"शुक्लयजुर्वेदः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६१:
अदि॑त्या॒स्त्वग॑स्यदि॑त्यै॒ सद॒ आसी॑द । अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
आऽसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ।। ३० ।।
उ० कृष्णाजिनमास्तृणाति । अदित्यास्त्वगसि । व्याख्यातः शेषः । सोमं निदधाति । अदित्यै सदः स्थानमासीत् । सोममालभ्य वाचयति । अस्तभ्नाद्द्याम् त्रिष्टुभौ वारुण्यौ । योऽयं वृषभः वर्षिता अस्तभ्नाद्द्याम् स्तम्भितस्तम्भितवान् द्युलोकम् । यश्चान्तरिक्षं अस्तभ्नात् । यश्चामिमीत वरिमाणं पृथिव्याः । मिमीते वरिमाणं गुरुत्वं पृथिव्याः । यश्च सम्राट् देवताविशेषः। आसीदद्विश्वा भुवनानि । आसीदति हि सर्वाणि भूतजातानि आत्मत्वेनाधिपत्येन च । विश्वेत्तानि । इच्छब्द एवार्थे । सर्वाण्येवैतानि वरुणस्य व्रतानि कर्माणि । ये इमान् लोकान् स्तभ्नुवन्ति ये च सर्वजनानाविशन्ति तेऽपि च वरुणाज्ञां कुर्वन्तीति परब्रह्मरूपेण वरुणस्य स्तुतिः ॥ ३० ॥
म० 'कृष्णाजिनमस्मिन्नास्तृणात्यदित्यास्त्वगितीति' (का० ७।९।१) । अस्मिन् शकटे इत्यर्थः । हे कृष्णाजिन, त्वमदित्यास्त्वगसि अखण्डितायाः पृथिव्याः त्वग्रूपं भवसि । 'तस्मिन्सोमं निदधात्यदित्यै सद इतीति' (का० ७।९। १)। हे सोम, त्वमदित्यै सदः अदितेर्भूमेः संबन्धि स्थानमासीद सर्वतः प्राप्नुहि । तत्रोपविशेत्यर्थः । 'अस्तभ्नाद्द्यामिति सोममालम्भ्य वाचयतीति' (का० ७।९।८)। हे वरुणदेवते त्रिष्टुभौ । क्रीतसोमस्य वरुणदेवतत्वाद्वरुणो ब्रह्मरूपेण स्तूयते । वृषभः श्रेष्ठो वरुणो द्यामस्तभ्नात् द्युलोको यथा न पतति तथा स्वकीययाज्ञया स्तम्भितवान् । तथान्तरिक्षमप्यस्तभ्नात् । तथा पृथिव्या वरिमाणं भूमेरुरुत्वममिमीत मिमीते । उरोर्भावो वरिमा तम् । एतावती भूरिति परिमाणं जानातीत्यर्थः । तथा सम्राट् सम्यग्राजमानो वरुणो विश्वा विश्वानि सर्वाणि भुवनानि आसीदत् लोकान्व्याप्नोति । विश्वा विश्वानि सर्वाणि । इत् एवार्थे । सर्वाण्येव वरुणस्य व्रतानि कर्माणि । यद्वा इदित्यव्ययमित्थमर्थे । इदित्थं तानि द्युलोकस्तम्भनादीनि वरुणस्य व्रतानि व्रतवन्नियतानि । सर्वदा तानि करोतीत्यर्थः ॥ ३० ॥
 
