"शुक्लयजुर्वेदः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०८:
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः ।
सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑ᳪ रु॒द्रस्त्वा व॑र्त्तयतु स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ ।। २० ।।
उ० किंच सोमाहरणप्रवृत्तां त्वामेते अनुमन्यन्तां त्वा त्वां माता अनुमन्यतां त्वां पिता अनुमन्यतां त्वां भ्राता सगर्भ्यः समानगर्भभवः अनुमन्यतां । त्वां सखा सयूथ्यः समानयूथप्रभवः सखा अनुमन्यताम् । किंच या त्वं कृतसामग्रीकाऽस्माभिः सोमं प्रति गमने सा त्वं हे देवि दानादिगुणयुक्ते, देवमच्छेहि । 'अच्छाभेराप्तुमिति शाकपूणिः' । देवं सोममध्येहि अभिगच्छ । इन्द्राय सोमम् आहर्तुमिति शेषः। किंच । रुद्रस्त्वावर्तयतु रुद्रः त्वाम् आवर्तयतु । रुद्राज्ञां नातिक्रामन्ति पशवः । ततः स्वस्ति अविनाशेन सोमसखा सती पुनरागच्छ ॥ २० ॥
म० किंच सोमाहरणे प्रवृत्तां त्वां माता त्वदीया जननी अनुमन्यतामनुज्ञां ददातु । पितानुमन्यताम् । उपसर्गावृत्त्या क्रियापदावृत्तिः । सगर्भ्यः समाने गर्भे भवः सहोदरो भ्रातानुमन्यताम् । 'समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' (६ । ३ । ८४) इति समानपदस्य सादेशः । सयूथ्यः समाने एकस्मिन्यूथे गोसमूहे भवः सयूथ्यः सखा वत्सोऽनुमन्यताम् । हे देवि सोमक्रयणि, सा त्वमिन्द्राय इन्द्रार्थं सोमं देवमच्छेहि प्राप्तुं गच्छ । 'अच्छाभेराप्तुमिति शाकपूणिः' (निरु० ५। २८)। किंच रुद्रः त्वा त्वां वर्तयतु सोमं गृहीत्वा स्थितां त्वां रुद्रो देवोऽस्मान्प्रति निवर्तयतु । यद्वा रुद्रः त्वां प्रवर्तयतु । यतो रुद्राज्ञां नातिक्रामन्ति पशवः । सोमो देवः सखा यस्याः सा सोमसखा । ईदृशी सोमसहिता सती स्वस्ति क्षेमेण पुनरेहि भूयोऽप्यागच्छ ॥ २० ॥
 
एकविंशी।
वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ । बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒रा च॑के ।। २१ ।।
उ० उदीची नीयमानामनुगच्छति । वस्व्यसि । अनुष्टुप् बृहती वा । वसुरूपेणादितिरूपेणादित्यरूपेण रुद्ररूपेण चन्द्ररूपेण स्तूयते गौः । किंच बृहस्पतिः त्वा सुम्ने सुखे रम्णातु संयमयतु । रम्णातिः संयमनकर्मा । रुद्रो वसुभिः सहितः आचके कामयतु । रक्षितुमिति शेषः । आचक इति कान्तिकर्मसु पठितम् ॥ २१ ॥
म०. 'उदीचीं नीयमानामनुगच्छतो वस्व्यसीतीति' ( का. ७ । ६ । १६) । अनुष्टुब्बृहती वा । सोमक्रयण्याः स्तुतिः । सोमक्रयणी गौर्वस्वदित्यादित्यरुद्रचन्द्ररूपेण स्तूयते वस्वीत्यादिपञ्चविशेषणैः । हे गौः, त्वं वस्वी वसुरूपासि । अदितिर्देवमातासि । द्वादशादित्यरूपासि । रुद्रा एकदशरुद्ररूपासि । चन्द्ररूपा चासि । किंच बृहस्पतिः सुम्ने त्वां रम्णातु रमयतु । रमतेर्व्यत्ययेन श्नाप्रत्ययः । यद्वा रम्णातु संयमयतु । 'रम्णातिः संयमनकर्मा विसर्जनकर्मा वा' (निरु० १० । ९) इति यास्कः । रुद्रो वसुभिः अष्टदेवैः सहितः त्वामाचके रक्षितुं कामयताम् । आचक इत्यादि चकमान इति कान्तिकर्मसु पठितः ॥२१॥
 
