"लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १५९" इत्यस्य संस्करणे भेदः

{{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीनारायणीश्रीरुवाच-
तृप्ताऽहं भवतो वाक्यामृतैः शाश्वतमोदिनी ।
विहर्तुं वै विमानेन यास्यामो यदि रोचसे ।। १ ।।
श्रीपुरुषोत्तम उवाच-
सर्वब्रह्मप्रियाश्चापि हरिप्रियास्तथाऽपराः ।
सज्जा भवन्तु वै सर्वा यास्यामो हिमवद्गिरिम् ।। २ ।।
इत्युक्तास्ताः समस्ता वै सज्जास्तूर्णं श्रिया सह ।
अभवन् कृतशृंगारा आरुरुहुर्विमानकम् ।। ३ ।।
अत्युत्साहयुता नार्यो कान्तेन हरिणा सह ।
आक्षरेण विमानेन ययुर्देशान् विलोकितुम् ।। ४ ।।
चतुष्टिलाद्रिं संवीक्ष्यानर्तदेशान् विलोक्य च ।
चमत्कारपुरं नारायणीश्रीगिरिमीक्ष्य च ।। ५ ।।
सुवर्णद्वीपमीक्ष्याऽपि समुद्रं प्रविलंघ्य च ।
नारायणसरो वीक्ष्य कच्छमुल्लंघ्य सिन्धुकीम् ।। ६ ।।
नदीं स्नात्वा पावयित्वा वीक्ष्य शिलवत्पर्वतम् ।
इन्दुकुशं प्रवीक्ष्यामि कारुकारं प्रवीक्ष्य च ।। ७ ।।
श्रीनगरं कश्यपारं वीक्ष्य हिमाद्रिमाययुः ।
सप्तसिन्धुपर्वताँश्च वीक्ष्य नन्दासतीं ययुः ।। ८ ।।
तया सम्पूजितः कृष्णः कृष्णा ब्रह्मप्रियादिकाः ।
प्राप्य पूजां तया दत्तां तामाश्लिष्य हृदम्बुजैः ।। ९ ।।
नन्दां देवीं पावयित्वा समैक्षन्त वनानि ताः ।
गंगां सुशोभितां चापि समैक्षन्त सुलम्बिताम् ।।3.159.१ ०।।
गन्धर्वाद्यैः समाकीर्णां नित्यं देवादिसेविताम् ।
सुरेभमदसंसिक्तां समन्ताद्धस्तिराजिताम् ।। १ १।।
तपस्विशरणोपेतां देवब्राह्मणसेविताम् ।
सितहंसावलिच्छन्नां काशचामरराजिताम् ।। ११ ।।
पुण्यां सुशीतलां हृद्यां मनसां प्रीतिवर्धिनीम् ।
क्षयवृद्धियुतां रम्यां द्विजसंघनिषेविताम् ।। १ ३।।
अमृतस्वादुसलिलां तापसैरुपशोभिताम् ।
स्वर्गारोहणनिःश्रेणीं सर्वकल्मषनाशिनीम् ।। १४।।
सुशीतशीघ्रपानीयां महर्षिगणसेविताम् ।
सर्वलोकस्य चौत्सुक्यकारिणीं चित्तहारिणीम् ।। १५।।
पुण्यदां सर्वलोकानां नाकमार्गप्रदायिनीम् ।
मेनासारससंघुष्टां जलजैरुपशोभिताम् ।। १६९।।
आवर्तनाभिगंभीरां द्वीपोरुजघनस्थलीम् ।
नीलनीरजनेत्राढ्यां प्रोत्फुल्लकमलाननाम् ।। १७।।
हिमाभफेनवसनां चक्रवाकाधरान्विताम् ।
बलाकापंक्तिदर्शनां चलन्मत्स्यावलिभ्रुवम् ।। १८।।
जलमांतगकन्ध्रस्थरम्यकुंभपयोधराम् ।
हंसनूपुरसंघुष्टां मृणालवलयावलीम् ।।१ ९।।
स्वतीरद्रुमवल्लीजरजोयोगसुगन्धिनीम् ।
