"कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १०:
; दर्शपूर्णमासेष्टिः
 
<poem><span style="font-size: 14pt; line-height: 200%">पूर्वां पौर्णमासीमुत्तरां वोपवसेत् १ अग्न्यन्वाधानमध्वर्युर्यजमानो वा २ ममाग्ने--- व्वर्च्चो व्विहवेष्वस्तु व्वयं त्वेन्धानास्तन्वं पुषेम। मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेमेत्याहवनीये समिधमादधाति ३ तूष्णीं द्वितीयाम् ४ एवमितरयोः ५ महाव्याहृतिभिर्वा प्राक्संस्थम् ६ तूष्णीं वा यथापूर्वम् ७ अहनि मांसमैथुने वर्जयेत् ८ केशश्मश्रु वपते वाऽशिखम् ९ अपराह्णे व्रतोपायनीयमश्नीतः सर्पिषाऽसुहितौ १० अन्तरेणाऽपराग्नी गत्वा परेणा-ऽहवनीयं प्राङ् तिष्ठन्नग्निमीक्षमाणोऽप उपस्पृश्य व्रतमुपैत्यग्ने व्रतपत इदमहमिति वा ११ सत्यवाद्यतः १२ कर्माऽङ्गमुत्तरे सत्यवदनम् १३ वृक्षाऽरण्यौषधीनामश्नीयाद्वा १४ आहवनीयगृहशाय्यधो गार्हपत्यस्य वा १५ सद्यो वा प्रातः १६ अग्निहोत्रं हुत्वा ब्रह्माणं ब्रह्मिष्ठं भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इति १७ वृतो जपति अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्भूर्भुवस्स्वर्देव सवितरेतं त्वा वृणते बृहस्पतिं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्र्! यै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यो बृहस्पतिर्देवानां ब्रह्माऽहं मनुष्याणाम् इति १८ वाचस्पते यज्ञं गोपायेत्याह १९ अपरेण वाऽहवनीयं दक्षिणाऽतिक्रामति २० अहे दैधिषव्योदतस्तिष्ठाऽन्यस्य सदने सीद योऽस्मात्पाकतर इति ब्रह्मसदनमीक्षते २१ ब्रह्मसदनात्तृणं निरस्यति निरस्तः पाप्मा सह तेन द्विष्म इति २२ १ 2.1
 
इदमहं बृहस्पतेः सदसि सीदामि प्रसूतो देवेन सवित्रा तदग्नये प्रब्रवीमि तद्वायवे तत्पृथिव्या इति ब्रह्मसदन आहवनीयाऽभिमुख उपविशति १ वाग्यत आऽनुयाजप्रसवात् २ भागपरिहरणादि वा ३ आवृताऽवषट्का-रासु ४ अत्र वा व्रतोपायनम् ५ व्याहृत्य वैष्णवं मन्त्रं जपेत् ६ अध्वर्युश्च ७ प्रणय यज्ञं देवता वर्द्धय त्वं नाकस्य पृष्ठे यजमानोऽस्तु । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यजमानं धेहि ॐ प्रणय इति प्रणीताः प्रसौति ८ एवमामन्त्रित ओङ्कारेण प्रोक्ष यज्ञमिति हविषीध्माबर्हिषोश्च ९ बृहस्पते परिगृहाण वेदिं सुगावो देवाः सदनानि सन्त्वस्यां बर्हिः प्रथतां साध्वन्तर्हिंस्रां पृथिवी देवी देव्यस्तु इति वेदिं परिगृह्णन्तम् १० प्रजापतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम् ११ देवता वर्द्धय त्वमिति सर्वत्राऽनुषजति १२ मित्रस्य त्वा चक्षुषा प्रतीक्षेति प्राशित्रं प्रतीक्षते १३ देवस्य त्वेति प्रतिगृह्णाति १४ पथिव्यास्त्वेति सादयाति उपोह्य बर्हीषि १५ पुनरादाय देवस्य त्वेत्यनामिकाऽङ्गुष्ठाभ्यामग्नेष्ट्वेति प्राश्नाति दन्तैर-नुपस्पृशन्नत्र चेत् १६ निदधाति वांऽसदेशे १७ प्रक्षाल्य पात्रं नाभिमालभते या अप्स्वन्तर्देवतास्ता इदं शमयन्तु स्वाहाकृतं जठरमिन्द्र स्य गच्छ घसिना मे मा संपृक्था ऊर्ध्वं मे नाभेः सीदेन्द्र स्य त्वा जठरे सादयामि इति १८ एतं त इति समिदामन्त्रितः प्रसौति १९ प्रतिष्ठेति ब्रुयाद्वा २० कर्माऽपवर्गे समिधमादधाति जुहोत्युपतिष्ठते वा नमः कृताय कर्मणे अकृताय कर्मणे नमः । अयाड यज्ञं जातवेदा अन्तरः पूर्वोऽस्मिन्निषद्य सन्वं सनिं सुविमुचा विमुञ्च धेह्यस्मभ्यं द्र विणं जातवेदः स्वाहा इति यथेतमेत्य । एतदब्रह्मत्वमिष्टिपश्वोः २२ २ 2.2