"ऋग्वेदः सूक्तं १०.१४५" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
इमां खनाम्योषधिं वीरुधं बलवत्तमाम |
ययासपत्नीं बाधते यया संविन्दते पतिम ||
उत्तानपर्णे सुभगे देवजूते सहस्वति |
सपत्नीं मे पराधम पतिं मे केवलं कुरु ||
उत्तराहमुत्तर उत्तरेदुत्तराभ्यः |
अथा सपत्नी याममाधरा साधराभ्यः ||
 
नह्यस्या नाम गर्भ्णामि नो अस्मिन रमते जने |
परामेवपरावतं सपत्नीं गमयामसि ||
अहमस्मि सहमानाथ तवमसि सासहिः |
उभे सहस्वतीभूत्वी सपत्नीं मे सहावहै ||
उप ते.अधां सहमानामभि तवाधां सहीयसा |
मामनुप्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४५" इत्यस्माद् प्रतिप्राप्तम्