"रामायणम्/युद्धकाण्डम्/सर्गः १२२" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वाल्मीकिः | translator = | section = सर्ग... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१२:२५, ९ फेब्रवरी २०१२ इत्यस्य संस्करणं

← सर्गः १२१ रामायणम्
सर्गः १२२
वाल्मीकिः
सर्गः १२३ →


एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम् ।
इदं शुभतरं वाक्यं व्याजहार महेश्वरः ।। ६.१२२.१ ।।

पुष्कराक्ष महाबाहो महावक्षः परन्तप ।
दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर ।। ६.१२२.२ ।।

दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः ।
अपावृत्तं त्वया सङ्ख्ये राम रावणजं भयम् ।। ६.१२२.३ ।।

आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् ।
कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ।। ६.१२२.४ ।।

प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् ।
इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल ।। ६.१२२.५ ।।

इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः ।
ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ।। ६.१२२.६ ।।

एष राजा विमानस्थः पिता दशरथस्तव ।
काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ।। ६.१२२.७ ।।

इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः ।
लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ।। ६.१२२.८ ।।

महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः ।
विमानशिखरस्थस्य प्रणाममकरोत् पितुः ।। ६.१२२.९ ।।

दीप्यमानं स्वया लक्ष्म्या विरजोम्बरधारिणम् ।
लक्ष्मणेन सह भ्रात्रा ददर्श पितरं विभुः ।। ६.१२२.१० ।।

हर्षेण महता ऽ ऽविष्टो विमानस्थो महीपतिः ।
प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा ।। ६.१२२.११ ।।

आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः ।
बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे ।। ६.१२२.१२ ।।

न मे स्वर्गो बहुमतः सम्मानश्च सुरर्षिभिः ।
त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ।। ६.१२२.१३ ।।

अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम् ।
निस्तीर्णवनवासं च प्रीतिरासीत् परा मम ।। ६.१२२.१४ ।।

कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर ।
तव प्रवाजनार्थानि स्थितानि हृदये मम ।। ६.१२२.१५ ।।

त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् ।
अद्य दुःखाद्विमुक्तो ऽस्मि नीहारादिव भास्करः ।। ६.१२२.१६ ।।

तारितो ऽहं त्वया पुत्र सुपुत्रेण महात्मना ।
अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ।। ६.१२२.१७ ।।

इदानीं तु विजानामि यथा सौम्य सुरेश्वरैः ।
वधार्थं रावणस्येदं विहितं पुरुषोत्तम ।। ६.१२२.१८ ।।

सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् ।
वनान्निवृत्तं संहृष्टा द्रक्ष्यत्यरिनिषूदन ।। ६.१२२.१९ ।।

सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् ।
जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् ।। ६.१२२.२० ।।

अनुरक्तेन बलिना शुचिना धर्मचारिणा ।
इच्छामि त्वामहं द्रष्टुं भरतेन समागतम् ।। ६.१२२.२१ ।।

चतुर्दश समाः सौम्य वने निर्यापितास्त्वया ।
वसता सीतया सार्धं लक्ष्मणेन च धीमता ।। ६.१२२.२२ ।।

निवृत्तवनवासो ऽसि प्रतिज्ञा सफला कृता ।
रावणं च रणे हत्वा देवास्ते परितोषिताः ।। ६.१२२.२३ ।।

कृतं कर्म यशः श्लाध्यं प्राप्तं ते शत्रुसूदन ।
भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ।
इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ।। ६.१२२.२४ ।।

कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च ।
सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया ।। ६.१२२.२५ ।।

स शापः केकयीं घोरः सपुत्रां न स्पृशेत् प्रभो ।। ६.१२२.२६ ।।

स तथेति महाराजो राममुक्त्वा कृताञ्जलिम् ।
लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ।। ६.१२२.२७ ।।

रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।
कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ।। ६.१२२.२८ ।।

धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि ।
रामे प्रसन्ने स्वर्गं च महिमानं तथैव च ।। ६.१२२.२९ ।।

रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन ।
रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ।। ६.१२२.३० ।।

एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः ।
अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् ।। ६.१२२.३१ ।।

एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम् ।
देवानां हृदयं सौम्य गुह्यं रामः परन्तपः ।। ६.१२२.३२ ।।

अवाप्तं धर्मचरणं यशश्च विपुलं त्वया ।
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।। ६.१२२.३३ ।।

स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् ।
उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् ।। ६.१२२.३४ ।।

कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति ।
रामेम त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा ।। ६.१२२.३५ ।।

न त्वं सुभ्रु समाधेया पतिशुश्रूषणं प्रति ।
अवश्यं तु मया वाच्यमेष ते दैवतं परम् ।। ६.१२२.३६ ।।

इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् ।
इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ।। ६.१२२.३७ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्वाविंशत्युत्तरशततमः सर्गः ।। १२२ ।।