पठन्।।
आत्मनश्च सुतानां च दाराणां च धनस्य च।
बीजानामोषधीनां च रक्षामेतां प्रयोजयेत्।।
एतान्सङ्ग्रामकाले तु पठतः क्षत्रियस्य तु।
व्रजन्ति रिपवो नाशं क्षेमं च परिवर्तते।।
एतान्दैवे च पित्र्ये च पठतः पुरुषस्य हि।
भुञ्जते पितरः कव्यं हव्यं च त्रिदिवौकसः।।
न व्याधिश्वापदभयं न द्विपान्न हि तस्करात्।
कश्मलं लघुतां याति पाप्मना च प्रमुच्यते।।
यानपात्रे च याने च प्रवासे राजवेश्मनि।
परां सिद्धिमवाप्नोति सावित्रीं ह्युत्तमां पठन्।।
न च राजभयं तेषां न पिशाचान्न राक्षसात्।
नाग्न्यम्बुपवनव्यालाद्भयं तस्योपजायते।।
चतुर्णामपि वर्णानामाश्रमस्य विशेषतः।
करोति सततं शान्तिं सावित्रीमुत्तमां पठन्।।
नाग्निर्दहति काष्ठानि सावित्री यत्र पठ्यते।
न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगाः।।
न तेषां विद्यते दुःखं गच्छन्ति परमां गतिम्।
ये शृण्वन्ति महद्ब्रह्म सावित्रीगुणकीर्तनम्।।
गवां मध्ये तु पठतो गावोऽस्य बहुवत्सलाः।
प्रस्थाने वा प्रवासे वा सर्वावस्थां गतः पठेत्।।
जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम्।
ऋषीणां परमं जप्यं गुह्यमेतन्नराधिप।।
याथातथ्येन सिद्धस्य इतिहासं पुरातनम्।
पराशरमतं दिव्यं शक्राय कथितं पुरा।।
तदेतत्ते समाख्यातं तथ्यं ब्रह्म सनातनम्।
हृदयं सर्वभूतानां श्रुतिरेषा सनातनी।।
सोमादित्यान्वयाः सर्वे राघवाः कुरवस्तथा।
पठन्ति शुचयो नित्यं सावित्रीं प्राणिनां गतिं।।
अभ्यासे नित्यं देवानां सप्तर्षीणां ध्रुवस्य च।
मोक्षणं सर्वकृच्छ्राणां मोचयत्यशुभात्सदा।।
वृद्धैः काश्यपगौतमप्रभृतिभिर्भृग्वङ्गिरोत्र्यादिभिः
शुक्रागस्त्यबृहस्पतिप्रभृतिभिर्ब्रह्मह्मर्षिभिः सेवितम्।
भारद्वाजमतं ऋचीकतनयैः प्राप्तं वसिष्ठात्पुनः
सावित्रीमधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवाः।।
यो गोशतं कनकशृङ्गमयं ददाति
विप्राय वेदविदुषे च बहुश्रुताय।
दिव्यां च भारतकथां कथयेच्च नित्यं
तुल्यं फलं भवति तस्य च तस्य चैव।।
धर्मो विवर्धति भृगोः परिकीर्तनेन
वीर्यं विवर्धति पसिष्ठनमोनतेन।
सङ्ग्रामजिद्भवति चैव रघुं नमस्य-
न्स्यादश्विनौ च परिकीर्तयतो न रोगः।।
एषा ते कथिता राजन्सावित्री ब्रह्मशाश्वती।
विवक्षुरसि यच्चान्यत्तत्ते वक्ष्यामि भारत।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः।। 255 ।।
</span></poem>
== ==
|