द्वाविंशी ।
</span></poem>
अदि॑त्यास्त्वा मू॒र्धन्नाजि॑घर्मि देव॒यज॑ने पृथि॒व्या इडा॑यास्प॒दमा॑सि घृ॒तव॒त् स्वाहा॑ ।
अ॒स्मे र॑मस्वा॒स्मे ते॒ बन्धु॒स्त्वे रा यो॒ मे रायो॒ मा व॒यᳪ रा॒यस्पोषे॑ण॒ वियौ॑ष्म॒ तोतो॒ राय॑: ।। २२ ।।
उ० पदे जुहोति । अदित्यास्त्वा अदित्याः पृथिव्यास्त्वाम् हे आज्य, मूर्धनि शिरसि आजिघर्मि । ' घृ क्षरणदीप्त्योः' आक्षारयामि । देवयजने पृथिव्याः इडाया गोः पदं यतस्त्वमसि अतो घृतवत् घृतयुक्तं त्वां कर्तुं जुहोमीति शेषः । पदं लिखति । अस्मे रमस्व अस्मासु रतिं कुरु । पदं स्थाल्यामावपति । अस्मे ते बन्धुः वयं ते तव बन्धुभूताः । यजमानाय पदं प्रयच्छति । त्वे रायः । पशवो वै रायः । त्वयि पशवः सन्त्विति शेषः । पदं यजमानः प्रतिगृह्णाति । मे रायः । मयि पशवः सन्त्विति शेषः । | अध्वर्युरात्मानमुपस्पृशति । मा वयं रायस्पोषेण वियौष्म मा विभक्ताः स्याम वयं धनस्य पोषेण । गृहीतपदां पत्नी वाचयति । तोतोरायः । त्वयि रायः पशवः सन्त्विति शेषः ॥२२॥ ।
म० षट्पदान्यतीत्य सप्तमं पर्युपविशन्ति हिरण्यमस्मिन्निधायाभिजुहोत्यदित्यास्त्वेतीति' (का० ७ । ३ । १७-१८)। | आज्यदैवतं यजुः । अदित्याः अखण्डितायाः पृथिव्याः भुवो मूर्धन् मूर्धनि शिरोरूपे देवयजने देवानां यागयोग्यस्थाने हे आज्य, त्वा त्वामाजिघर्मि आक्षारयामि । 'घृ क्षरणदीप्त्योः ' । 'पृथिव्या ह्येष मूर्धा यद्देवयजनम्' इति तित्तिरिश्रुतेर्देवयजनस्य पृथिवीमूर्धत्वम् । किंच हे स्थानविशेष, त्वमिडायाः गोः पदमसि गोपदेनाङ्कितत्वात्तद्रूपमसि । तच्च पदं घृतवत् घृतयुक्तं कर्तुं स्वाहा जुहोमि । 'स्फ्येन पदं त्रिः परिलिखत्यस्मे रमस्वेति' (का० ७ । ६ । १९) । हे गोः पद, त्वमस्मे अस्मासु रमस्व क्रीडां कुरु । 'समुद्धृत्य पदᳪ स्थाल्यामावपत्यस्मे ते बन्धुरिति' (का० ७ । ६ । २०)। हे सोमक्रयणीपद, ते तव अस्मे बन्धुः वयं बन्धुभूताः स्मः । 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति जसः शेआदेशे अस्मे इति रूपम् । 'यजमानाय पदं प्रयच्छति त्वे राय इति' (का० ७ । ६ । २१) । हे यजमान, त्वे त्वयि रायो धनानि एतत्पदरूपेण तिष्ठन्त्विति शेषः । यद्वात्र रायः पशवः । 'पशवो वै रायः' (३ । ३ । १।८) इति श्रुतेः। त्वयि पशवः सन्तु । 'मे राय इति यजमानः प्रतिगृह्णातीति' (का. ७ । ६ । २२) । मे मयि यजमाने रायो धनानि पदरूपेण तिष्ठन्तु । पशवो मयि सन्तु । ङेः शेआदेशे मे इति रूपम् । ‘मा वयमित्यध्वर्युरात्मानᳪ संस्पृशतीति' (का. ७।६।२३) । वयमध्वर्युप्रभृतयो रायस्पोषेण धनस्य पुष्ट्या मा वियोष्म वियुक्ता मा भवाम । यौतेः 'माङि लुङ्' (पा० ३।३।१७५) इति लुङि उत्तमबहुवचने वियौष्मेति रूपम् । 'हृत्वा पत्न्यै पदं प्रयच्छति नेष्टा तोत इत्येनां वासयतीति' (का० ७ । ६ । २४-२५) । तोतःशब्दः कलत्रवाची अव्ययम् । तोतः कलत्रे रायो धनानि पशवो वा पदरूपेण तिष्ठन्तु । यद्वाव्ययानामनेकार्थत्वात्तोतःशब्दो युष्मत्पर्यायः । तोतः त्वयि रायः सन्तु ॥ २२ ॥
 
