"शुक्लयजुर्वेदः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६०:
इन्द्रस्य योनिर् असि ।
सुसस्याः कृषीस् कृधि ।
उच् छ्रयस्व वनस्पत ऽūर्ध्वोऽऊर्ध्वो मा पाह्य् अꣳहसऽ आस्य यज्ञस्योदृचः ॥
 
4.11
पङ्क्तिः २००:
तत्र प्रथमा।
एदम॑गन्म देव॒यज॑नं पृथि॒व्या यत्र॑ दे॒वासो॒ अजु॑षन्त॒ विश्वे॑ । ऋ॒क्सा॒माभ्या॑ᳪ सं॒तर॑न्तो॒ यजु॑र्भी रा॒यस्पोषे॑ण॒ समि॒षा म॑देम । इ॒मा आप॒: शमु॑ मे सन्तु दे॒वी रोष॑धे॒ त्राय॑स्व॒ स्वधि॑ते मैन॑ᳪ हिᳪसीः ।। १ ।।
उ० एदमगन्म।आग्निष्टोमिका मन्त्रा अवभृथपर्यन्ताः। प्रजापतेरार्षम् । द्वे अप्येते ऋचौ अत्यष्टी त्र्यवसाने । शालस्तम्भमन्वारभ्य यजमानो जपति । द्वावर्धर्चौ देवयजनदैवत्यौ । आ इदम् एदं देवयजनम् अगन्म वयम् आगताः स्मः। पृथिव्या उत्कृष्टम् । यत्र यस्मिन्देवयजने । देवासः देवा एव देवासः । 'आज्जसेरसुक्' । अजुषन्त । 'जुषी प्रीतिसेवनयोः' । सेवितवन्तः कामान् । विश्वे सर्वे तमागत्य देवयजनम् । ऋक्सामाभ्यां प्लवभूताभ्यां यज्ञसमुद्रं सन्तरन्तः यजुर्भिश्च रायस्पोषेण धनस्य पुष्ट्या निमित्तभूतया इषा अन्नेन च संमदेम हृष्येमहि तुष्येमहि । उन्दति । इमा आपः शमु मे सन्तु देवीः । शमिति सुखनाम । उ इति पादपूरणे । इमा आपः सुखरूपा मम भवन्तु । देव्यो दानादिगुणयुक्ताः । अपां वज्रश्रुतौ वज्रसंस्तवेऽतः शमाशास्यते । कुशतरुणमन्तर्दधाति । ओषधे त्रायस्व । त्रायतिः पालनार्थः।हे ओषधे, पालय एनं यजमानं क्षुरात् । क्षुरस्यापि वज्रसंबन्धः। शुरेणाभिनिदधाति क्षुरेणाभिनिदधाति । स्वधिते मैनᳪ हिᳪसीः । स्वधितिर्वज्रः । वज्रकर्म कुर्वन्नवज्रोऽपि वज्रमुच्यते । हे स्वधिते, मा एनं हिंसीः ॥१॥
म० आधानाग्निहोत्राग्न्युपस्थानचातुर्मास्यमन्त्रास्तृतीयाध्याये प्रोक्ताः । चतुर्थाध्यायमारभ्याष्टमस्य द्वात्रिंशत्कण्डिकापर्यन्तमग्निष्टोममन्त्रा उच्यन्ते । तेषां प्रजापतिर्ऋषिः । तत्र चतुर्थे यजमानसंस्कारपूर्वकं सोमक्रयमन्त्राः प्राधान्येनोच्यन्ते । तत्रादौ यजमानः षोडशर्त्विजो वृत्वारण्योरग्नी समारोप्य शालां गच्छेत् । तथा च 'समारोह्याग्नी शालास्तम्भं पूर्वार्धं गृहीत्वारणिपाणिराहेदमगन्मेति' (का० ७।१।३६) । द्वे अत्यष्टी त्र्यवसाने । तयोः कण्डिकयोः सप्त मन्त्राः । आद्यावर्धर्चौ देवयजनदेवत्यौ ॥ आ इदम् अगन्मेति पदानि । 'व्यवहिताश्च' (पा. १ । ४ । ८२) इति उपसर्गक्रियापदयोर्व्यवधानम् । इदमिति हस्तेन प्रदर्श्यते । वयमिदं पृथिव्याः संबन्धि देवयजनं देवा इज्यन्ते यस्मिंस्तद्देवयजनं स्थानम् आ अगन्म आगताः स्मः । गच्छतेर्लङ्युत्तमबहुवचने व्यत्ययेन शपो लुकि 'मो नो धातोः' (पा० ८।२। ६४) इति मस्य नः अडागमश्च । इदं किम् । यत्र देवयजने विश्वेदेवासः सर्वे देवाः अजुषन्ताप्रीयन्त । प्रीत्या स्थिता इत्यर्थः । किंच । वयं रायो धनस्य पोषेण पुष्ट्या इषा इष्यमाणेनान्नेन च संमदेम । 'मदी हर्षे' व्यत्ययेन शप् । हृष्टा भवेम धनैरन्नैश्च तृप्येम । किं कुर्वन्तः । ऋक्सामाभ्याम् ऋक् च साम च ऋक्सामे 'अचतुर-(पा० ५।४ । ७७ ) इति सूत्रेणाजन्तो निपातः । ताभ्यां यजुर्भिश्च वेदत्रयगतमन्त्रैः संतरन्तः । समुद्रवद्गम्भीरं सोमयागं समापयन्त इत्यर्थः । 'दक्षिणं गोदानं वितार्योनत्तीमा आपः' (का. ७।२।९) इति । इमा आपः । आपो देवताः । इमा आपः शिरःक्लेदाय सिच्यमाना एता आपो मे मम यजमानस्य शमु । उ एवार्थे । शं सुखार्थमव्ययम् । शं सुखकारिण्य एव सन्तु भवन्तु । किंभूता आपः । देवीः देव्यः दीव्यन्ति ताः देव्यः द्योतनाः । निर्मला इत्यर्थः । 'यूपवत् कुशतरुणं क्षुरेण चाभिनिधाय छित्त्वेति' (का. ७ । २ । १०-११)। यथा पश्वर्थयूपस्य छेदे मन्त्रः एवमत्रापि तृणान्तर्धानं क्षुरस्थापनं च मन्त्रद्वयेन कर्तव्यमिति सूत्रार्थः । ओषधे । कुशतरुणं देवता । हे ओषधे कुशतरुण, त्वं यजमानं त्रायस्व क्षुराद्रक्ष । स्वधिते । क्षुरो देवता । हे स्वधिते क्षुर, एनं यजमानं मा हिंसीः ॥१॥
 