तरंगव्रातसंक्रान्तसूर्यमण्डलदुर्दृशम् ।।3.159.२०।।
सुरेभजनिताघातविकूलद्वयमत्तिनीम् ।
शक्रेभगण्डसलिलैर्देवस्त्रीकुचचन्दनैः ।।२१ ।।
सुगन्धिसलिलां लोभात् षट्पदैरतिसेविताम् ।
तपोधनानां देवानामप्सरसां नृयोषिताम् ।।२२।।
सुखशान्तिप्रदां पापहारिणीं घोषकारिणीम् ।
मुक्तैश्चर्षिगणैर्देवैः पितृभिर्मानवैः श्रिताम् ।।२३।।
यक्षराक्षसगन्धर्वैर्गणैः सिद्धैश्च चारणैः ।
दैवतैर्देववृक्षैश्च सेवितां समलोकयत् ।।।२४।।
सस्नुस्तस्यामवतीर्य ब्रह्मप्रिया हरिप्रियाः ।
अनादिश्रीकृष्णनारायणः कोटिस्वरूपवान् ।।।२५।।
ताभिः सह जले सस्नौ तासां मनांस्यपूरयन् ।
आधाय तासां सौगन्ध्यं शृंगारस्य द्रवाँस्तथा ।।२६।।
कृतकृत्याऽभवद् गंगा प्राक्सखीजनसंगता ।
श्रीहरेश्चापि योगेन शाश्वतीं तृप्तिमाप सा ।।२७।।
अथ वेषान् प्रधार्यैताः कृत्वा शृंगारमुत्तमम् ।
विमानं त्वधिरुह्यैव ददृशिरे हिमालयम् ।। २८।।
समुल्लिखद्भिर्बहुभिर्वृतं शृंगैस्तु पाण्डुरैः ।
पाण्डुरजटिभिश्चापि तापसैश्चाप्यधिश्रितम् ।।२९।।
पारेसहस्रनिर्झरसरिद्भिः पट्टपाण्डुरम् ।
पारेसहस्रहिमवच्छीखरैः स्वर्गपाण्डुरम् ।।3.159.३०।।
देवदारुवनैर्नीलैः कृताऽधोवसनं तथा ।
श्वेतमेघकृतोष्णीषं नीलमेघोत्तरीयकम् ।।३ १।।
क्वचिच्चन्द्रार्कमुकुटं क्वचिद्धातुसमन्वितम् ।
हिमानुलिप्तमध्यांगं पार्श्वयोश्चन्दनान्वितम् ।।३२।।
सालक्तकैरप्सरसा मुद्रितं चरणैः क्वचित् ।
क्वचिद्दिवाकरस्पृष्टं क्वचिच्छायातमःश्रितम् ।।३३।।
दरीमुखैः क्वचिद्वारि प्रस्रवन्तं हि पावनम् ।
क्वचिद्विद्याधरगणैः क्रीडद्भिरुपशोभितम् ।।३४।।
किन्नराणां गणैर्गीतं क्वचित् किंपुरुषैरपि ।
तपस्विशरणं सिद्धैर्विहृतं दिव्यमानवैः ।।३५ ।।
निरुद्धपवनैर्देशैर्नीलशाद्वलमण्डितैः ।
कुसुमैश्च क्वचिद् व्याप्तं महोद्यानमिव स्थितम् ।।३६।।
मृगैः क्वचित्तु चरितं दन्तिभिन्नमहाद्रुमम् ।
सिंहशार्दूलनादैश्च नादितं गह्वरायुतम् ।।३७।।
हिमच्छत्रमहाशृंगं प्रपातशतनिर्झरम् ।
वंशस्तम्बवनाकारैः प्रदेशैरुपशोभितम् ।।३८।।
वृद्धर्षिप्रतिमं वृद्धसहस्रशीर्षसदृशम् ।
हिमसंरुद्धमार्गं च राजतानुकृतिस्थितम् ।।३९।।
विलोक्य पर्वतं सर्वा मुदं परां हि लेभिरे ।
अरण्यानि विचित्राणि ददृशिरेऽतितद्रसाः ।।3.159.४०।।
शालैस्तालैस्तमालैश्च कर्णिकारैः सशामलैः ।
न्यग्रोधैश्च महाश्वत्थैः शिरीषैः शिंशपाद्रुमैः ।।४१ ।।