त्रयोविंशी।
सम॑ख्ये दे॒व्या धि॒या सं दक्षि॑णयो॒रुच॑क्षसा । मा म॒ आयु॒: प्रमो॑षी॒र्मो अ॒हं तव॑ ।
वी॒रं वि॑देय॒ तव॑ देवि सं॒दृशि॑ ।। २३ ।।
उ० सोमक्रयण्या समीक्षयति । समख्ये । पत्न्याशीः । आस्तारपङ्क्तिः। सोमक्रयणीतः पत्न्याशिषमाशास्ते। यया त्वया अहं समख्ये । 'ख्या प्रकथने' । संदर्शनं कृतवती । देव्या दानादिगुणयुक्याक । धिया प्रज्ञया । सहार्थे तृतीया । संदक्षिणया उरुचक्षसा समख्ये च दक्षिणया सह । गौर्हि प्रायशो दक्षिणा दीयते । उरुचक्षसा विस्तीर्णदर्शनया । वाचोभिरतीतानागतवर्तमानविप्रकृष्टं ज्ञायते । सा त्वं मा म आयुः प्रमोषीः । 'मुष स्तेये। मा प्रमोषीः मावखण्डय मम आयुः। मा अहं तवायुः प्रमोषिषम् । किंच वीरं विदेय । विदिर्लाभार्थः । पुत्रं लभेय । संदृशि हे देवि, तव संदर्शने सति ॥ २३ ॥
म० सोमक्रयण्या च समीक्ष्यमाणाᳪ समख्य इतीति' (का० ७॥ ६ । २६)। एनां वाचयतीत्यनुवर्तते । आस्तारपङ्क्तिः पत्न्याशीः । यस्या आद्यावष्टाक्षरौ पादावन्त्यौ द्वादशाक्षरौ सास्तारपङ्क्तिः । अन्त्यौ चेदास्तारपङ्क्तिरिति वचनात् । सोमक्रयणीतः पत्न्याशिषमाशास्ते । हे सोमक्रयणि, देव्या द्योतमानया त्वया धिया बुद्ध्या सह बुद्धिपूर्वकमहं समख्ये अदृक्षि दृष्टेत्यर्थः । 'ख्या प्रकथने' इत्यस्य धातोः संपूर्वस्य लुङि तङि 'अस्यतिवक्तिख्यातिभ्योऽङ्' (पा० ३ । १।५२) इति च्लेरङि उत्तमैकवचने कर्मणि समख्ये इति रूपम् । एकं संपदं पादपूरणाय । किंभूतया त्वया । दक्षिणया दक्षिणात्वयोग्यया । तथा उरुचक्षसा उरु चष्टे सोरुचक्षास्तया विस्तीर्णदर्शनया । एवंविधा त्वं मे मम पत्न्या आयुः मा प्रमोषीः मा खण्डय । 'मुष स्तेये लुङि रूपम् । मो अहं तव । तव सोमक्रयण्या आयुरहं पत्नी मा उ मैव प्रमोषिषमित्यध्याहारः । मार्थे मो इत्यव्ययं वा । अहं तवायुर्न नाशयामीत्यर्थः। किंच वीरं विदेय तव देवि संदृशि। हे देवि गौः, तव संदृशि संदर्शने सति वीरं पुत्रं विदेय लभेय । संदर्शनं संदृक् भावे क्विप् । 'विद्लृ लाभे' इत्यस्य व्यत्ययेन 'तुदादिभ्यः शः' (पा० ३। १ । ८७) इति शप्रत्यये लिङि रूपम् ॥ २३ ॥
 
चतुर्विंशी।
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते त्रैष्टु॑भो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दोना॒माना॒ᳪ साम्रा॑ज्यं ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतादास्मा॒को॒ऽसि शु॒क्रस्ते॒ ग्रह्यो॑ वि॒चित॑स्त्वा॒ विचि॑न्वन्तु ।।२४ ।।
उ० यजमानं वाचयति । एष ते गायत्रो भागः । हे सोम, एष ते तव गायत्रीसंबन्धी भागः अंशः इति एवं मे यजमानाभिधायकं पदम् । सोमायेति षष्ठ्यर्थे चतुर्थी । मम वचनमेवं सोमस्य ब्रूतात् कथयत। हे अध्वर्यवः, छन्दोर्थं तव क्रयो न वधार्थम् । एवं यजमानाभिप्रायः । एतदध्वर्यवः सोमस्य कथयन्तीति वाक्यार्थः । एष ते त्रैष्टुभो भागः । एष ते जागत इत्यनेनैव व्याख्यातौ । छन्दोनामानाम् । नामशब्दोऽनर्थकः । अन्येषामपि छन्दसां साम्राज्यमाधिपत्यं गच्छ इति एवं मे ममाभिप्रायं सोमस्य ब्रूतात् कथयत । हे अध्वर्यवः । अनापि मे इत्येतत्पदं यजमानवाच्यमेव । सोममालभते । आस्माकोसि । यस्त्वां हे सोम, क्रयार्थमुपागतः स आस्माको मदीयः संजातः । शुक्रस्ते ग्रहः । उपलक्षणार्थः । शुक्रप्रभृतयो ग्रहास्तव ग्रहीष्यन्ते । किंच विचितः विचयनकर्तारः त्वां विचिन्वन्तु विविक्तं कुर्वन्तु ॥ २४ ॥
म० एष त इति वाचयतीति' (का० ७ । ७ । ८)। मन्त्रचतुष्टय यजमानः पठेत् । हे अध्वर्यो, सोमाय सोमाभिमानिने देवाय मे इति वचो ब्रूतात् वं ब्रूहि कथय । इति किम् । हे सोम, ते तव एष पुरो दृश्यमानो भागो गायत्रो गायत्रीसंबन्धी । गायत्रीच्छन्दोऽर्थं तव क्रयो नतु वधार्थमिति यजमानाभिप्रायः । तं ममाभिप्रायं सोमाय कथयेत्यर्थः । ते तव एष त्रैष्टुभः त्रिष्टुप्छन्दसः संबन्धी भाग इति मेऽभिप्रायमध्वर्यो, सोमाय त्वं ब्रूहि । एवमग्रेऽपि । जागतो जगतीच्छन्दसः संबन्धी । अन्यत्पूर्ववत् । छन्दोनामानां छन्द इति नाम येषामन्येषामप्युष्णिगादीनां ताः छन्दोनामानः तेषां साम्राज्यं गच्छ सर्वेषां छन्दसामाधिपत्यं प्राप्नुहि। इति मे वचः सोमाय ब्रूतात्कथय । यः सोमाय छन्दसामाधिपत्यं दत्त्वा क्रीणाति तं स स्वानामाधिपत्यं प्राप्नोति। तदुक्तं तित्तिरिणा 'यो वै सोमं राजानᳪ साम्राज्यलोकं गमयित्वा क्रीणाति गच्छति स्वानाᳪ साम्राज्यमिति' । अत एतैर्मन्त्रैः सोमस्य राज्याप्तिः सूचिता । गायत्र्यादिच्छन्दोदेवता यत्र तिष्ठन्ति स छन्दोलोकस्तदाधिपत्यं प्रापय्य सोमं क्रीणानः स्वाधिपत्यभाग्भवतीत्यभिप्रायः । 'प्राङुपविश्यास्माकोऽसीति सोममालभते' (का० ७।७।९) इति । हे सोम, त्वं क्रयपथमागतः सन्नास्माकोऽसि । शुक्रः शुक्लसंज्ञः ते तव ग्रह्यः । ग्रह एव ग्रह्यः । शुक्रपदमैन्द्रवायवादिग्रहाणामुपलक्षणम् । शुक्रादयः सर्वे तव ग्रहा इत्यर्थः । विचितः ।। विचिन्वन्तीति विचितः विवेकेन चयनस्य कर्तारः त्वां विचिन्वन्तु विविक्तं कुर्वन्तु । सारासारविवेकं कृत्वा सारभूतं समूहयन्त्वित्यर्थः ॥ २४ ॥
 
