"शुक्लयजुर्वेदः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१६:
 
चतुर्थी।
चचि॒त्पति॑र्माचि॒त्पति॑र्मा पुनातु वा॒क्पति॑र्मा पुनातु दे॒वो मा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
तस्य॑ ते पवित्रपते प॒वित्र॑पूतस्य॒ यत्का॑मः पु॒ने तच्छ॑केयम् ।। ४ ।।
उ०. कुशपवित्रैः पावयति । चित्पतिर्मा पुनातु । 'चिती संज्ञाने' । अस्य चित् विज्ञानात्मा मनो वाभिधीयते । चित्पतिर्मा पुनातु ।'प्रजापतिर्वै चित्पतिः' इति श्रुतिः। वाक्पतिः। 'प्रजापतिर्वै वाक्पतिः' इति श्रुतिः । देवो मा सविता पुनातु । अच्छिद्रेणेति व्याख्यातम् । तस्य ते पवित्रपते । तस्य पवित्रपूतस्येति च षष्ठ्यन्तयोः संबन्धः । यजमानवाचित्वं च । तस्य मम पवित्रपूतस्य सतः । ते तव प्रसवे वर्तमानस्य हे पवित्रपते देव सवितः, एतद्भवतु । यस्कामः अहमात्मानं पुने पावयामि । तच्छकेयम् तच्छक्नुयाम् । 'यज्ञस्योदञ्चं गच्छामि' इति श्रुतिः । अच्छिद्रेणेत्येवमादित्रयाणामनुषङ्गो योज्यः ॥ ४ ॥
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्