एकत्रिंशी।
वने॑षु॒ व्यन्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु । हृ॒त्सु क्रतुं॒ वरु॑णो वि॒क्ष्व॒ग्निं दि॒वि सूर्य॑मदधा॒त् सोम॒मद्रौ॑ ।। ३१ ।।
उ० वनेषु वि । वीत्ययमुपसर्गस्ततानेत्यनेन संबध्यते । यो वरुणः वनेषु वृक्षाग्रेषु वि ततान वितनोत्यन्तरिक्षमाकाशम् । यद्यपि सर्वगतमन्तरिक्षं तथापि तत्र मूर्तद्रव्याभावादुपलभ्यत एव । वाजमर्वत्सु । 'वीर्यं वै वाजः पुमाᳪसोऽर्वन्तः' इति श्रुतिः। वाजं वीर्यम् । अर्वत्सु पुरुषेषु । ततानेत्यनुवर्तते । पय उस्रियासु । उस्रियासु गोषु पयो विततान । हृत्सु क्रतुम् । क्रतुः संकल्पः । हृदयेषु संकल्पं विततान । विक्ष्वग्निम् प्रजास्वग्निं विततान । दिवि द्युलोके सूर्यमदधात् स्थापितवान् । सोममद्रौ । अद्रिषु सोमं स्थापितवान् । य एवं परब्रह्मलक्षणो वरुणस्तं वयं स्तुम इति शेषः ॥३१॥
म० 'वनेषु व्यन्तरिक्षमिति सोमपर्याणहनेन परितत्येति' (का० ७ । ९ । ९) । बन्धनहेतुना वस्त्रेण परितो वेष्टयित्वेत्यर्थः । वि उपसर्गस्ततानेत्यनेन संबध्यते । वरुणो वनेषु वनगतवृक्षाग्रेषु अन्तरिक्षमाकाशं विततान । यद्यपि सर्वगतमन्तरिक्षं तथापि तत्र मूर्तद्रव्याभावादत्यन्तं विस्तारितवान् । तथा अर्वत्सु अश्वेषु वाजं बलं विततानेत्यनुवर्तते । यद्वा अर्वत्सु पुरुषेषु वाजं वीर्यं विततान । 'वीर्यं वै वाजः पुमाᳪसोऽर्वन्तः' (३।३।४।७) इति श्रुतेः । तथा उस्रियासु पयः क्षीरं विततान । उस्रियाशब्दो गोनाममु पठितः । हृत्सु हृदयेषु क्रतुं संकल्पं तच्छक्तियुतं मनो विततान । विक्षु प्रजासु अग्नि जठराग्निम् । दिवि द्युलोके सूर्यं विततान । अद्रौ पर्वते सोमं वल्लीरूपमदधात्स्थापितवान् । पर्वतपाषाणसंधिषु सोमवल्ल्या उत्पद्यमानत्वादद्रौ सोमस्थापनमुक्तम् । तदाह तित्तिरिः । 'सोममद्रावित्याह ग्रावाणो वा अद्रयस्तेषु वा एष सोमं निदधाति' इति । य एव मन्त्रद्वयोक्तद्युलोकस्तम्भनादिसामर्थ्यवान्परब्रह्मलक्षणो वरुणस्तं वयं स्तुम इति शेषः ॥ ३१ ॥
 
द्वात्रिंशी।
सूर्य॑स्य॒ चक्षु॒रारो॑हा॒ग्नेर॒क्ष्णः क॒नीन॑कम् । यत्रै॑त्रशेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑ ।। ३२ ।।
उ० कृष्णाजिनं सोमस्य चिह्नं करोति । सूर्यस्य चक्षुः । अनुष्टुप् । कृष्णाजिनमुच्यते । सूर्यस्य संबन्धि चक्षुः आरोह । तथाभ्युच्छ्रितं भव यथा सूर्यश्चक्षुषा पश्यतीत्यभिप्रायः । अग्नेश्चक्षुः कनीनकमारोह । यत्रैताभ्यां दृष्टो लक्षितः । एतशेभिः एतश इति अश्वनामसु पठितम् । एतशैरश्वैः ईयसे नीयसे । भ्राजमानः देदीप्यमानः । विपश्चिता सूर्येण सहितः । अग्निना वा विपश्चिता सहितः ॥ ३२ ॥
म० 'कृष्णाजिनं पुरस्तादासजति सूर्यस्य चक्षुरितीति' ( का० ७ । ९ । ९) कृष्णाजिनदेवत्यानुष्टुप् । हे कृष्णाजिन, त्वं सूर्यस्य चक्षुर्नेत्रं आरोह । तथा अग्नेर्वह्नेरक्ष्णो नेत्रस्य कनीनकं तारकां चारोह । तथोच्चैस्तरांभव यथैताभ्यां दृश्यस इत्यर्थः । यत्र यस्मिन्नेतयोर्दर्शने विपश्चिता विदुषा सर्वज्ञेन सूर्येणाग्निना च भ्राजमानः दीप्यमानः सन्नेतशेभिरेतशैरश्वैस्त्वमीयसे गच्छसि । एतश इत्यश्वनामसु पठितम् । यत्र त्वमश्वैर्गच्छसि । 'ई गतौ' दिवादिरात्मनेपदी । एतशैरिति करणेतृतीया । यद्वा कर्मणि रूपम् । एतशैरिति कर्तरि तृतीया। यत्राश्वैस्त्वं नीयस इत्यर्थः । कृष्णाजिनस्य पुंस्त्वमार्षम् । सूत्राग्निदृष्टिविषयत्वे सति मार्गो रक्षोबाधरहितो भवति । तदुक्तं तित्तिरिणा 'एष वास्य खलु रक्षोहणः पन्था योऽग्नेश्च सूर्यस्य च' इति ॥ ३२ ॥
 