पञ्चविंशी।
</span></poem>
अ॒भि त्यं दे॒वᳪ स॑वि॒तार॑मो॒ण्यो॒: क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वᳪ रत्न॒धाम॒भि प्रि॒यं म॒तिं क॒विम् । ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतु॑: कृ॒पा स्व॑: । प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑ ऽनु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि ।। २५ ।।
उ० सोमं मिमीते । अभि त्यं देवम् । सावित्र्यत्यष्टिः ।। अभ्यर्चामि अभिपूजयामि । त्यं तम् । देवं दानादिगुणयुक्तं सवितारम् । ओण्योः द्यावापृथिव्योरन्तरा वर्तमानम् । कविक्रतुं मेधाविकर्माणम् । सत्यसवं अवितथप्रसवम् । रत्नधाम् रमणीयानां धनानां दातारम् । अभिरनर्थकः । प्रियम् सर्वजनानां प्रियम् । मतिं बुद्धिं व्याप्यावस्थितम् । मतीनां हि सविताधिष्ठात्री देवता । कविं क्रान्तदर्शनम् । किंच ऊर्ध्वा यस्याऽमतिः भा अदिद्युतत् सवीमनि । यस्य सवितुः ऊर्ध्वा गमनाभिमुखी अमतिः आत्ममयी मतिः अनन्यभूता । कतरा भा दीप्तिः अदिद्युतत् द्योतयते सवीमनि प्रसवे पूर्णे हि दातव्ये । स सविता हिरण्यपाणिः सुवर्णपाणिः अमिमीत ममीते सोमं परिच्छिनत्ति । सुक्रतुः साधुकर्मा शोभनयज्ञो वा कृपा कल्पनया सोमस्य कल्पना । स्वः आदित्यः सु अरणः । अन्तान् संगृह्योष्णीषेण बध्नाति । प्रजाभ्यस्त्वाम् । बध्नामीति शेषः । उत्पत्तये स्थितये च प्रजानां हे सोम, त्वां बध्नामि । अङ्गुल्या मध्ये विवृणोति । प्रजास्त्वानुप्राणन्तु। हे सोम, त्वां प्राणन्तमुच्छ्वसन्तम् । प्रजा अनुप्राणन्तु उच्छ्वसन्तु । त्वं च प्रजाः उच्छ्वसतीः अनुप्राणिहि अनूच्छ्वसिहि । 'तमयतीति वा एनमेतत्समायच्छन्नं प्राणमिव करोति तस्येतदतएव मध्यतः प्राणमुत्सृजति तं ततः प्राणन्तं प्रजा अनुप्राणन्ति' इत्यादि ब्राह्मणम् ॥ २५ ॥
म० 'सोमोपनहनं द्विगुणं चतुर्गुणं वा स्तृणाति प्राग्दशमुदग्वा तस्मिन्सोमं मिमीते दशकृत्वोऽभित्यमितीति' (का० ७ । ७ । १२-१३)। सावित्र्यष्टिः । त्यन्तं सवितारं देवमभ्यर्चामि सर्वतः पूजयामि । किंभूतं देवम् । ओण्योः द्यावापृथिव्योरन्तरा वर्तमानमिति शेषः । ओण्योरिति द्यावापृथिवीनामसु पठितम् । तथा कविक्रतुं कविः क्रतुः यस्य तं मेधाविकर्माणम् । सत्यसवं सत्यः सवो यस्य अवितथप्रेरणम् । तथा रत्नधां रत्नानि दधातीति रत्नधास्तं रत्नानां धारकं पोषकं दातारं वा अभिप्रियं सर्वतः प्रीतिविषयम् । मतिं मन्यत इति मतिस्तं मननयोग्यम् । कविं क्रान्तदर्शनम् । किंच यस्य सवितुर्भा दीप्तिः अमतिः केनापि मातुमशक्या सती ऊर्ध्वा गगनाभिमुखी सवीमन्यदिद्युतत् सवः प्रसवः प्रवृत्तिर्नक्षत्रादीनां यस्मिन् स सवीमा तस्मिन् गगनप्रदेशे सर्वाणि वस्तूनि द्योतयन्ते । यद्वायमर्थः । यस्यामतिरात्ममयी भा ऊर्ध्वा गगने सर्वमदिद्युतत् । अमाशब्द आत्मवचनः । आत्ममयी ततिर्मतिर्वा अमतिः । तन्यत | इति ततिः दीप्तिः । मतिरपि प्रकाशरूपत्वाद्दीप्तिः । अमाततिशब्दस्य वा अमतिभावः । सवितृभाविशेषणम् । आत्मप्रकाशमयी ततिर्मतिर्वा यस्य भाः अदिद्युतत् । किंनिमित्तम् । सवीमनि अनुज्ञानिमित्तं सर्वान् कर्माण्यनुज्ञातुमित्यर्थः । 'षु प्रसवैश्वर्ययोः' 'वृस्तृस्तुभ्य () इमनिच्' इतीमनिच् । गुणावादेशौ । सवीमा प्रसवोऽनुज्ञेत्यभिधानम् । स स्वरादित्यः । कृपा कल्पनं कृप् तया कृपा कल्पनया अमिमीत सोममिति शेषः । एतावान्सोम इति तदीयं परिमाणं निश्चितवानित्यर्थः । किंभूतः स्वः । हिरण्यपाणिः हिरण्यं पाणौ यस्य सौवर्णाभरणयुक्तहस्तः । सुक्रतुः साधुसंकल्पः । | 'अन्तान् संगृह्योष्णीषेण बध्नाति प्रजाभ्यस्त्वेतीति' (का. ७ । ७ । २०) । हे सोम, प्रजाभ्यः प्रजानामुपकाराय त्वा त्वां बध्नामीति शेषः । 'अङ्गुल्या मध्ये विवृणोति प्रजास्त्वानुप्राणन्त्वितीति' (का० ७ । ७ । २१) । उष्णीषेण बद्धस्य | सोमदेवस्य श्वासरोधो मा भूदिति विवरं कुर्यादिति सूत्रार्थः। | हे सोम, प्रजास्त्वामनुप्राणन्तु श्वासं कुर्वन्तं त्वामनुसृत्य सर्वाः प्रजाः श्वासं कुर्वन्तु जीवन्तु । तथा हे सोम, प्रजा अनु श्वासं कुर्वतीः प्रजा अनुसृत्य प्राणिहि श्वासं कुरु । प्रजानां तव च कदाचित् श्वासरोधो मा भूत् परस्परमनुसृत्य जीवनं भवत्वित्यभिप्रायेण विवरकरणमित्यर्थः ॥२५॥
 