महानिम्बैश्च युक्तानि निर्गुण्डीभिर्हरिद्रुमैः ।
कालेयकैर्देवदारुद्रुमैर्निम्बैश्च पद्मकैः ।।४२।।
कपित्थैश्चन्दनैर्बिल्वैः रक्तचन्दनपादपैः ।
वाताम्रै रिष्टकैश्चाक्षोटकैरर्जुनपादपैः ।।४३।।
अब्जकैर्हस्तिकर्णैः सुमनसैः पनसैस्तथा ।
प्राचीनामलकैः कोविदारैश्च धनकैस्तथा ।।४४।।
समराटैः खर्जूरकैर्नारिकेलैश्च खारिकैः ।
प्रियालुभिश्चेङ्गुदैश्च तन्तुमालैर्धवैस्तथा ।।४५।।
काश्मीरीपर्णिभिश्चाम्रातकैश्चूतैश्च सर्जकैः ।
जातीफलैः पूगफलैः पिप्पलीप्लक्षखादिरैः ।।४६।।
कट्फलैश्च लवंगाद्यैरेलाभिः कुसुमांऽशुकैः ।
किंशुकैः खदिरैर्मन्दारकैश्च कोविदारकैः ।।४७।।
यवासैः शमीभिश्चापि वेतसैरम्बुवेतसैः ।
रक्तातिरंगनारंगैः करवीरैश्च चिञ्चुभिः ।।४८।।
हिंगुभिर्जम्बीरकैश्च लिचिकाभिः प्रियङ्गुभिः ।
जाम्बूभिः रावणैश्चापि कटगुंदैः खलीलकैः ।।४९।।
रक्ताशोकैरशोकैश्च कल्लैः श्रीपादपैस्तथा ।
आमलकैः शोभितानि चोदुम्बरैश्च चम्पकैः ।।3.159.५० ।।
श्वेतचम्पैः राजचम्पैर्मुचकुन्दैश्च कुन्दकैः ।
परूषकैः कदम्बैश्च पारिजातैर्गलाटकैः ।।५१ ।।
किरातैः केतकैश्चापि सौभाञ्जनैर्निकोटकैः ।
वल्लकपादपैर्बद्रीद्रुमैरक्षोटकैस्तथा ।।५२।।
कञ्जरीभिः सर्जकैश्च सालैस्तालैस्तमालकैः ।
सहकारैश्चारडूसैर्बर्बुरैः रामफालकैः ।।५३।।
सीताफलैर्यामफलैश्चामृतै रायणादिभिः ।
तुम्बुरुपादपैश्चापि थूरकैर्हस्तधूरकैः ।।५४।।
चेरिटैश्चार्जुनैश्चापि तिलकै रक्तकेसरैः ।
मधुकैस्तुलसीभिश्च वृन्दाभिस्तिग्मगन्धकैः ।।५५।।।
बकुलैश्च कर्मदैश्च पुन्नागैः केतकैस्तथा ।
यूथिकाभिर्जातिफलैर्लोचैस्तिलैः कुशेशयैः ।।५६।।
पारिभद्रैर्हरिद्रैश्च कदम्बकुटजादिभिः ।
मुस्तकैः कुंकुमैः कंभैर्नीपैः पालीवनैस्तथा ।।५७।।
रक्तपुष्पैः सूर्यमुखैः सारघवैः फलीद्रुमैः ।
दाडिमैर्बन्धूककैश्च कुंजलैर्मल्लिकादिभिः ।। ५८।।।
कुरबकैर्बीजपूरैः कर्पूरैश्चागुरुद्रुमैः ।
गुग्गुलैश्चेक्षुभिश्चापि हिन्तालैश्चक्रमर्दनैः ।।५९।।
पीलुभिर्धातकीभिश्च चिरबिल्वैश्च लोध्रकैः ।
क्षीरिकाभिरश्मकैश्च नवरंगैस्त्रिखट्वकैः ।।3.159.६० ।।
भल्लातकैरिन्द्रयवैर्गुञ्जाभिः करमर्दकैः ।
अविष्टकैश्च सद्राक्षैर्द्राक्षाभिः पुत्रजीवकैः ।।६१ ।।
कंकोलैश्च लवंगैश्च प्रतानैर्नागवल्लिभिः ।
मरीचैर्मल्लिकाभिश्च मुक्तकैस्त्रपुसैस्तथा ।।।६२।।
कुष्माण्डकैश्चिर्भटैश्च पटोलैः कारवेल्लकैः ।
