"शुक्लयजुर्वेदः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०२:
ग॒य॒स्फ़ान॑: प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ।। ३७ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां चतुर्थोऽध्यायः।।४।।
उ० सोमं प्रवेशयन्वाचयति । या ते धामानि । सौमी त्रिष्टुप् । हे सोम, या ते धामानि । '[http://puranastudy.000space.com/pur_index15/dhama.htm धामानि] त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति' । यानि तव संबन्धीनि धामानि नामानि हविषा यजन्ति यष्टारः । ता ते विश्वाः तानि ते सर्वाणि । परिभूः । नपुंसकबहुवचनस्थाने पुंलिङ्गैकवचनम् । परिभूणि सर्वतो भवितॄणि । अस्तु । एतदपि बहुवचनं वाच्यसंयोगात् । सन्तु यज्ञं यज्ञं सर्वतो गृह्ये भवन्त्वित्यर्थः । यद्वा यज्ञशब्देन प्रथमान्तानि च धामानि तव विश्वानि नामानि यज्ञः परिभूः भवतु । यज्ञः परिगृह्य वर्ततामित्यर्थः । त्वं च । गयस्फानः गृहस्य पुत्रपशुभूहिरण्यादिभिर्वर्धयिता । प्रतरणः प्रतरन्ति येनापदः स प्रतरणः। सुवीरः शोभनवीरः । अवीरहा अहन्ता वीराणाम् । प्रचर इत्थंभूतस्त्वं परिभ्रम । सोम दुर्यान् गृहानस्मदीयान् ॥ ३७॥ इति उवटकृतौ मन्त्रभाष्ये चतुर्थोऽध्यायः ॥ ४ ॥
म० 'या त इति वाचयतीति' (का. ७ । ९ । ३२) । सोमदेवत्या त्रिष्टुप् गोतमदृष्टा । हे सोम, ते तव यां यानि धामानि प्रातःसवनादीनि स्थानानि प्राप्येति शेषः । हविषा त्वदीयरसरूपेण यजन्ति ऋत्विजो यागं कुर्वन्ति । यज्ञमभिलक्ष्येति शेषः । ते तव ता तानि विश्वा विश्वानि सर्वाणि स्थानानि परिभूरस्तु । परितो भवति प्राप्नोतीति परिभूः । 'भू प्राप्तौ' । भवान् परितः प्राप्तवान् भवतु । ऋत्विजो येषु स्थानेषु यजन्ति तानि त्वं प्राप्नुहीत्यर्थः । यद्वा ऋत्विजो यानि धामानि प्राप्य यजन्ति तानि सर्वाणि ते तव यज्ञं परिभूरस्तु यज्ञं परितो भवितॄणि यज्ञव्यापकानि सन्तु । नपुंसकबहुवचनस्थाने पुंलिङ्गैकवचनमार्षम् । किंच हे सोम, त्वं दुर्यान् गृहान् प्रचर प्राप्नुहि । दुर्या इति गृहनाम 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५.) इति संहितायां प्रचरेति दीर्घः । किंभूतस्त्वम् । गयस्फानः गय इति गृहनाम । (निघ० ३ । ४ । १)। 'स्फायी वृद्धौ । गयान्स्फाययतीति गयस्फानः गृहाभिवर्धकः । प्रतरणः प्रकर्षेण तरन्त्यापदो येन स प्रतरणः । यद्वा प्रतारयति यज्ञपारं प्रापयतीति प्रतरणः । सुवीरः शोभनास्त्वत्प्रसादलब्धा वीरा अस्मत्पुत्रपौत्रा यस्य तव स त्वं सुवीरः । अवीरहा न वीरान्हन्तीति । वीराणां परिपालक इत्यर्थः ॥ ३७ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे। शालागमाद्वाचनान्तश्चतुर्थोऽध्याय ईरितः ॥ ४ ॥
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्