"लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १५८" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं वच्मि मनुं चतुर्दशम् ।
इन्द्रसावर्णिनामानं भौत्यं भूते सुतं शुभम् ।। १ ।।
बभूवाङ्गिरसः शिष्यो भूतिर्नाम्नाऽतिकोपनः ।
चण्डः शापप्रदश्चाल्पेप्यर्थे कठोरवाग् रुषा ।। २ ।।
एवंविधं तु तं ज्ञात्वा भीत्या तस्याऽऽश्रमान्तिके ।
केऽपि नैव प्रयान्त्येव देवा अपि तु बिभ्यति ।। ३ ।।
अत एव मातरिश्वा न ववावतिनिष्ठुरः ।
नातिपापं रविश्चक्रे पर्जन्यो नातिकर्दमम् ।। ४ ।।
नातिशीतं च शीतांशुर्वह्निर्नातीव दह्यति ।
अपि वृक्षास्ततो भीता वल्लयश्च तृणादयः ।। ५ ।।
अनृतावपि पुष्पादि फलादिस्मृद्धयोऽनिशम् ।
भवन्त्येव च वर्तन्ते ऋतवोऽपि तदाश्रमे ।। ६ ।।
जलानि सरितस्तस्याश्रमसमीपगानि वै ।
कमण्डलुगताश्चापि भवन्ति तद्भयाद् रमे ।। ७ ।।
एवंविधो हि भूतिः सोऽनपत्यः पुत्रकाम्यया ।
तपस्तेपे बहुकालं शीतवाताऽनलाहतः ।। ८ ।।
यताहारः कृशोऽभूच्चाऽनवाप्याऽपि यथेप्सितम् ।
न्यवर्तत तपसः सोऽभवन्मां परमेश्वरम् ।। ९ ।।
तमेकदाऽग्रजो भ्राता सुवर्चाख्यो निजे मखे ।
समाजुहाव तेनाऽसौ यियासुर्निजशिष्यकम् ।। 3.158.१ ०।।
शान्तिधर्माभिधं चाह गच्छामि चाग्रजाऽध्वरम् ।
प्रति जागरणं वह्नेस्त्वया कार्यं ममाश्रमे ।। ११ ।।
यथाग्निर्न शमं यायात्तथाश्रमं च भालय ।
इतिशिष्यं समाज्ञाप्य भ्रातुर्यज्ञं ययौ हि सः ।। १२।।
अथ शान्तिः समित्पुष्पफलाद्यर्थं वनं ययौ ।
आगत्य चाश्रमसेवां कुरुते मार्जनादिकम् ।। १३।।।
यावत्समित्प्रदानार्थं वह्निशालां ययौ हि सः ।
तावच्छान्तोऽनलस्तं तु दृष्ट्वा चिन्तापरोऽभवत् ।। १४।।
भूतेर्भयाच्चातिभीतः शुशोचाऽत्यन्तदुःखितः ।
किं करोमि मया किं च प्रतिपत्तव्यमत्र वै ।। १५।।
प्रशान्ताग्निमिमं धिष्ण्यं यदि पश्यति मे गुरुः ।
ततो मां विषमे तूर्णं व्यसने स नियोक्ष्यति ।। १६।।
यदन्यमग्निमत्राऽहमग्निस्थाने करोमि चेत् ।
गुरुः प्रत्यक्षदृग् ज्ञात्वा मां भस्म प्रकरिष्यति ।। १७।।
सोऽहं जातो गुरोस्तस्य निमित्तं कोपशापयोः ।
दृष्ट्वा प्रशान्तमनलं नूनं शप्स्यति मां गुरुः ।। १८।।
अथवा पावकः क्रुद्धोऽवश्यं धक्ष्यति मां तदा ।
अस्तु जातं तु तज्जातं नाऽजातं तद् भविष्यति ।। १९।।
उपायस्तत्र कर्तव्योऽपराधस्य प्रशान्तये ।
यस्याऽपराधस्तस्यैवाऽभ्यर्थना तु क्षमात्मिका ।।3.158.२०।।
कर्तव्याऽत्र मया सोऽयं धर्मोऽत्र प्रथमो मम ।
विचार्येत्थं स मतिमान् वह्रिस्तोत्रं जगौ तदा ।।२१ ।।
शरणं पावकं गत्वा त्वेकचित्तः स्तवं व्यधात् ।
'ओं नमोऽनन्तशक्त्युग्रशक्त्यात्मने हरेः प्रभोः ।।२२।।
ओं नमः सर्वलोकानां मखसाधनमूर्तये ।
