"कौषीतकिब्राह्मणम्/अध्यायः ०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २०:
 
१.४ प्रयाजानुयाजा आज्यभागाश्च
विभक्तिभिः प्रयाज अनुयाजान् यजति । ऋतवो वै प्रयाज अनुयाजाः । ऋतुभ्य एनम् तत् समाहरन्ति । अग्रअग्न आयाहि वीतये अग्निम् दूतम् वृणीमहे अग्निना अग्निः समिध्यते अग्निर् वृत्राणि जङ्घनद् अग्नेः स्तोमम् मनामहे अग्ना यो मर्त्यो दुव इत्य् एताम् ऋचाम् प्रतीकानि विभक्तयः । ता वै षड् भवन्ति । षड् वा ऋतवः । ऋतुभ्य एव एनम् तत् पुनर् समाहरति । यथा यथम् उत्तमौ प्रयाज अनुयाजौ यजति । तथा ह अस्य प्रयाज अनुयाजेभ्यो अनितम् (?) भवति । वार्त्रघ्नः पूर्व आज्य भागः पाप्मन एव वधाय । अथो ह अस्य पौर्णमासात् तन्त्राद् अनितम् भवति । अग्निम् स्तोमेन बोधय इत्य् अग्नये बुद्धिमते पूर्वम् कुर्याद् इति ह एक आहुः । स्वपिति इव वा एतस्य अग्निर् यो अग्मिम् उद्वासयते । तद् एव एनम् तत् पुनः प्रबोधयति इति । वार्त्रघ्नस् त्व् एव स्थितः । अग्न आयूंषि पवस इत्य् उत्तरस्य पुरोनुवाक्या । पवस इत् तत् सौम्यम् रूपम् । केवल आग्नेयो हि यज्ञ क्रतुः । तद् यत् पवमानस्य कीर्तयति । तथा ह अस्य सौम्याद् आज्य भागाद् अनितम् भवति । पद पङ्क्तयो याज्या पुरोनुवाक्याः । पञ्च पदा पङ्क्तिः । पाङ्क्तो वै यजो यज्ञस्य एव आप्त्यै ।
 
१.५ विभक्तयः अदितिभागश्च
"https://sa.wikisource.org/wiki/कौषीतकिब्राह्मणम्/अध्यायः_०१" इत्यस्माद् प्रतिप्राप्तम्