षड्रिंशी।
शु॒क्रं त्वा॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न । स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॑ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॑: पर॒मेण॑ क्रीयसे सहस्रपो॒षं पु॑षेयम् ।। २६ ।।
उ० हिरण्यमालभ्य वाचयति । शुक्रं त्वा । हे सोम, शुक्रमक्लिष्टकर्माणं त्वां शुक्रेण हिरण्येन क्रीणामि । एवं सर्वमपि व्याख्येयम् । सोमविक्रयिणं हिरण्येनाभिकम्पयति। सग्मे ते गौः गौरिति विपरिणामः । सह गवा वर्तत इति सग्मो यजमानः । तव संबन्धिनी या गौः सा यजमाने वर्तत इति सोमक्रयिणं निराशं करोति । यजमानसहितं निदधाति । अस्मे ते। हे सोमक्रयिन् , अस्मासु तव संबन्धीनि हिरण्यानि वर्तन्ते । अजामालभ्य वाचयति । तपसस्तनूरसि तपसः प्रजापतेः हे अजे, तनूः शरीरं त्वमसि । प्रजापतेश्च वर्णः रूपं त्वमसि । सा यन्त्रिः संवत्सरस्य विजायते तेन प्रजापतेर्वर्णः । एवमजां सोमसमक्षमभिष्टुत्य अथेदानीं सोममाह । परमेण पशुना क्रीयसे त्वं हे सोम, सा यतस्त्रिः संवत्सरस्य विजायते तेन परमपशुः । यस्मात्त्वं परमेणोत्कृष्टेन पशुना क्रीयसे तस्मात्तव प्रसादादहम् सहस्रपोषं सहस्रं प्राणिनां यत्पुष्णाति धनं तदहं पुषेयं वर्धयेयम् । सहस्रप्राणिपोषो मम गृहे वर्धमानोस्तु इत्यभिप्रायः ॥ २६ ॥
म० 'शुक्रं त्वेति हिरण्यमालभ्य वाचयतीति' (का० ७।८।१६ ) हे सोम, शुक्रं दीप्यमानं त्वा त्वां शुक्रेण दीप्यमानेन हिरण्येन क्रीणामि क्रीतं करोमि । किंभूतं त्वाम् । चन्द्रं 'चदि आह्लादने' फलहेतुत्वेनाह्लादकरम् । तथा अमृतं स्वादुत्वेनामृतसमानम् । किंभूतेन शुक्रेण । चन्द्रेणाह्लादकरेण तथामृतेनाग्निसंयोगादिनापि विनाशरहितेन । 'सग्मे त इति सोमविक्रयिणᳪ हिरण्येनाभिकम्पयतीति' । (का० ७।८।१७) । यो हिरण्यमादाय सोमं विक्रीणीते तं हिरण्येनाभिकम्पयेत् । तद्धस्ते हिरण्यं दत्त्वा दत्त्वा स्वीकुर्वस्तं निराशं कुर्यादिति सूत्रार्थः । षष्ठी प्रथमार्थे । हे सोमविक्रयिन् , गौः सोममूल्यत्वेन तुभ्यं दत्ता सा त्वदीया गौः पुनः प्रत्यावृत्य सग्मे यजमाने तिष्ठतु । हिरण्यमेव तवास्तु गौर्मा भूदित्यर्थः । यद्वा ते गौः सग्मे वर्तते । गौः ग्मा क्षमा क्षा क्षामेत्युक्तेः ग्मा गौः तया सह वर्तमानः सग्मस्तस्मिन् सग्मे ते गोरिति । 'यजमाने ते गौः' (३ । ३ । ३ । ७) इति श्रुतेः । सग्मो यजमानः । 'अस्मे त इति यजमानसहितं निदधातीति' (का. ७।८।१८) । यजमाने प्रत्यर्पितं यद्गोद्रव्यं तत्पुनर्यजमानसहितं सोमविक्रयिणः पुरतो निदध्यादिति सूत्रार्थः । हे सोमविक्रयिन् , ते चन्द्राणि तुभ्यं दत्तानि यानि हिरण्यानि तान्यस्मे अस्मासु प्रत्यावृत्य तिष्ठन्तु । तव गौरेव सोममूल्यमस्तु हिरण्यानि मा भूवन्नित्यर्थः । 'अजां प्रत्यङ्मुखीमालभ्य वाचयति तपसस्तनूरितीति' (का. ७ । ८ । २०) । अर्धे अजा देवतास्य यजुषोऽर्धे सोमः । हे अजे, त्वं तपसः पुण्यस्य तनूरसि देहोऽसि । दिवि स्थितस्य यज्ञियस्यानयनायाजां गृहीत्वा गायत्री जगामेति तित्तिरिणा सोमाहरणोपाख्याने उक्तत्वादजायाः पुण्यशरीरत्वम् । किंच हे अजे, त्वं प्रजापतेर्वर्णोऽसि । वर्णों देहः । यथा प्रजापतिः सर्वदेवताप्रिय एवमजापि । तदुक्तं तित्तिरिणा 'सा वा एषा सर्वदेवत्या यदजा' इति । एवमजामुक्त्वा सोमं प्रत्याह । हे सोम, परमेण पशुना उत्तमेनाजालक्षणेनानेन पशुना त्वं क्रीयसे । तपसस्तनूत्वादजाया उत्तमत्वम् । अतस्तव प्रसादात्सहस्रपोषं पुत्रपश्वादिसहस्राणां पोषो यथा भवति तथा पुषेयं पुष्टो भूयासम् । यद्वायमर्थः । हे अजे, त्वं प्रजापतेस्तपसस्तनूरसि प्रजापतितपोरूपासि तत उत्पन्नत्वात् । तदुक्तं श्रुत्या 'तपसो ह वा एषा प्रजापतेः संभूता यदजेतिः (३ । ३ । ३ । ८) । किंच प्रजापतेर्वर्णो रूपं त्वमसि । त्रिगुणत्वात्प्रजापतेस्त्रिरूपत्वम् । अजापि प्रतिसंवत्सरं त्रिवारं प्रसूते तस्मात्प्रजापतेर्वर्णत्वम् । तदुक्तं श्रुत्या 'सा यत्त्रि' संवत्सरस्य जायते तेन प्रजापतेर्वर्णः' ( ३ । ३ । ३ । ९) इति । एवमजां स्तुत्वा सोममाह । परमेणोत्कृष्टेन पशुनाजया त्वं क्रीयसे ततोऽहं सहस्रपोषं सहस्रं प्राणिनां पुष्णातीति सहस्रपोषं धनं पुषेयं पुष्णीयाम् । वर्धयेयमित्यर्थः । पुष्णातेर्व्यत्ययेन शेप्रत्यये लिङि पुषेयमिति रूपम् ॥ २६ ॥
 