पङ्क्तिः २९७:
तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो॒ य॒न्त्रम॑शीय॒ स्वाहा॑ । शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि ।। १८ ।।
उ० तस्यास्ते तव सत्यसवसः अवितथाभ्यनुज्ञायाः। प्रसवे अभ्यनुज्ञायां वर्तमानाः । तन्वो यन्त्रम् अशीय शरीरस्य यमनं दार्ढ्यम् अशीय व्याप्नुयाम् आ यज्ञसमाप्तेः । हिरण्यमुद्धरति । शुक्रमसि अग्ने रेतोसि । चन्द्रमसि । 'चदि आह्लादने' । 'अमृतमसि' अमरणधर्मासि । वैश्वदेवमसि सर्वदेवत्यमसि इति ॥ १८ ॥
म० सत्यं सवो यस्याः सा सत्यसवाः तस्याः सत्यसवसोऽवितथाभ्यनुज्ञायाः। तस्यास्ते तथाविधायास्तव वाचः प्रसवेऽनुज्ञायां वर्तमानोऽहं तन्वः शरीरस्य यन्त्रं नियमनं दार्ढ्यमशीय प्राप्नुयाम् । स्वाहा इदमाज्यं हुतमस्तु । 'शुक्रमसीति हिरण्यमुद्धृत्य वेद्यां तृणं निदधातीति' (का० ७ । ६ । १०)। जुह्वां बद्ध्वा स्थापितं हिरण्यमुद्धरेत् । शुक्रमसि । हिरण्यं देवता । हे हिरण्य, त्वं शुक्रमसि । शोचते शुक्रम् । 'शुच दीप्तौ' । दीप्यमानमसि । तथा चन्द्रमाह्लादकमसि । 'चदि आह्लादने' । चन्दतीति चन्द्रम् । अमृतं विनाशरहितमसि । अग्निसंयोगेऽपि हिरण्यस्य विनाशाभावः प्रसिद्धः । 'अग्नौ सुवर्णमक्षीणम्' इति याज्ञवल्क्योक्तेः । वैश्वदेवमसि । विश्वेषां देवानामिदं वैश्वदेवं सर्वदेवसंबन्धि । सर्वोऽपि देवो हिरण्यदानेन तुष्येत् ॥ १८॥ </span></poem>
 