कर्कोटकैश्च वार्ताकैर्मूलकैः स्वादुकण्टकैः ।।६३।।
शृंगाटकैश्च कल्हारैः सर्षपैः शोभितानि च ।
सोमवल्लीसंधिनीवल्लिकासञ्जीवनीतृणैः ।
काकालीभिः कासमर्द्दिभिश्च शकन्दलैस्तथा ।।६४।।
शिम्बिवनैः सस्यवनैर्वेणुभिः कीचकैस्तथा ।
शरगुल्मैश्च कार्पासैः स्वर्णद्रुमैश्च भूतृणैः ।।६५।।
शृंगवेराजमोदाभिः कुबेरकैः प्रियालकैः ।
कुमुदैश्चोत्पलैश्चापि स्थलपद्मैः कसेरुकैः ।।६६।।
मृणालैश्च गोधूमकै राजिकाभिर्नीवारकैः ।
शोभितानि ह्यरण्यानि समैक्षन्त हरेः प्रियाः ।।६७।।
ददृशिरे तथा तत्र नानारूपान् पतत्रिणः ।
मयूरान् शतपत्राँश्च कलविंकाँश्च कोकिलान् ।।६८।।
कादम्बकाँश्च हंसाँश्च कोयष्टीन् खञ्जरीटकान् ।
कुररान् कालकूटाँश्च खट्वांगान् लुब्धकाँस्तथा ।।६९।।
गोक्ष्वेडकाँस्तथा कुंभान् धार्तराष्ट्रान् शुकान् बकान् ।
धातुकाँश्चक्रवाकाँश्च कटुकान् टिट्टिभान् भटान् ।।3.159.७०।।
पारावताँश्च कमलान् सारिका हल्लराँस्तथा ।
लावान् प्रभद्रकाँश्चापि गरुडान् ताम्रचूडकान् ।।७१ ।।
कुक्कुटान् कृष्णचटकान् तित्तिरान् कलहंसकान् ।
काष्ठकुट्टान् कलविंकान् कपिञ्जलाँश्च डिण्डमान् ।।७२ ।।
भूलिंगान् सीरपादाँश्च भृंगराजान् व्यलोकयन् ।
दात्यूहान् चटकान् कारण्डवान् चषाँश्च चातकान् ।।७३।।
शुकान्मयूरकान् भारद्वाजान् हंसान् व्यलोकयन् ।
अनेकजातिजाताँश्च पक्षिसंघान् व्यलोकयन् ।।७४ ।।
श्वापदान् विविधाकारान् मृगाँश्चापि व्यलोकयन् ।
व्याघ्रान् केसरिणः सिंहान् द्वीपिनः शरभान् वृकान् ।।७५।।
ऋक्षाँस्तरक्षूँश्च कपीन् गोलाङ्गुलान् प्रगेण्डकान् ।
वानरान् शशकान् मार्जारकान् वृकाँश्च भल्लुकान् ।।७६।।
मातंगान् महिषाँश्चापि गवयान् चमरान् वृषान् ।
गौरखराँश्च सृमरान् मेषान् सारंगकानपि ।।७७।।
कुकुरान्नीलकाँश्चापि करालान् शम्बराँस्तथा ।
रामशरभान् तोरणान् कालपुच्छान् वराहकान् ।।७८।।
तुरगान् गर्दभाँश्चापि रेण्डीयराँश्च चित्रकान् ।
व्यलोकयन् स्त्रियः सरोवरान्नदीः सितोदकान् ।।७९।।
प्रणालिकानि चोष्णानि शीतलानि च भागशः ।
कन्दराणि च शैलस्य व्यलोकयन् हरिप्रियाः ।।3.159.८० ।।
अथाऽग्रे संव्यपश्यँश्च ऋषेरत्रेः शुभाश्रमम् ।
नैसर्गिकप्रभायुक्तं हिंसादोषादिवर्जितम् ।।८१।।
हिमपातो न तत्रास्ति समन्तात्पञ्चयोजनम् ।
अत्रिणा पूजितः कृष्णः कृष्णाश्च पुरतो ययुः ।।।८२।।।
तत्सन्निधौ रमणीयं शिखरं पाण्डुरं महत् ।