सप्तविंशी।
</span></poem>
मि॒त्रो न॒ एहि॒ सुमि॑त्रध॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त॑ᳪ स्यो॒नः स्यो॒नम् । स्वान॒ भ्राजा॑ङ्घारे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते व॑: सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन् ।। २७ ।।
उ० सोममादत्ते । मित्रो न एहि । हे सोम, मित्रस्त्वं सन्नोऽस्मानप्येहि । मित्रशब्देनेहादित्यो गृह्यते पुंलिङ्गार्थात् । सुमित्रधः शोभनानि मित्राणि दधाति पुष्णातीति सुमित्रधः । यस्त्वं सुमित्रधः । यजमानस्य दक्षिण ऊरौ निदधाति इन्द्रस्योरुम् । स इन्द्रस्य यजमानस्य ऊरुं दक्षिणं आविश उपविश । 'एष वा अत्रेन्द्रो भवति यद्यजमानः' इति श्रुतिः । उशन्नुशन्तम् । 'वश कान्तौ' । कामयमानस्त्वं कामयमानमेव यजमानस्योरुमाविश इत्यनुवर्तते । स्योनः स्योनम् । स्योनमिति सुखनाम । सुखरूपस्तं सुखरूपम् । यजमानस्योरुमाविश इत्यनुवर्तते । एवं परस्परप्रीत्या अवियुक्तौ भवेतामित्यभिप्रायः । सोमक्रयणाननुदिशति । स्वान भ्राज । सप्तदशानां मध्यात्सप्त तावत्सोमक्रयणाननुदिशति । हे स्वान, भ्राज अङ्घारे बम्भारे हस्त सुहस्त कृशानो । एवं सप्तधिष्णान् संबोध्य अथेतरानाह । एते वः सोमक्रयणाः । एते वः युष्माकं मध्ये तावत् सोमक्रयणाः तान्रक्षध्वम् गोपायत । धिष्ण्यान् मा वो दभन् एते होतृका अपि स्वानभ्राजादयः युष्मान् मा दभन् । दभ्नोतिर्हिंसाकर्मा । मा युष्मान्दभ्नुयुः ॥ २७ ॥
म० 'सव्येनाजां प्रयच्छन्मित्रो न इति दक्षिणेन सोममादायेति' ( का० ७ । ८ । २१)। सौम्यम् । हे सोम, त्वं नोऽस्मान् प्रत्येहि आगच्छ । किंभूतस्त्वम् । मित्रः सखा, प्रीतियुतः । यद्वा मित्रः रविरूपः । तथा सुमित्रधः शोभनानि मित्राणि दधाति पुष्यतीति सुमित्रधः । क्रीत्वा वाससा बद्धस्य सोमस्य वरुणदेवताकत्वेन क्रूरत्वात्तच्छान्त्यर्थो मित्रत्वेन प्रार्थ्यते । तदाह तित्तिरिः 'वारुणो वै क्रीतः सोम उपनद्धो मित्रो न एहि सुमित्रध इत्याह शान्त्यै' इति । 'दीक्षितोरौ दक्षिणे प्रत्युह्य वासो निदधातीन्द्रस्योरुमितीति' (का० ७। ८ । २३ ) । वासः प्रत्युह्य वस्त्रमुपरिस्थाप्य सोमं निदध्यादित्यर्थः । यजमानरूपेण परमैश्वर्येणोपेतत्वादत्रेन्द्रशब्देन यजमानः । तथा च श्रुतिः ‘एष वा अत्रेन्द्रो भवति यद्यजमानः' (३।३।३।१०) इति । हे सोम, त्वमिन्द्रस्य यजमानस्य दक्षिणमूरुमाविश । दक्षिणे ऊरावुपविशेत्यर्थः । किंभूतस्त्वम् । उशन् ‘वश कान्तौ' वष्टि उशन् शतृप्रत्ययः । ऊरुं कामयमानः । तथा स्योनः सुखभूतः । किंभूतमूरुम् । उशन्तं सोमं कामयमानं स्योनमुपवेशे सुखकरम् । पुरा देवाः सोमं क्रीतमिन्द्रस्योरावुपवेशयन् तस्मादत्रेन्द्रशब्देन यजमानः । तदाह तित्तिरिः 'देवा वै सोममक्रीणंस्तमिन्द्रस्योरौ दक्षिण आसादयन् स खलु वा एतर्हीन्द्रो यो यजते तस्मादेवमाह' इति । 'स्वान भ्राजेति जपति सोमविक्रयिणमीक्षमाणः' (का० ७।८।२४) इति । स्वनतीति स्वानः । भ्राजते शोभतेऽसौ भ्राजः । अङ्घस्य पापस्यारिरङ्घारिः । बिभर्ति पुष्णाति विश्वमिति बम्भारिः । हसति हस्तः सर्वदा हृष्टरूपः । शोभनौ हस्तौ यस्य सुहस्तः । कृशं दुर्बलमनिति जीवयतीति कृशानुः । स्वानादयः सप्त सोमरक्षका देवविशेषाः । हे स्वानादयः सप्त देवाः, वो युष्माकमेते सोमक्रयणाः सोमः क्रीयते यैस्ते सोमं क्रेतुमानीता हिरण्यादिपदार्थाः पुरतः स्थापिताः । तान्पदार्थान् यूयं रक्षध्वमवत । वो युष्मान्मा दभन् वैरिणो मा हिंसिषत । स्वानादयो धिष्ण्याधिष्ठातारः सोमरक्षकाः । तदाह तित्तिरिः 'स्वान भ्राजेत्याह ते चामुष्मिँल्लोके सोममरक्षन्' इति ॥ २७ ॥
 