त्रयस्त्रिंशी।
उस्रा॒वेतं॑ धूर्षाहौ यु॒ज्येथा॑मन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ । स्व॒स्ति यज॑मानस्य गृ॒हान् ग॑च्छतम् ।। ३३ ।।
उ० अनड्वाहौ युनक्ति । उस्रावेतम् । ऊर्ध्वबृहती। हे उस्रौ अनड्वाहौ आ इतम् आगच्छतम् । एत्य च स्वयमेव युज्येथाम् योगं कुरुतम् । हे धूर्षाहौ । 'षह मर्षणे' । धुरं सोढुं यौ शक्नुतस्तौ तथोक्तौ । अनश्रू अश्रुरहितौ हृष्टावित्यर्थः । अवीरहणौ । वीराणां यौ युवां वधं न कुरुतं ताववीरहणौ । प्रशस्तावित्यर्थः । ब्रह्मचोदनौ ब्राह्मणान् यज्ञं प्रति प्रेरयितारौ । एवमनड्वाहौ संबोध्य अथेदानीं प्रयोजनमाह । स्वस्ति अविनाशेन यजमानस्य गृहान् गच्छतम् ॥३३॥
म० 'अनड्वाहौ युनक्त्युस्रावेतमितीति' (का० ७ । ९ । ११)। आनडुही ऊर्ध्वबृहती । यस्यास्त्रयः पादा द्वादशाक्षराः सोर्ध्वबृहती । 'त्रिजागतोर्ध्वबृहती' इत्युक्तेः । अत्राद्यो दशार्णः द्वितीयस्त्रयोदशार्णस्तेनैकोना । हे उस्रौ अनड्वाहौ, युवामेतमागतम् । एत्य च स्वयमेव युज्येथां रथे युक्तौ भवतम् । किंभूतौ युवाम् । धूर्षाहौ धुरं सहेते तौ धूर्षाहौ शकटधुरं वोढुं समर्थौ । तथा अनश्रू नेत्रयोरश्रुरहितौ । सोत्साहावित्यर्थः । अवीरहणौ न वीरान्हतस्तौ । शृङ्गादिभिर्वीराणां शिशूनां हननमकुर्वाणौ । ब्रह्मचोदनौ ब्रह्मणो विप्रान् चोदयतस्तौ ब्राह्मणानां यज्ञप्रति प्रेरकों । एवं संबोध्य प्रयोजनमाह । तथाविधौ युवां स्वस्ति क्षेमेण यजमानस्य गृहान्प्रति गच्छतम् ॥ ३३ ॥
 