हिमपातं घना यत्र कुर्वन्ति सहिताः खलु ।।८३ ।।
अथाग्रे शिखरं त्वन्यद् वर्तते चोच्छ्रितं परम् ।
नित्यमेवाभिवर्षन्ति तोयं हिमं घना मुहुः ।।८४।।
द्वयोः शिखरयोर्मध्ये शृंगमत्यन्तमुच्छ्रितम् ।
तस्य कट्यां वृक्षगणा वर्तन्ते पश्चिमे शुभाः ।।८५।।
तमोव्याप्ता निबिडाश्च फलपुष्पादिऋद्धयः ।
न तत्र सूर्यस्तपति राजते नहि चन्द्रमाः ।।८६।।
तथापि दिवसाभो वै प्रकाशस्तत्र विद्यते ।
बदर्यस्तत्र विद्यन्ते महर्षयो वसन्ति च ।।८७।।
विमानं त्वम्बरात्तत्र कोटिसूर्यसमप्रभम् ।
अवातरद् विशालायां प्रद्योतत् सर्वतोदिशः ।।८८।।
नरो नारायणश्चापि भक्तिधर्मौ महर्षयः ।
तूर्णमाश्चर्यमापन्ना विमानं प्रति चाययुः ।।८९।।
दृष्ट्वा नारायणकृष्णश्रीपतिंवल्लभम् प्रभुम् ।
अनादिश्रीकृष्णनारायणब्रह्मपरप्रभुम् ।।3.159.९०।।
पुपूजुः सहसा सर्वे जलचन्दनसत्फलैः ।
नरनारायणौ चापि पूजितौ च परात्मनां ।।९१ ।।
नारायणीभिः सर्वाभिः पूजितो भ्रातरावुभौ ।
महर्षयः पूजिताश्च वन्दिताश्च क्षमापिताः ।।९२।।
ततो दानानि दत्त्वैव सेवित्वा हृदयोद्भवैः ।
भावैस्तान् साधुवर्यांश्च नत्वा भक्तिं वृषं हरिम् ।।९३।।
विमानमधिरुह्याऽथ तदग्रे प्रययुस्ततः ।
हिमाचलः स्वयं राजेश्वरो भूत्वा समेनकः ।।९४।।
पूजार्थमाययौ कृष्णविमानं प्रति सोत्सुकः ।
नत्वा पूजां विधायाऽपि प्रार्थयद् भवनं प्रति ।।९५।।
समागन्तुं हरिं सोऽपि तदिच्छयाऽऽलयं ययौ ।
समन्तात्पर्वतानां वै प्राकाराः श्वेतहीमजाः ।।९६।।
मध्ये द्रोणी विशाला च सरोवरादिशोभिताः ।
उद्यानादियुता तत्र प्रासादो नगरान्वितः ।।९७।।
हिमालयस्य सुभगो विद्यते सुमनोहरः ।
अवातरद् विमानं वै तत्र प्राकारभूस्थले ।।९८।।
हिमालयगृहेऽनादिकृष्णनारायणस्य वै ।
मेना हिमालयश्चापि स्वागतं पूजनं तथा ।।९९।।
हरेर्हरिप्रियादीनां चक्रतुर्वै यथोचितम् ।
आनन्दं पर्वतो लेभे नारायणस्य दर्शनात् ।। 3.159.१० ०।।
न्यवासयन्महासौधे परमेशं प्रियायुतम् ।
अमृतानि सुभोज्यानि कारयामास सत्वरम् ।। १०१ ।।
भोजयामास शीघ्रं चारार्त्रिकं च व्यधात् ततः ।
श्रीहरिश्च विशश्राम प्रियाभिः सेवितो मुदा ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ब्रह्मप्रियादिभिः सहितो विमानेन श्रीकृष्णनारायणो पृथिवीं पश्यन् हिमालयगृहं ययावित्यादिनिरूपणनामा नवपञ्चाशदधिकशततमोऽध्यायः ।। १५९ ।।
 
</span></poem>