अष्टाविंशी।
परि॑ माग्ने॒ दुश्च॑रिताद्बाध॒स्वा मा॒ सुच॑रिते भज । उदायु॑षा स्वा॒युषोद॑स्थाम॒मृताँ॒२ अनु॑ ।। २८ ।।
उ० गृहीतसोमं वाचयति । परि माग्ने । आग्नेयी पुरस्ताद्बृहती । हे भगवन्नग्ने, परिबाधस्व परित्रायस्व मां दुश्चरितात्पापाचरणात् । आभज माम् आसेवस्व मां सुचरिते वर्तमानम् । उत्तिष्ठति । उदस्थाम् उत्तिष्ठामि आयुषा निमित्तभूतेन चिरंजीवनाय स्वायुषा निमित्तभूतेन शोभनेन प्रकारेण दानहोमयागादिभिः । येनास्मदीयमायुर्यात्यनेन च हेतुना उदस्थाम् उत्तिष्ठामि च । अमृतान् देवाननु अतः परिमाग्ने दुश्चरिताद्बाधस्वेति संबन्धः । अमृतशब्देनात्र बहुवचनान्तेन सोमोऽभिधीयते । आगते सोमे दीक्षित उत्तिष्ठति । तस्यैषा प्रायश्चित्तिः ॥ २८ ॥
म० 'गृहीतसोमं परि माग्न इति वाचयतीति' ( का० ७ । ९ । १) । अग्निदेवत्या पुरस्ताद्बृहती । यस्या आद्यो द्वादशाक्षरस्त्रयोऽष्टाक्षराः पादाः सा पुरस्ताद्बृहती । 'आद्यश्चेत्पुरस्ताद्बृहती' इत्युक्तेः । हे अग्ने, दुश्चरितात्पापान्मा मां परिबाधस्व परितो निवारय । मे पापे प्रवृत्तिर्मा भूदित्यर्थः ।| सुचरिते शोभने चरिते सदाचाररूपे पुण्ये मा मां यजमानमाभज सर्वतो भज स्थापयेत्यर्थः (का० ७।९।३)। उदायुषेत्युत्थानमिति । उदायुषा उत्कृष्टेन चिरजीवनलक्षणेनायुषा निमित्तेन तथा स्वायुषा यागदानादिना शोभनेनायुषा निमित्तभूतेन अमृताननु सोमादिदेवाननुसृत्य उदस्थामहमुत्थितवानस्मि । तिष्ठतेर्लुङि रूपम् ॥ २८ ॥
 
