"ऋग्वेदः सूक्तं १०.६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६७:
 
{{सायणभाष्यम्|
पञ्चमेऽनुवाकेऽष्टौ सूक्तानि । तत्र ' इदमित्था ' इति सप्तविंशत्यृचं प्रथमं सूक्तं मानवस्य नाभानेदिष्ठस्यार्षं त्रैष्टुभम् । इदमादीनि षट् सूक्तानि वैश्वदेवानि । तथा चानुक्रान्तम्--' इदमित्था सप्ताधिका नाभानेदिष्ठो मानवो वैश्वदेवं तत् ' इति । पृष्ठ्यस्य षष्ठेऽहनि वैश्वदेवशस्त्र आभिप्लविकातिदेशप्राप्तस्य उषासानक्ता इत्यस्य स्थाने इदं सूक्तम् । सूत्रितं च-'उद्धृत्य' चोत्तमं सूक्तं त्रीणीदमित्था रौद्रमिति ' ( आ. श्रौ. ८.१) इति । अत्रैतरेयब्राह्मणं-' नाभानेदिष्ठं वै मानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजन्त्सोऽब्रवीदेत्य किं मह्यमभाक्तेत्येतमेव निष्ठावमववदितारमित्यब्रुवन् ' ( ऐ. ब्रा. [https://sa.wikisource.org/s/w1f ५.१४]) इत्यादि । तत्र नाभानेदिष्ठो भ्रातृभिर्भागे निराकृतः पितृसामीप्यमागत्य किं मह्यं भागं च कल्पितवानसीत्यपृच्छत् । स च किमनेन भागेन । अङ्गिरसः स्वर्गार्थं सत्रमासीनाः षष्ठाहःपर्यन्तमनुष्ठाय मुह्यन्ति । तान् ' इदमित्था ' इति सूक्ते शंसय ते स्वर्गं यन्तो वसिष्ठा गाः सहस्रसंख्याकान् दास्यन्तीति पित्रा प्रेरितोऽङ्गिरसां समीपमागत्य तेभ्यः सत्रपरिवेषणं गोसहस्रमुत्कोचं परिकल्प्य तानेते सूक्ते षष्ठेऽहन्यशंसयत् । ते च तत्सूक्तसामर्थ्याद्यज्ञं पारं प्रापय्य स्वर्जिगमिषवोऽस्मै गोसहस्रं प्रादुः । तं च तद्गोसहस्रं स्वीकुर्वाणं कश्चन कृष्णशवासी पुरुष उत्तरत उत्थाय ब्राह्मण मदीयं यज्ञशेषभागं मा स्वीकुर्वित्यब्रवीत् । स च मह्यमङ्गिरसः प्रादुरिति प्रत्यब्रवीत् । तर्हि ब्राह्मण तव पितरमेव पृच्छ कस्मै भागः प्राप्नुयादित्युक्तः पितृसमीपमागत्य पित्रा रुद्रायायं न्याय्य इति तेनोक्तस्तवैवायं भाग इति मम पिताब्रवीदिति प्रत्युवाच । ततो यथार्थकथनेन तुष्टः पुरुषो नाभानेदिष्ठायैव स्वं भागं प्रादादित्युक्तम् । तथाध्वर्युब्राह्मणेऽपि ' मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठः ' ( तै. सं. [https://sa.wikisource.org/s/1e23 ३.१.९.४]) इत्यादिनायमर्थ उक्तः । तत्सर्वमत्रानुसंधेयम् ।।
 
 
पङ्क्तिः ४८३:
ऋक्संहिताभाष्येऽष्टमाष्टके प्रथमोऽध्यायः ।।
 
}}
 
 
== ==
{{टिप्पणी|
नाभानेदिष्ठः
 
आत्मसंस्कृतिर्वाव शिल्पानि च्छन्दोमयं वा एतैर्यजमान आत्मानं संस्कुरुते। नाभानेदिष्ठं शंसति। रेतो वै नाभानेदिष्ठो रेतस्तत्सिञ्चति। तमनिरुक्तं शंसत्यनिरुक्तं वै रेतो गुहायोन्यां सिच्यते। स रेतोमिश्रो भवति ........ तं होता रेतोभूतं सिक्त्वा मैत्रावरुणाय संप्रयच्छत्येतस्य त्वं प्राणान्कल्पयेति - ऐ.ब्रा. [https://sa.wikisource.org/s/w1c ६.२७]
 
भागवतपुराणे [https://sa.wikisource.org/s/b3z ९.४] एवं शिवपुराणे [https://sa.wikisource.org/s/y50 ३.२९.२] अपिि नाभागस्य आख्यानं द्रष्टव्यः
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६१" इत्यस्माद् प्रतिप्राप्तम्