एकद्विपञ्चधिष्ट्याय राजसूये षडात्मने ।।२३।।
प्रत्यक्षदेवरूपाय नमस्ते देववृत्तये ।
सर्ववर्ष्मवतां शुक्ररूपाय बलिने नमः ।।२४।।
त्वं मुखं सर्वदेवानामीश्वराणां हरेरपि ।
त्वं पाकः सर्वभूतानामन्नानां रसिनां तथा ।।।२५।।
हुतं हविर्भक्षयँस्त्वं मेघत्वाय करोषि वै ।
वृष्टिरूपं तु तद् भूत्वौषधिव्रातान् प्रपुष्यति ।।।२६।।।
तत्फलाद्यैर्भूतवासाः सुखं जीवन्ति जन्तवः ।
तत्समिद्भिर्जना यज्ञान् प्रकुर्वन्ति सुरा अपि ।।२७।।
दैत्याश्च राक्षसाश्चापि त्वदाधारा विभावसो ।
जरायूजाश्चाण्डजाश्च स्वेदजा भूमिजा अपि ।। २८।।
आप्यायन्ते त्वया सर्वे संवृध्यन्ते त्वयाऽनल ।
संरक्ष्यन्ते त्वया सर्वे तथा मां परिरक्षय ।।।२९।।
देवेषु तैजसत्वं वै कान्ति सिद्धेषु वै भवान् ।
विषं नागेषु चास्से त्वं वायुभागः पतत्रिषु ।।3.158.३०।।
मनुजेषु पशुपक्षिगणे क्रोधो भवानपि ।
अवष्टंभश्च तरुषु काठिन्यं त्वं क्षितावपि ।।३ १ ।।
जले द्रवो भवानेव जवो भवान् हि वायुषु ।
व्यापकस्त्वं नभस्येव सर्वंभूतान्तरस्थितः ।।३२।।
त्वमेकस्त्रिविधश्चाप्यष्टधा सहस्रधापि च ।
स्वाहास्वधादिभिर्भोक्ता हव्यकव्यस्य वै भवान् ।। ३३।।
हेतिष्वापि भवानेव धारासु संविराजते ।
जातवेदो नमस्तुभ्यं पिंगाक्ष ते नमोऽस्तु च ।।३४।।
हुताशन नमस्तेऽस्तु नमस्ते हव्यवाहन ।
पावकाऽद्य नमस्तेऽस्तु नमस्ते विश्वपावक ।।३५।।
पाककर्तर्नमस्तेऽस्तु पोष्टस्ते च नमो नमः ।
त्वं ज्योतिस्त्वं महादित्यो विभावसो नमोऽस्तु ते ।।३६।।
हिरण्यरेता वह्निस्त्वं सप्तजिह्व नमोऽस्तु ते ।
काली कराली च मनोजवा च लोहिता तथा ।। ३७।।
धूम्रा स्फुल्लंगिनी विश्वा सप्तजिह्वाः शुभास्तव ।
कालनिष्ठाकरी चाद्या द्वितीया प्रलयंकरी ।।३८।।
तृतीया लघिमाकार्या चतुर्थी कामकारिणी ।
पञ्चमी रोगदा षष्ठी सर्वपुद्गलकारिणी ।।३९।।
सप्तमी शर्मदा ज्वाला ताभ्यः पाहि महाभयात् ।
पिंगाक्ष लोहितग्रीव कृष्णवर्णं हुताशन ।।3.158.४० ।।
त्राहि मां भयतो वह्ने कृशानो हव्यवाहन ।
सामुद्रवाडवाख्यस्त्वं जाठरस्त्वं तु पाचनः ।।४१ ।।
वैश्वानरः सोमपस्त्वं हविर्भुक् पाहि मां भयात् ।
तवाऽर्चिभिः स्पृष्टमेतद् द्रव्यं शुचि प्रजायते ।।४२।।
भस्मना ते शुचि सर्वं मां शुचिं त्व विधापय ।
पिता पुत्र तथा मां त्वं रक्ष प्राप्तभयादिह ।।४३।।
प्रकाशं स्वयमायाहि भक्तस्यात्र कृतेऽनल ।
यथा मां न गुरुर्भूतिर्दहेच्छापेन रक्षय ।।४४।।
एवं स्तुतोऽनलस्तस्य शान्तेरग्रे सुमूर्तिमान् ।
प्रीतश्चागत्याह शान्तिं भयं मा ते गुरोर्मम ।।४५।।
तुष्टोऽस्मि तव भक्त्याऽहं स्तोत्रेणापि वरं वृणु ।
शान्तिः प्राह भयहीनो भवामि तव दर्शनात् ।।४६।।
गुरुर्भूतिः समागत्य त्वां पश्यतु धिष्ण्यगम् ।ऽ