एकोनविंशी। ।
</span></poem>
प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म् । येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ।। २९ ।।
उ० अनोऽभ्येति प्रति पन्थाम् । अनुष्टुप् । पन्थानं स्तौति । प्रत्यपद्महि प्रतिपद्येमहि पन्थानम् । स्वस्तिगाम् - अविनाशेन यत्र गम्यते तं स्वस्तिगाम् । अनेहसम् । एह इत्यपराधनाम । न विद्यते यत्र गतानामपराधः स तथोक्तः । किंच । येन पथा गच्छन् विश्वाः सर्वाः परिवृणक्ति परिवर्जयति । 'वृजी वर्जने' । द्विषः दुष्टान् । किंच विन्दते वसु लभते धनम् ॥ २९॥ ।
म० 'शीर्ष्णि सोमं कृत्वा पाणिमन्तर्धाय प्रतिपन्थामित्यनोऽभ्येतीति' (का० ७ । ९ । ४) । शकटमभिलक्ष्य गच्छेदित्यर्थः । अनुष्टुप्पथिदेवत्या । पन्थानं स्तौति । पन्थां पन्थानं मार्गं प्रत्यपद्महि वयं प्रत्यपद्यामहि प्रतिपन्नाः । प्राप्ता अभूमेत्यर्थः । ‘पद गतौ' इत्यस्य व्यत्ययेन शपि लुप्ते लङि रूपम् । विभक्तेः पूर्वसवर्ण पन्थामिति रूपम् । किंभूतं पन्थानम् । स्वस्तिगां स्वस्ति क्षेमेण गम्यते यत्र स स्वस्तिगास्तं क्षेमेण गन्तुं योग्यम् । गमेर्विटि प्रत्यये 'विड्वनोरनुनासिकस्यात्' (पा० ६ । ४ । ४१) इति मकारस्याकारे रूपम् । | तथा अनेहसम् एहः पापरूपश्चोरादिबाधस्तद्रहितम् । यद्वा 'एह इत्यपराधनाम । यत्र गतानामपराधो नास्ति । येन पथा गच्छन्पुरुषो विश्वाः विश्वान्सर्वान् द्विषो द्वेषिणश्चोरादीन् परिवृणक्ति परितो वर्जयति । 'वृजी वर्जने' रुधादिः । वसु विन्दते धनं च लभते तं पन्थानमिति पूर्वत्रान्वयः । 'विद्लृ लाभे' ॥ २९ ॥
 
त्रिंशी।
अदि॑त्या॒स्त्वग॑स्यदि॑त्यै॒ सद॒ आसी॑द । अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
आऽसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ।। ३० ।।
उ० कृष्णाजिनमास्तृणाति । अदित्यास्त्वगसि । व्याख्यातः शेषः । सोमं निदधाति । अदित्यै सदः स्थानमासीत् । सोममालभ्य वाचयति । अस्तभ्नाद्द्याम् त्रिष्टुभौ वारुण्यौ । योऽयं वृषभः वर्षिता अस्तभ्नाद्द्याम् स्तम्भित
 
 
Line ३२७ ⟶ ३६७:
 
 
 
</span></poem>
 
 
 
 
 
 
 
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्