चतुस्त्रिंशी।
भ॒द्रो मे॑ऽसि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि । मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् मा त्वा॒ वृका॑ अघा॒यवो॑ विदन् । श्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य गृ॒हान् ग॑च्छ॒ तन्नौ॑ सᳪस्कृ॒तम् ।। ३४ ।।
उ० वाचयति । भद्रो मेऽसि । 'भदि कल्याणे सुखे च' । सोम उच्यते । भन्दनीयः स्तुत्यः यतस्त्वं मे मम भवसि अतो ब्रवीमि । प्रच्यवस्व । 'च्युङ् छुङ् जिङ् किङ् प्रुङ् कुच् सैङ् गाङ् गतौ' । गच्छ । भुवस्पते भूतजातस्य पते । विश्वान्यभिधामानि सर्वाणि स्थानानि पत्नीशालाहविर्धानप्रभृतीनि । किंच त्वां प्रच्यवमानं माविदन् मा जानन्तु । परिपरिणः परिणेतारो दुर्जनाः । मा च त्वां परिपन्थिनः सर्वतः पन्थानं ये तिष्ठन्ति ते विदन् । मा च त्वां वृका अघायवो विदन् । वृका विकर्तनशीलाः । अघायवः अघं पापं ये परस्य कर्तुमिच्छन्ति ते अघायवः ।। एते च त्वां गच्छन्तं मा जानन्तु । किंच त्वमपि श्येनो भूत्वा परापत श्येनरूपमवस्थायोत्पत । ततो यजमानस्य गृहान् गच्छ । तत् नौ आवयोः तव च मम च संस्कृतं सर्वोपकरणयुक्तं स्थानं विद्यते ॥ ३४ ॥
म० 'भद्रो म इति वाचयतीति' ( का० ७ । ९ । १९)। सौम्यं यजुः । हे सोम, मे मह्यं यजमानाय मदुपकारार्थं त्वं भद्रोऽसि कल्याणरूपोऽसि । 'भदि कल्याणे' । हे भुवः पते, भूशब्देन भूमौ स्थितानि भूतानि यजमानाध्वर्युप्रभृतीन्युच्यन्ते । तेषां भूतानां पालकत्वात्पतिः सोमः । तदाह तित्तिरिः 'प्रच्यवस्व भुवस्पत इत्याह भूतानाᳪ ह्येष पतिः' इति । तथाविध हे सोम, विश्वानि सर्वाणि धामान्यभि स्थानानि पत्नीशालाहविर्धानप्रभृतीनि अभिलक्ष्य प्रच्यवस्व प्रकर्षेण गच्छ । 'च्युङ् गतौ' । प्रच्यवमानं त्वा त्वां परिपरिणो मा विदन् मा जानन्तु । सर्वतः संचरन्तस्तस्करविशेषाः परिपरिण उच्यन्ते । तथा परिपन्थिनो यागस्य प्रतिषेधकाः शत्रवस्त्वां मा विदन् । 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (पा० ५।२। ८९) इति निपातावेतौ । तथा वृका विकर्तनशीला आरण्यश्वानो दुर्जना वा त्वां मा विदन् । किंभूता वृकाः । अघायवः परस्याघं कर्तुमिच्छन्ति ते अघायवः । 'सुप आत्मनः क्यच्' (पा० ३।१।८) इति क्यचि 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्याकारः । 'क्याच्छन्दसि' (पा० ३ । २ । १७०) इति क्यजन्तादुप्रत्ययः । किंच श्येनो भूत्वा श्येनरूपमास्थाय श्येनाख्यपक्षिवच्छीघ्रगामी वा भूत्वा परापत उत्पत । यजमानस्य गृहान् गच्छ । तत्तत्र यजमानगृहेषु नौ आवयोः तव मम च संस्कृतं सर्वोपकरणसंयुक्तं स्थानमस्तीति शेषः ॥ ३४ ॥
 