अपुत्रस्य गुरोः पुत्रो विशिष्टश्च भवत्वपि ।।४७।।
इत्युक्तोऽनलदेवश्च प्राह प्रसन्नतान्वितः ।
गुर्वर्थं वरदानं ते नात्मार्थं च त्वयार्थितम् ।।४८।।
ततोऽधिकं प्रसन्नोऽस्मि तथाऽस्त्विति ददाम्यहम् ।
मन्वन्तराधिपः पुत्रो भौत्यो नाम गुरोस्तव ।।४९।।
चतुर्दशो महेन्द्रादिस्थाप्यः प्राज्ञो भविष्यति ।
गुरुः शान्तिप्रियश्चापि भविष्यति न संशयः ।।3.158.५० ।।
अहं कुण्डे भवाम्येव ज्वालायुक्तः समित्सु च ।
एतत्स्तोत्रेण मे स्तोता निष्पापो यज्ञपुण्यभाग् ।।५१ ।।
उपद्रवविहीनश्च भविष्यति न संशयः ।
इत्युक्त्वा भगवानग्निः कुण्डे तत्राऽवसद्धसन् ।।५२।।
अथाऽऽजगाम भूतिश्च सौहार्दपूरितोऽभवत् ।
पप्रच्छ शिष्यं हेतुं च सौहार्दस्य शमस्य च ।।५३।।
शान्तिः सर्वं च वृत्तान्तं यथावत् प्राह भूतये ।
प्रसन्नः स गुरुर्भूत्वा वेदान् शिष्याय वै ददौ ।।५४।।
भौत्यो नाम मनुः पुत्रो भूतेस्तत्राप्यजायत ।
शुचिरिन्द्रस्तथा देवा भौत्यं मनुं च जगृहुः ।।।५५।।
इन्द्रसावर्णिनामानं मन्वन्तरं च देवताः ।
पुपूजुः सर्वथा तत्र पुष्पाक्षतसुचन्दनैः ।।५६।।
एवं लक्ष्मि भविताऽयमिन्द्रसावर्णिनामकः ।
सायं ततो मनुः सोऽयं कथितस्ते चतुर्दशः ।।५७।।
मनून् श्रुत्वा शिवराज्ञीलक्ष्मि सन्ततिमुत्तमाम् ।
सर्वकामान् धनं ज्ञानं बुद्धिं भार्यां सुरूपिणीम् ।।५८।।
आरोग्यं च बलं पौत्रं पुत्रं माहात्म्यमुत्तमम् ।
शुभं मतिं जयं ज्ञातिश्रैष्ठ्यं च लभते बहु ।।५९।।
अरिनाशं सुराणां च प्रसन्नतां प्रविन्दति ।
पापेभ्यश्चापि सर्वेभ्यो मुच्यते श्रवणादपि ।।3.158.६०।।
श्रुतं धर्मं च सम्मानं स्वेष्टं लभते सम्पदः ।
गाः पृथिवीं नृपतित्वं प्रधानत्वं च विन्दति ।।६१।।
आयुष्यमुदयं चापि वैराग्यं लभते ततः ।
आध्यात्मिक्युन्नतिं स्वर्गं श्रीमत्त्वं लभते तथा ।।६२।
मनवस्तु मदंशास्ते मया निवासिता रमे ।
तत्पूजा मम पूजैव तत्कथा मत्कथा मता ।।६३।।
तत्र तेजो मया क्षिप्तं चक्रवर्तित्वदायकम् ।
आराधनेन मे ते वै भक्ता मे मनवोऽभवन् ।।६४।।
भविष्यन्त्यपरे चापि कल्पान्तरेषु तेऽपि च ।
बभूवुश्चापि ये तेऽपि मदंशा मनवो मताः ।।६५।।
मन्वाद्यतिथयः सर्वाव्रतात्मिकाः सुपुण्यदाः ।
पवित्रा दानकर्तॄणां स्वर्गदा भूपतित्वदाः ।।६६।।
इति लक्ष्मि मया प्रोक्तो मनूनामुद्भवस्तव ।
ब्रूहि किं श्रोतुमिच्छा ते वर्तते तद् वदामि हि ।।६७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने चतुर्दशस्य मनोराख्यानमितिनिरूपणनामा अष्टपञ्चाशदधिकशततमोऽध्यायः ।। १५८ ।।
 
</span></poem>
३५,९०६

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/274221" इत्यस्माद् प्रतिप्राप्तम्