 
एकोनविंशी।
[[File:सोमक्रयणम् Soma purchase.jpg|thumb|सोमक्रयणम् ]]
<poem><span style="font-size: 14pt; line-height:200%">एकोनविंशी।
चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी ।
सा न॒: सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीतां पू॒षाऽध्व॑नस्पा॒त्विन्द्रा॒याध्य॑क्षाय ।। १९ ।।
Line ३५१ ⟶ ३५३:
परि॑ माग्ने॒ दुश्च॑रिताद्बाध॒स्वा मा॒ सुच॑रिते भज । उदायु॑षा स्वा॒युषोद॑स्थाम॒मृताँ॒२ अनु॑ ।। २८ ।।
उ० गृहीतसोमं वाचयति । परि माग्ने । आग्नेयी पुरस्ताद्बृहती । हे भगवन्नग्ने, परिबाधस्व परित्रायस्व मां दुश्चरितात्पापाचरणात् । आभज माम् आसेवस्व मां सुचरिते वर्तमानम् । उत्तिष्ठति । उदस्थाम् उत्तिष्ठामि आयुषा निमित्तभूतेन चिरंजीवनाय स्वायुषा निमित्तभूतेन शोभनेन प्रकारेण दानहोमयागादिभिः । येनास्मदीयमायुर्यात्यनेन च हेतुना उदस्थाम् उत्तिष्ठामि च । अमृतान् देवाननु अतः परिमाग्ने दुश्चरिताद्बाधस्वेति संबन्धः । अमृतशब्देनात्र बहुवचनान्तेन सोमोऽभिधीयते । आगते सोमे दीक्षित उत्तिष्ठति । तस्यैषा प्रायश्चित्तिः ॥ २८ ॥
म० 'गृहीतसोमं परि माग्न इति वाचयतीति' ( का० ७ । ९ । १) । अग्निदेवत्या पुरस्ताद्बृहती । यस्या आद्यो द्वादशाक्षरस्त्रयोऽष्टाक्षराः पादाः सा पुरस्ताद्बृहती । 'आद्यश्चेत्पुरस्ताद्बृहती' इत्युक्तेः । हे अग्ने, दुश्चरितात्पापान्मा मां परिबाधस्व परितो निवारय । मे पापे प्रवृत्तिर्मा भूदित्यर्थः ।| सुचरिते शोभने चरिते सदाचाररूपे पुण्ये मा मां यजमानमाभज सर्वतो भज स्थापयेत्यर्थः (का० ७।९।३)। उदायुषेत्युत्थानमिति । उदायुषा उत्कृष्टेन चिरजीवनलक्षणेनायुषा निमित्तेन तथा स्वायुषा यागदानादिना शोभनेनायुषा निमित्तभूतेन अमृताननु सोमादिदेवाननुसृत्य उदस्थामहमुत्थितवानस्मि । तिष्ठतेर्लुङि रूपम् ॥ २८ ॥</span></poem>
 
 
एकोनविंशी। ।
[[File:सोमस्य शकटारोहणम् Soma in Chariot.jpg|thumb|सोमस्य शकटारोहणम्]]
<poem><span style="font-size: 14pt; line-height:200%">एकोनविंशी। ।
प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म् । येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ।। २९ ।।
उ० अनोऽभ्येति प्रति पन्थाम् । अनुष्टुप् । पन्थानं स्तौति । प्रत्यपद्महि प्रतिपद्येमहि पन्थानम् । स्वस्तिगाम् - अविनाशेन यत्र गम्यते तं स्वस्तिगाम् । अनेहसम् । एह इत्यपराधनाम । न विद्यते यत्र गतानामपराधः स तथोक्तः । किंच । येन पथा गच्छन् विश्वाः सर्वाः परिवृणक्ति परिवर्जयति । 'वृजी वर्जने' । द्विषः दुष्टान् । किंच विन्दते वसु लभते धनम् ॥ २९॥ ।
Line ४१० ⟶ ४१४:
 
{{टिप्पणी|
४.१ स्वधिते मैनꣳ हिꣳसीः --
 
दीक्षारम्भे केशवपनं सांकेतिकरूपेण क्षुरेण भवति, किन्तु आन्तरिकरूपे नैसर्गिकरूपे भवतु, अयं अपेक्षितमस्ति, तथैव यथा कैमोथीरैपी कैंसरचिकित्साकाले केशाः पतन्ति। अस्य कारणं अयमस्ति यत् देहे नवीनकोशिकानां सर्जनं अस्थायीरूपेण विरमति। कालक्रमेण यदा यज्ञे प्रगतिः भवति, केशाः नवीनरूपं धारयन्ति।
 
४.१२ श्वात्राः पीता भवत यूयमापो इति-
 
एका साधना श्वा साधना अस्ति, एका अश्वा, अद्यैव। सोमयागे उद्देश्यं भवति यत् सर्वस्य सोमस्य परिष्कारं अद्यैव भवतु, न श्वकाले। किन्तु व्यावहारिकरूपेण अयं संभवं नास्ति। अतएव, तृतीयसवनकालोपरान्तं यस्य सोमस्य परिष्कारं न भवति, तस्य परिष्कारं श्वकाले करणीयं भवति। दीक्षायाः संदर्भे अपसः अपेक्षा अस्ति यत् ते श्वात्राः भवन्तु। ऋग्वेदे अग्नि, सोमादिभ्यः अपि अपेक्षा अस्ति यत् ते श्वात्राः भवन्तु।
 
द्र. [http://vipin110012.tripod.com/pur_index28/shyavashabala.htm श्याव-शबलोपरि टिप्पणी], [http://vipin110012.tripod.com/pur_index28/shunah.htm शुनः उपरि टिप्पणी]
 
}}
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्