पञ्चत्रिंशी।
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तᳪ स॑पर्यत । दू॑रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शᳪसत ।। ३५ ।।
उ०. वाचयति । नमो मित्रस्य । सौरी जगती । ऋषिर्दृष्टार्थः । परब्रह्मरूपेणादित्यमवगम्य स्वं नमस्कारं कृत्वान्येषां कथयति । नमः सूर्याय । कथंभूताय । मित्रस्य वरुणस्य चक्षसे । मित्र आदित्यो वरुणश्च । उपलक्षणार्थं चैतत् । सर्वद्यावापृथिवीनिवासिलोकग्रहणार्थं वा तथैव श्रुतिः 'अयं वै लोको मित्रोऽसौ वरुणः' इति । चक्षसे द्रष्ट्रे ईश्वररूपेणाध्यक्षाय । महो देवाय तदृतᳪ सपर्यत । महते देवाय तत्सत्यं पूजयत हे ब्राह्मणाः । सपर्यतीत्यर्चाकर्मसु पठितम् । किंच दूरदृशे दूरेस्थितो दृश्यत इति दूरेदृक् । यद्वा अतीतानागतवर्तमानकालसंबन्धान् प्राणिनो दूरेऽवस्थितान्पश्यतीति दूरेदृक् । देवजाताय देवानुग्रहार्थं जातो देवजातः । यद्वा जाता देवा अस्मादिति देवजातः । निष्ठा 'वाहिताग्न्यादिषु' इति बहुव्रीहौ परनिपातः । केतवे ।। केतुरिति प्रज्ञानामसु पठितम् । प्रज्ञानत्वाय । विज्ञानघनानन्दस्वभावायेत्यर्थः । दिवस्पुत्राय द्युलोकाद्धि सूर्यो विजायते द्युलोकं वा बहुधा त्रायत इति दिवस्पुत्रः सूर्यः । सूर्याय शᳪसत । 'शंसु स्तुतौ' । इत्थंस्वरूपाय सूर्याय ! स्तुतीरुच्चारयत । किमन्यैर्देवताविशेषैः ॥ ३५॥
म०. 'शालां पूर्वेण प्रतिप्रस्थाताग्नीषोमीयं पशुमादाय तिष्ठति कृष्णसारङ्गं मेध्यमभावे लोहितसारङ्गं नमो मित्रस्येत्येनमालभ्य वाचयति' (का० ७ । ९ । २१-२२) इति । सौरी जगती सूर्यदृष्टा । द्वादशाक्षरचतुःपादा जगती । अत्र मन्त्रे सूर्यरूपेण सोमः स्तूयते । एवंविधाय सूर्याय नमः । किंभूताय मित्रस्य वरुणस्य । चतुर्थ्यर्थे षष्ठ्यौ । मित्राय वरुणाय मित्रवरुणदेवतारूपेण वर्तमानाय । जगतां हितकारिणे । वृणोतीति वरुणः स्वरश्मिभिर्जगदावृण्वते । चक्षसे चष्टे इति चक्षास्तस्मै । चक्षुष्मते द्रष्ट्रे इत्यर्थः । यद्वायमर्थः मित्रस्य वरुणस्य चक्षसे सर्वजगतो द्रष्ट्रे । मित्रावरुणशब्देन सर्वं जगल्लक्ष्यते । तथा महो महसे तेजोरूपाय 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति विभक्तिलोपः । देवाय द्योतमानाय । तथा दूरदृशे दूरे वर्तमानैः प्राणिभिर्दृश्यत इति दूरेदृक् तस्मै । यद्वा दूरे पश्यतीति दूरेदृक् । देवजाताय देवाद् द्योतमानात्परमात्मनो जायतेऽसौ । देवानुग्रहाय जातो देवजात इति वा । जाता देवा यस्मात्स देवजात इति वा । 'वाहिताग्न्यादिषु' (पा. २ । २ । ३७) इति जातशब्दस्य परनिपातः । केतवे प्रज्ञारूपाय विज्ञानघनाय । केतुरिति प्रज्ञानाम । दिवस्पुत्राय द्युलोकस्य पुत्रवत्प्रियाय । द्युलोकाद्धि सूर्यो जायते । दिवः पुरु त्रायते इति दिवस्पुत्रः। दिवः पालकायेति वा । एवंविधाय सूर्याय तदृतं सत्यमवश्यफलप्रदज्योतिष्टोमरूपं कर्म हे ऋत्विजः, यूयं सपर्यतानुष्ठानेन सपर्यां कुरुत । सपर्यतिः परिचरणकर्मा (निघ० ३ । ५ । ३) सूर्यार्थं यज्ञं कुरुतेत्यर्थः । यद्वा तदृतं सूर्यरूपं सत्यं ब्रह्म सपर्यत परिचरत । किंच शंसत । 'शंसु स्तुतौ' सूर्यप्रीत्यर्थं स्तुतिं कुरुत । शस्त्राणि पठतेत्यर्थः । यागानुष्ठाने तस्यावश्यकत्वादित्यर्थः ॥ ३५ ॥
 
षट्त्रिंशी।
वरु॑णस्यो॒त्तम्भ॑नमसि वरु॑णस्य स्कम्भ॒सर्ज॑नी स्थो वरु॑णस्य ऋत॒सद॑न्यसि॒ वरु॑णस्य ऋत॒सद॑नमसि वरु॑णस्य ऋत॒सद॑न॒मा सी॑द ।। ३६ ।।
उ०. उत्तम्भनेनोपस्कभ्नाति । वरुणस्योत्तम्भनमसि । वरुणस्य त्वमुत्तम्भनं भवसि नतु शकटस्य । 'उदःस्थास्तम्भोः पूर्वस्य' इति स्तम्भनसकारस्य तकारः । शम्ये उद्वृहति । वरुणस्य स्कम्भसर्जनीस्थः । स्कभ्नोतिः स्कभ्नोतिना समानार्थः । 'अर्ज सर्ज अर्जने' । स्कम्भशब्देनात्र युगमुच्यते । तस्य सर्जनी वशीकरण्यौ स्कम्भसर्जनी वरुणस्य युवां स्कम्भसर्जनी शम्ये स्थः भवथः । आसन्दीमभिमृशति। वरुणस्य ऋतसदनी सत्यसदनी त्वं भवसि । कृष्णाजिनमस्यामास्तृणाति । वरुणस्य ऋतसदनमसि । वरुणस्य सत्यसदनं त्वं भवसि । सीदन्त्यस्मिन्निति सदनम् । तस्मिन्सोमं निदधाति । वरुणस्य ऋतसदनं सत्यसदनं । आसीद उपविश ॥ ३६॥
म० 'समीपेऽन उपस्थाप्योत्तम्भनेनोपस्तभ्नाति वरुणस्योत्तम्भनमितीति' (का० ७ । ९ । २५) । पञ्च यजूंषि वारुणानि । हे काष्ठ, त्वं वरुणस्योत्तम्भनमसि वस्त्रबद्धस्य सोमस्योन्नमनं भवसि नतु शकटस्येत्यर्थः । उतभ्यते शकटमुखाग्रमुन्नतत्वेन स्थाप्यते यस्मिन् काष्ठे तत्काष्ठमुत्तम्भनम् । 'शम्ये चोद्वृहति वरुणस्य स्कम्भसर्जनी स्थ इतीति' ( का० ७ । ९ । २६) । शकटयुगे बद्धयोर्बलीवर्दयोर्गलबहिर्भागे काष्ठनिर्मिते शम्ये स्थाप्येते । ताभ्यां वृषयोरितस्ततो गमनं निवार्यते ततस्ते स्कम्भसर्जनीशब्देनोच्यते । हे शम्ये, युवां वरुणस्य स्कम्भसर्जनी स्थः । 'स्कम्भ रोधने' । 'सर्ज अर्जने' स्कम्भनं स्कम्भो रोधः स सर्ज्यते क्रियते याभ्यां ते स्कम्भसर्जन्यौ । विभक्तेः पूर्वसवर्णः । व्रियते वेष्ट्यते वस्त्रादिनेति वरुणशब्देनात्र वस्त्रबद्धः सोम उच्यते । वरुणदैवतत्वाच्च पञ्चस्वपि मन्त्रेषु । 'औदुम्बरीमासन्दीं नाभिदघ्नामरत्निमात्राङ्गीमुता (१) माहरन्ति चत्वारोऽभिमृशन्त्येनां वरुणस्य ऋतसदन्यसीतीति' (का० ७ । ९ । २७-२८)। हे आसन्दि, त्वं वरुणस्य सोमस्य संबन्धिनी ऋतसदन्यसि ऋताय यज्ञाय सद्यते उपविश्यते यस्यां सा ऋतसदनी । 'करणाधिकरणयोः-' (पा० ३ । ३ । ११७) इति ल्युप्रत्ययः । ऋतं यज्ञस्तन्निष्पत्त्यर्थमुपवेशनस्थानभूतासीत्यर्थः । 'कृष्णाजिनमस्यामास्तृणाति वरुणस्य ऋतसदनमसीतीति' (का० ७।९।२९) हे कृष्णाजिन, वरुणस्य बद्धस्य सोमस्य ऋतसदनं यज्ञार्थमुपवेशनस्थानमसि । 'तस्मिन्सोमं निदधाति वरुणस्य ऋतसदनमासीदेतीति' (का. ७ । ९ । ३०) । हे सोम, त्वं वरुणस्य वस्त्रबद्धस्य तव ऋतसदनं यज्ञार्थमुपवेशनस्थानभूतमासंदीसंस्थितं कृष्णाजिनमासीद सुखेनोपविश ॥ ३६ ॥
 
सप्तत्रिंशी।
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् ।
ग॒य॒स्फ़ान॑: प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ।। ३७ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां चतुर्थोऽध्यायः।।४।।
उ० सोमं प्रवेशयन्वाचयति । या ते धामानि । सौमी त्रिष्टुप् । हे सोम, या ते धामानि । 'धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति' । यानि तव संबन्धीनि धामानि नामानि हविषा यजन्ति यष्टारः । ता ते विश्वाः तानि ते सर्वाणि । परिभूः । नपुंसकबहुवचनस्थाने पुंलिङ्गैकवचनम् । परिभूणि सर्वतो भवितॄणि । अस्तु । एतदपि बहुवचनं वाच्यसंयोगात् । सन्तु यज्ञं यज्ञं सर्वतो गृह्ये भवन्त्वित्यर्थः । यद्वा यज्ञशब्देन प्रथमान्तानि च धामानि तव विश्वानि नामानि यज्ञः परिभूः भवतु । यज्ञः परिगृह्य वर्ततामित्यर्थः । त्वं च । गयस्फानः गृहस्य पुत्रपशुभूहिरण्यादिभिर्वर्धयिता । प्रतरणः प्रतरन्ति येनापदः स प्रतरणः। सुवीरः शोभनवीरः । अवीरहा अहन्ता वीराणाम् । प्रचर इत्थंभूतस्त्वं परिभ्रम । सोम दुर्यान् गृहानस्मदीयान् ॥ ३७॥ इति उवटकृतौ मन्त्रभाष्ये चतुर्थोऽध्यायः ॥ ४ ॥
म० 'या त इति वाचयतीति' (का. ७ । ९ । ३२) । सोमदेवत्या त्रिष्टुप् गोतमदृष्टा । हे सोम, ते तव यां यानि धामानि प्रातःसवनादीनि स्थानानि प्राप्येति शेषः । हविषा त्वदीयरसरूपेण यजन्ति ऋत्विजो यागं कुर्वन्ति । यज्ञमभिलक्ष्येति शेषः । ते तव ता तानि विश्वा विश्वानि सर्वाणि स्थानानि परिभूरस्तु । परितो भवति प्राप्नोतीति परिभूः । 'भू प्राप्तौ' । भवान् परितः प्राप्तवान् भवतु । ऋत्विजो येषु स्थानेषु यजन्ति तानि त्वं प्राप्नुहीत्यर्थः । यद्वा ऋत्विजो यानि धामानि प्राप्य यजन्ति तानि सर्वाणि ते तव यज्ञं परिभूरस्तु यज्ञं परितो भवितॄणि यज्ञव्यापकानि सन्तु । नपुंसकबहुवचनस्थाने पुंलिङ्गैकवचनमार्षम् । किंच हे सोम, त्वं दुर्यान् गृहान् प्रचर प्राप्नुहि । दुर्या इति गृहनाम 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५.) इति संहितायां प्रचरेति दीर्घः । किंभूतस्त्वम् । गयस्फानः गय इति गृहनाम । (निघ० ३ । ४ । १)। 'स्फायी वृद्धौ । गयान्स्फाययतीति गयस्फानः गृहाभिवर्धकः । प्रतरणः प्रकर्षेण तरन्त्यापदो येन स प्रतरणः । यद्वा प्रतारयति यज्ञपारं प्रापयतीति प्रतरणः । सुवीरः शोभनास्त्वत्प्रसादलब्धा वीरा अस्मत्पुत्रपौत्रा यस्य तव स त्वं सुवीरः । अवीरहा न वीरान्हन्तीति । वीराणां परिपालक इत्यर्थः ॥ ३७ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे। शालागमाद्वाचनान्तश्चतुर्थोऽध्याय ईरितः ॥ ४ ॥
 
 
</span></poem>
 
 
 
</span></poem>
 
 
</span></poem>
 
 
 
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्